१३. सोधनहारविभङ्गवण्णना
४५. सोधेति नामाति पुच्छितमत्थं हत्थतले ठपितआमलकं विय पच्चक्खतो दस्सेन्तो निग्गुम्बं निज्जटं कत्वा विवरन्तो तब्बिसयअञ्ञाणसंसयादिमलापनयनेन सोधेति, एवं सोधेन्तो च पदस्स अत्थेन अभेदोपचारं कत्वा ‘‘पदं सोधेति’’च्चेव वुच्चति. तेनाह ‘‘पदं सोधेति नामा’’ति. पुच्छाय विस्सज्जनमेवेत्थ सोधनन्ति आह ‘‘तदत्थस्स विस्सज्जनतो’’ति. आरभीयतीति आरम्भो, देसनाय पकासियमानो अत्थो. तेनाह ‘‘न ताव…पे… पबोधितत्ता’’ति. इध सोधनं नाम पटिच्छन्नरूपस्स अत्थस्स देसनानुभावेन विवटभावकरणन्ति तमत्थं उपमाय विभावेतुं ‘‘अञ्ञाणपक्खन्दान’’न्तिआदि वुत्तं.
सोधनहारविभङ्गवण्णना निट्ठिता.