१. देसनाहारसम्पातवण्णना
‘‘एव’’न्तिआदि हारसम्पातदेसनाय सम्बन्धदस्सनं. तत्थ पुरिमेन उपमाद्वयेन सुपरिकम्मकतमणिकोट्टिमसदिसी, सुविरचितजम्बुनदाभरणसदिसी च पाळि. तत्थ कतनानावण्णपुप्फूपहारसदिसी, विविधरंसिजालासमुज्जलबद्धनानारतनावलिसदिसी च हारविभङ्गदेसनाति दस्सेति. पच्छिमेन तस्स पणीतमहारहे जटाहि सद्धिं दुक्करतरतं दीपेति. यायं गाथा वुत्ताति योजना.
५२. यस्मायं हारविभङ्गवारो नप्पयोजेति यथावुत्तेन कारणेन, तस्मा सा हारविभङ्गवारस्स आदिम्हि न पच्चामट्ठाति अधिप्पायो. हारसम्पातवारो पन तं पयोजेतीति यस्मा पन हारसम्पातवारो तं गाथं पयोजेति यथावुत्तेनेव कारणेन, तस्मा ‘‘सोळस…पे… आहा’’ति आह. योजनानयदस्सनन्ति योजनाय नयदस्सनं.
तेनाति ‘‘तं मच्चुनो पद’’न्ति वचनेन. सब्बं विपल्लासन्ति द्वादसविधम्पि विपल्लासं. सामञ्ञस्स…पे… वोहरीयति यत्थ पतिट्ठितं सामञ्ञं, सो विसेसो. अत्थतो पन सञ्ञादयो एव रूपादिविसयं विपरीताकारेन गण्हन्ते विपल्लासोति दस्सेन्तो ‘‘सञ्ञाविपल्लासो’’तिआदिमाह.
इन्दजालादिवसेन मणिआदिआकारेन उपट्ठहन्ते उपादानक्खन्धपञ्चके अहंममादिकारणताय निरुत्तिनयेन ‘‘अत्ता’’ति वुच्चमानो तंबुद्धिवोहारप्पवत्तिनिमित्तताय अत्तभावो सुखादीनं वत्थुताय ‘‘अत्तभाववत्थू’’ति पवुच्चतीति आह ‘‘तेही’’तिआदि. तेसन्ति उपादानक्खन्धानं. विपल्लासानं पवत्तिआकारो ‘‘असुभे सुभ’’न्तिआदि. विसयो कायवेदनाचित्तधम्मा. अविज्जा च…पे… एव सम्मोहपुब्बकत्ता सब्बविपल्लासानं. च-सद्दो सुभसुखसञ्ञानन्ति एत्थापि आनेत्वा योजेतब्बो.
तत्थायं योजना – ‘‘अविज्जा च सुभसुखसञ्ञानं पच्चयो एव, न तण्हा एव, अविज्जा सुभसुखसञ्ञानञ्च पच्चयो, न निच्चअत्तसञ्ञानं एवा’’ति. एवं सन्तेपि पुरिमानं द्विन्नं विपरीतसञ्ञानं तण्हा, पच्छिमानं अविज्जा विसेसपच्चयोति दस्सेन्तो आह ‘‘तथापी’’तिआदि. अविज्जासीसेन चेत्थ दिट्ठिया गहणं वेदितब्बं. तेनाह ‘‘दिट्ठिनिवुतं चित्त’’न्ति, ‘‘यो दिट्ठिविपल्लासो’’ति च आदि, यथा च अविज्जासीसेन दिट्ठिया गहणं, एवं दिट्ठिसीसेन अविज्जायपि गहणं सियाति आह ‘‘दिट्ठिसीसेन अविज्जा वुत्ता’’ति. तण्हाविज्जासु सुभसुखसञ्ञानं यथा तण्हा विसेसपच्चयो, न एवं अविज्जा. निच्चअत्तसञ्ञानं पन यथा अविज्जा विसेसपच्चयो, न तथा तण्हाति दस्सेन्तो ‘‘मोहो विसेसपच्चयो’’ति आह.
