१४. अधिट्ठानहारविभङ्गवण्णना
४६. धारयितब्बाति उपधारेतब्बा, उपलक्खितब्बाति अत्थो. वुत्तमेव ‘‘सामञ्ञविसेसकप्पनाय वोहारभावेन अनवट्ठानतो’’तिआदिना (नेत्ति. अट्ठ. १४).
तं तं फलन्ति निरयादिं तं तं फलं. अञ्चिताति गता. योनीति एकजाति. समानवसेन मिस्सीभवति एतायाति हि योनि, उपपत्ति. पेच्चाति मरित्वा. उस्सन्नतायाति वितक्कबहुलताय. ‘‘उस्सन्नत्ता’’तिपि वदन्ति. सस्सतादीहि वा उस्सन्नत्ता. असुरजातिया निब्बत्तापनको असुरजातिनिब्बत्तनको.
सङ्खाति पञ्ञा. पञ्ञापधाना च भावनाति आह ‘‘पटिसङ्खाय पटिपक्खभावनाया’’ति.
४७. पत्थटभावेन पथवी. सभावधारणट्ठेन, निस्सत्तनिज्जीवट्ठेन च धातु. आपीयति, अप्पायतीति वा आपो. तेजनवसेन तिक्खतावसेन, दहनवसेन वा तेजो. वायनवसेन वेगगमनवसेन, समुदीरणवसेन वा वायो. वीसति आकाराति केसादयो वीसति कोट्ठासा, पकारा वा. कक्खळलक्खणाधिकताय केसादी कक्खळलक्खणा वुत्ता.
पाटियेक्को पथवीधातुकोट्ठासोति पथवीकोट्ठासमत्तो, अत्तसुञ्ञधम्ममत्तोति अत्थो. सन्तप्पतीति एत्थ सरीरपकतिमतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो, अयमेतेसं विसेसो. येन च जीरीयतीति एकाहिकादिजरारोगेन जरीयतीति च अत्थो युज्जति. ‘‘सतवारं तापेत्वा तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पी’’ति वदन्ति. रसरुधिरमंसमेदन्हारुअट्ठिअट्ठिमिञ्जा रसादयो. केचि न्हारुं अपनेत्वा सुक्कं सत्तमं धातुं वदन्ति. विवेकन्ति विसुंभावं, विसदिसभावन्ति अत्थो. वत्थुसङ्खातो हि आहारो परिणामं गच्छन्तो पाणभक्खगहणिपदनिय मुत्तकरीसभावेहि विय अत्तनापि विसदिसरससङ्खातं विसुंभावं निब्बत्तेन्तो तब्भावं गच्छतीति वुच्चति, तथा रसादयोपि रुधिरादिकोट्ठासं. तेनाह ‘‘रसादिभावेन विवेकं गच्छती’’ति.
सभावलक्खणतोति असुचिभावेन लक्खितब्बतो.
४८. याथावसरसलक्खणन्ति रसितब्बोति रसो, पटिविज्झितब्बो सभावो, अत्तनो रसो सरसो, याथावो सरसो, याथावसरसो याथावसरसो एव लक्खितब्बत्ता लक्खणन्ति याथावसरसलक्खणं. अथ वा याथावसरसलक्खणन्ति अविपरीतं अत्तनो पवत्तिसङ्खातं किच्चञ्चेव पीळनसङ्खातं लक्खणञ्च. ‘‘इदं किच्चं, इदं लक्खण’’न्ति अविज्जाहेतु ञातुं न सक्कोति, तब्बिसयञाणुप्पत्तिं निवारेन्ती छादेत्वा परियोनन्धित्वा तिट्ठतीति वुत्ता. तेन वुत्तं ‘‘जानितुं पटिविज्झितुं न देती’’ति. तयिदमस्सा किच्चन्ति किच्चतो कथिता. कथिताति च वुत्ता, यतो च अविज्जा असम्पटिवेधरसाति वुच्चति. जायति एत्थाति जाति, उप्पत्तिट्ठानं. यदिपि निरोधमग्गे अविज्जा आरम्मणं न करोति, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गहणस्स कारणभावेन पवत्तमाना तत्थ उप्पज्जतीति वुच्चति, तेसम्पि अविज्जाय उप्पत्तिट्ठानता होति, इतरेसं आरम्मणभावेन चाति.
अत्थानत्थन्ति हिताहितं. सम्मोहविनोदनियं पन ‘‘अत्थत्थ’’न्ति (विभ. अट्ठ. २२६) वुत्तं, तत्थ अत्थो एव अत्थत्थोति अत्थस्स अविपरीततादस्सनत्थं दुतियेन अत्थसद्देन विसेसनं. न हि ञाणं अनत्थे ‘‘अत्थो’’ति गण्हातीति. कारणाकारणन्ति एत्थापि एवं दट्ठब्बं. अत्थत्थन्ति वा आमेडितवचनं सब्बेसं अत्थानं पाकटकरणभावप्पकासनत्थं, फलं फलन्ति अत्थो, हितपरियायेपि एसेव नयो. न्ति अत्थानत्थादिकं. आकारन्ति अत्थादिकारणमेव.
पटिविद्धस्स पुन अवेक्खना पच्चवेक्खणा. दुचिन्तितचिन्तितादिलक्खणस्स बालस्स भावो बाल्यं. सम्पजानातीति समं पकारेहि जानाति. बलवमोहो पमोहो. समन्ततो मोहनं सम्मोहो. दुग्गतिगामिकम्मस्स विसेसपच्चयत्ता अविन्दियं. विन्दतीति लभति. अनवज्जधम्मानं विज्जा विय विसेसपच्चयो न होतीति विन्दियं न विन्दति. अयं अविज्जाय वेमत्तताति अयं ‘‘दुक्खे अञ्ञाण’’न्तिआदिना किच्चजातिलक्खणेहि वुत्तो अविज्जाय अविसेसो. विज्जातिआदीनं वुत्तनयानसारेन अत्थो वेदितब्बो.
पासाणसक्खरवालिकाविरहिता भूमि सण्हाति ‘‘सण्हट्ठेना’’ति वुत्तं.
तत्तकमेव कालन्ति पञ्चकप्पसतानि. विभूतं समत्तिक्कन्तं रूपसञ्ञासङ्खातं रूपं एतायाति विभूतरूपं, समापत्तिन्ति पदत्थो. न हि काचि अरूपसमापत्ति रूपसञ्ञासहगता पवत्तीति. निरोधसमापत्तियं वत्तब्बमेव नत्थि, तत्थ नेवसञ्ञानासञ्ञायतनसमापत्तिया विसुं गहितत्ता वुत्तं ‘‘सेसारुप्पसमापत्तियो’’ति.
दमथं अनुपगच्छन्तो दुट्ठस्सो खलुङ्कस्सो. उत्तरिदमथायाति अरियमग्गदमथाय.
इतरोति दुक्खापटिपदो खिप्पाभिञ्ञो, सुखापटिपदो च खिप्पाभिञ्ञो. उभयतोभागेहीति रूपकायनामकायभागेहि. उभयतोति विक्खम्भनसमुच्छेदविमुत्तिवसेन.
अनेकोपीति सभावेन अनेकोपि. एकसद्दाभिधेय्यतायाति सामञ्ञसद्दाभिधेय्यताय.
अधिट्ठानहारविभङ्गवण्णना निट्ठिता.