१२. ओतरणहारविभङ्गवण्णना

४२. इन्द्रियेहीति करणे करणवचनं ‘‘मग्गेन गच्छती’’तिआदीसु विय, ‘‘फरसुना छिन्दती’’ति एवमादीसु विय च. ओतरणाति अनुप्पवेसना.

पञ्ञाक्खन्धे सङ्गण्हनवसेन सम्मासङ्कप्पो वियाति योजना. अधिचित्तअनुयुत्तानं सद्दहनुस्सहनुपट्ठानसमादहनेहि सद्धादीसु उपकरोन्तेसु एव पञ्ञा दस्सनकिच्चं साधेतीति दस्सेन्तो ‘‘सद्धा..पे… वुत्तानी’’ति आह. नो च भवङ्गाति तेसं सङ्खारानं पवत्तिकारणताभावं दस्सेति.

४३. तथा वुत्तोति ‘‘निस्सयो’’ति वुत्तो. चेतनासीसेन तण्हं एव वदति चेतनासहचरणतो.

रत्तस्साति मग्गेन असमुच्छिन्नरागस्स. येन पुग्गलो ‘‘रत्तो’’ति वुच्चति, तस्स रागस्स सम्बन्धिनी सुखा वेदना वुत्ता तत्थ तस्स अनुसयनतो. तेनाह ‘‘सुखाय…पे… वुत्त’’न्ति. एस नयो सेसेसुपि. तेनाह ‘‘तथा’’तिआदि.

तानि एव इन्द्रियानीति सुखसोमनस्सुपेक्खिन्द्रियानि. ‘‘सङ्खारपरियापन्नानी’’ति वचनं सन्धायाह ‘‘इध वेदनासीसेन चेतना वुत्ता’’ति. न हि वेदना सङ्खारक्खन्धपरियापन्ना होति. तण्हाय, दिट्ठियाति च उपयोगे करणवचनन्ति दस्सेन्तो ‘‘तण्हाया’’तिआदिमाह. इदानि उपयोगवसेनेव ‘‘तण्हाया’’तिआदीनं अत्थं दस्सेतुं ‘‘यथा वा’’तिआदिमाह. तत्थ सेसधम्मानन्ति तण्हावज्जितअविसिट्ठधम्मानं. तण्हाय निस्सयभावेति यदा तण्हा तेसं निस्सयो होति.

तण्हाय सेसधम्मानं पच्चयभावेति यदा सेसधम्मा तण्हापच्चया होन्ति. ‘‘करजकायसन्निस्सिता’’ति इमिना वेदनादिक्खन्धत्तयनिस्सितापि गहिता कायप्पस्सद्धिभावतो. कारणभावन्ति परम्परहेतुभावं. तण्हादिट्ठिउपयेनाति दिट्ठिउपयेन च दिट्ठिसहगततण्हाउपयेन च.

‘‘आगतीति इधागति, गतीति पेच्चभवो’’ति पदद्वयेन वुत्तमेवत्थं पाकटतरं कातुं पाळियं ‘‘आगतिगतीपि न भवन्ती’’ति वुत्तं. इध हुरन्ति द्वारारम्मणधम्मा दस्सिता आसन्नदूरभावेहि द्वारारम्मणेहि विनिवत्तेत्वा गहितत्ता. इध द्वारप्पवत्तधम्मा ‘‘उभयमन्तरेना’’ति पदस्स अत्थभावेन वुत्ता. चतुब्यूहहारे पन अनिन्द्रियबद्धरूपधम्मा तथा वुत्ता. कारणभूतेन अनन्तरपच्चयभूतेन, उपनिस्सयपच्चयभूतेन च. ये धम्मा उपादाय ‘‘अत्ता’’ति समञ्ञा, तेसं विञ्ञाणादिधम्मानं अभावेन अनुप्पादधम्मतं आपादितत्ताति अत्थो. ‘‘अनिस्सितस्स चलितं नत्थी’’तिआदिना पटिलोमतो पच्चयभावो दस्सितोति दस्सेन्तो पाळियं ‘‘एसेवन्तो दुक्खस्साति पटिच्चसमुप्पादो’’ति वत्वा ननु ‘‘अविज्जापच्चया सङ्खारा’’तिआदिको पटिच्चसमुप्पादोति चोदनं सन्धाय यथावुत्तस्स पटिच्चसमुप्पादभावं दस्सेतुं ‘‘सो दुविधो’’तिआदिना लोकियलोकुत्तरवसेन पटिच्चसमुप्पादो विभत्तो. तदत्थतायाति वीतरागविमुत्तिअत्थताय. तब्भावन्ति लोकुत्तरपटिच्चसमुप्पादभावं.

ओतरणहारविभङ्गवण्णना निट्ठिता.