पच्छिमानं द्विन्नं…पे… होतीति अतीतंसे तण्हाभिनिवेसस्स बलवभावाभावतो. तेनेव हि ‘‘सो अतीतं रूपं अत्ततो समनुपस्सति’’च्चेव वुत्तं, न ‘‘अभिनन्दती’’ति. तण्हाविपल्लासोति तण्हं उपनिस्साय पवत्तो विपल्लासो, न हि तण्हा सयं विपल्लासो. तेनाह ‘‘तण्हामूलको विपल्लासो’’ति. दिट्ठाभिनन्दनवसेनाति तण्हुपनिस्सयदिट्ठाभिनन्दनवसेन, यतो सो ‘‘तण्हाविपल्लासो’’ति वुत्तो. एतेनाति ‘‘यो तण्हाविपल्लासो’’तिआदिपाठेन. सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, पञ्च परमदिट्ठधम्मनिब्बानवादा च, यथा अत्तनो गताय, निब्बानप्पत्तिया च परिकप्पवसेन सुभसुखाकारग्गाहिनो, न एवं सत्त उच्छेदवादाति आह ‘‘येभुय्येना’’ति. पटिपक्खवसेनपीति विसुद्धिवसेनपि. याव हि उपक्किलेसा, ताव चित्तं न विसुज्झतेव. यदा च ते पहीना, तदा विसुद्धमेव. तेनाह ‘‘न ही’’तिआदि. ‘‘अरक्खितेन चित्तेना’’ति पाळिं निक्खिपित्वा विपल्लासमुखेनेव देसनाय निद्धारियमानत्ता वुत्तं ‘‘यथानुसन्धिनाव गाथं निट्ठपेतु’’न्ति.
मारस्साति किलेसमारस्स. तस्स हि वसे ठितो सेसमारानं हत्थगतो एवाति. तेनाह ‘‘किलेसमारग्गहणेनेवा’’तिआदि.
मारबन्धनन्ति सत्तमारपक्खे मारस्स बन्धनन्ति मारबन्धनं. सो हि किलेसबन्धनभूते अत्तनो समारकपरिसे मञ्ञति. तेन वुत्तं ‘‘अन्तलि…पे… मोक्खसी’’ति (महाव. ३३). इतरमारपक्खे मारोव बन्धनन्ति मारबन्धनं. विसङ्खारो निब्बानं.
मोहसम्पयोगतो चित्तं ‘‘मूळ्ह’’न्ति वुत्तन्ति रत्तदुट्ठानम्पि मूळ्हताय सब्भावे ‘‘मूळ्ह’’न्ति विसुं वचनं आवेणिकमोहवसेन वुत्तन्ति दस्सेन्तो ‘‘द्विन्नं मोमूहचित्तुप्पादानं वसेना’’ति आह. एवन्ति एवं रागादिअकुसलप्पत्तिया कुसलभण्डच्छेदनतो अरक्खितं चित्तं होति, सब्बोपि मिच्छाभिनिवेसो एत्थेव सङ्गहं समोसरणं गच्छतीति आह ‘‘मिच्छादिट्ठि …पे… वेदितब्ब’’न्ति. सब्बेपीति ‘‘अरक्खितं, मिच्छादिट्ठिहतं, थिनमिद्धाभिभूत’’न्ति तीहिपि पदेहि वुत्तधम्मा.
