१६. समारोपनहारविभङ्गवण्णना

५०. सुत्तेन गहितेति सुत्ते वुत्ते. पदट्ठानग्गहणं अधिट्ठानविसयदस्सनत्थं, वेवचनग्गहणं अधिवचनविभागदस्सनत्थन्ति योजना. विसयाधिट्ठानभावतोति विसयसङ्खातपवत्तिट्ठानभावतो. वनीयतीति भजीयति. वनतीति भजति सेवति. वनुतेति याचति, पत्थेतीति अत्थो. पञ्च कामगुणा कामतण्हाय कारणं होति आरम्मणपच्चयताय. निमित्तग्गाहो अनुब्यञ्जनग्गाहस्स कारणं होति उपनिस्सयतायाति एवं सेसेसुपि यथारहं कारणता वत्तब्बा.

५१. ‘‘काये कायानुपस्सी विहराही’’तिआदीसु यं वत्तब्बं, तं हेट्ठा लक्खणहारविभङ्गवण्णनायं (नेत्ति. अट्ठ. २३) वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – रूपधम्मपरिञ्ञायाति रूपूपिकविञ्ञाणट्ठितिपरिञ्ञाय.

‘‘दुक्ख’’न्ति पस्सन्ती सा वेदनानुपस्सनाति योजेतब्बं. वेदनाहेतुपरिञ्ञायाति फस्सपरिञ्ञाय. ‘‘वेदनावसेना’’ति पदेन अत्तना उप्पादितदुक्खवसेन. वेदनापरिञ्ञायाति वेदनूपिकविञ्ञाणट्ठितिपरिञ्ञाय. निच्चाभिनिवेसपटिपक्खतो अनिच्चानुपस्सनायाति अधिप्पायो. निच्चसञ्ञानिमित्तस्साति निच्चसञ्ञाहेतुकस्स. सञ्ञापरिञ्ञायाति सञ्ञूपिकविञ्ञाणट्ठितिपरिञ्ञाय. पठममग्गवज्झत्ता अगतिगमनस्स वुत्तं ‘‘दिट्ठाभिनिवेसस्स…पे… अगतिगमनस्स चा’’ति.

सङ्खारपरिञ्ञायाति सङ्खारूपिकविञ्ञाणट्ठितिपरिञ्ञाय.

समारोपनहारविभङ्गवण्णना निट्ठिता.

निट्ठिता च हारविभङ्गवण्णना.