१५. परिक्खारहारविभङ्गवण्णना
४९. ‘‘हिनोती’’ति पदस्स अत्थं दस्सेन्तो ‘‘कारणभावं गच्छती’’ति आह अनेकत्थत्ता धातूनं. एतीति आगच्छति, उप्पज्जतीति अत्थो.
अविज्जायपि हेतुभावेति एत्थ अविज्जा अनन्तराय अविज्जाय अनन्तरसमनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि, अनन्तराय पन सहजाताय सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतहेतुपच्चयेहि, असहजाताय उपनिस्सयकोटिया एव पच्चयो होतीति वेदितब्बं. अत्तनो फलं करोतीति कारणन्ति आह ‘‘कारणभावो च फलापेक्खाया’’ति.
निब्बत्तिअत्थो फलत्थो फलसङ्खातो अत्थो.
यो सभावोति पुञ्ञादिअभिसङ्खारानं यो अभिसङ्खरणसभावो, सो हेतु. सेसपदेसूति विञ्ञाणादिपदेसु. यथावुत्तप्पभेदोति ‘‘असाधारणलक्खणो हेतू’’तिआदिना वुत्तप्पभेदो. यो कोचि पच्चयोति जनकादिभेदं यं किञ्चि कारणं. अभिसङ्खरणतोति पच्चक्खतो, परम्पराय च निब्बत्तनतो.
परिक्खारहारविभङ्गवण्णना निट्ठिता.