चक्खुनाति द्वारेन. रूपन्ति विसभागवत्थुसन्निस्सितं रूपायतनं. निमित्तग्गाहीति ‘‘इत्थी’’ति वा पुरिसो’’ति वा ‘‘सुभ’’न्ति वा ‘‘असुभ’’न्ति वा परिकप्पितनिमित्तं गण्हाति, तस्स वा गहणसीलो. अनुब्यञ्जनग्गाहीति हत्थपादहसितकथितादिप्पभेदे किलेसानं अनु अनु ब्यञ्जनतो अनुब्यञ्जनसञ्ञिते आकारे गण्हाति, तेसं वा गहणसीलो. यत्वाधिकरणन्ति यं निमित्तं, निमित्तानुब्यञ्जनग्गहणनिमित्तन्ति अत्थो. एवं ‘‘चक्खुन्द्रियं असंवुतं विहरन्त’’न्ति, यो ‘‘निमित्तग्गाही, अनुब्यञ्जनग्गाही’’ति च वुत्तो पुग्गलो, तमेनं चक्खुन्द्रियं चक्खुद्वारं असंवुतं सतिकवाटेन अपिहितं कत्वा वत्तन्तं, तस्स च रूपस्स इट्ठाकारग्गहणे अभिज्झा, अनिट्ठाकारग्गहणे दोमनस्सं, असमपेक्खने मोहो मिच्छाभिनिवेसे मिच्छादिट्ठीति एवं अभिज्झाब्यापादा, अञ्ञे च लामकट्ठेन पापका अकोसल्लसम्भूतट्ठेन अकुसला धम्मा अन्वास्सवेय्युं अनु अनु पवत्तेय्युं.
तस्स संवराय न पटिपज्जतीति तस्स चक्खुद्वारस्स संवराय सतिकवाटेन पिदहनत्थं न पटिपज्जति. सा पन अप्पटिपत्ति चक्खुन्द्रियस्स अनारक्खासंवरस्स अनुप्पादोति दस्सेन्तो ‘‘न रक्खति…पे… आपज्जती’’ति आह. जवने उप्पज्जमानोपि हि असंवरो तेन द्वारेन पवत्तनतो ‘‘चक्खुन्द्रियासंवरो’’त्वेव वुच्चतीति. सेसद्वारेसुपि वुत्तनयेनेव अत्थो वेदितब्बो. ‘‘पुब्बन्तकप्पनवसेन चा’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘सङ्खेपतो च वित्थारो अञ्ञो’’ति कत्वा तं समुच्चिनन्तो ‘‘या च खो इमा’’तिआदिमाह.
यथावुत्ता अकुसला धम्माति द्वादस अकुसलचित्तुप्पादधम्मा, तेसं वत्थूनि वा. ते हि समुदयवज्जा पञ्चुपादानक्खन्धा. ‘‘एव’’न्ति इमिना नेत्तिपाळियं, अट्ठकथायञ्च निद्धारितप्पकारेन. इधाति इमिस्सं ‘‘अरक्खितेन चित्तेना’’ति गाथायं.
यदिपि देसनाहारसम्पातपाळियं ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथा सरूपतो न गहिता, अत्थतो पन ‘‘तेसं भगवा परिञ्ञाया’’तिआदिना गहिता एवाति तस्सा गहितभावं विभावेतुं ‘‘कथं देसेती’’ति पुच्छित्वा ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथं उद्धरि.
योनिसोमनसिकारेन कम्मं करोन्तोति ‘‘सो ‘इदं दुक्ख’न्ति योनिसो मनसि करोती’’तिआदिना नयेन विपस्सनासङ्खातेन योनिसोमनसिकारेन भावनाकम्मं करोन्तो, भावेन्तोति अत्थो. यथाभूतञाणन्ति ञातपरिञ्ञाय पुब्बभागविपस्सनाय ‘‘अविज्जासमुदया रूपसमुदयो, अविज्जानिरोधा रूपनिरोधो’’तिआदिना (पटि. म. १.५०) समपञ्ञासाय आकारेहि. निरयगतियं दुक्खदुक्खता, सुगतिविसेसे ब्रह्मलोकेकदेसे सङ्खारदुक्खता, इतरत्थ द्वे तिस्सोपीति दस्सेन्तो आह ‘‘यथासम्भवं तिविधदुक्खतायोगेना’’ति.
देसनाहारसम्पातवण्णना निट्ठिता.