१. देसनाहारविभङ्गवण्णना

५. अन्वत्थसञ्ञतन्ति अत्थानुगतसञ्ञभावं, ‘‘देसनाहारो’’ति अयं सञ्ञा अन्वत्था अत्थानुगताति अत्थो.

अवुत्तमेवाति पुब्बे असंवण्णितपदमेव. ‘‘धम्मं वो’’तिआदि (म. नि. ३.४२०) वचनस्स सम्बन्धं दस्सेतुं ‘‘कत्थ पना’’तिआदि वुत्तं. तेपिटकस्स हि बुद्धवचनस्स संवण्णनालक्खणं नेत्तिप्पकरणं, तञ्च परियत्तिधम्मसङ्गाहके सुत्तपदे संवण्णेतब्बभावेन गहिते गहितमेव होति. तेनाह ‘‘देसनाहारेन…पे… दस्सेती’’ति.

येसं अस्सादादीनं विभजनलक्खणो देसनाहारो, ते गाथाय, इधापि च आगते ‘‘अस्सादं आदीनव’’न्तिआदिना उदाहरणवसेन विभजितुं ‘‘तत्थ कतमो अस्सादो’’तिआदि आरद्धं. तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’ति गाथायं वुत्तो कतमो अस्सादो. अथ वा ‘‘अस्सादं आदीनव’’न्तिआदिना यो इध अस्सादादीनं उद्देसो, तत्थ कतमो अस्सादोति चेति अत्थो. एस नयो सेसेसुपि. कम्मकरणत्थभिन्नस्स विसयविसयितालक्खणस्स अस्सादद्वयस्स निदस्सनत्थं गाथाद्वयुदाहरणं, तथा कामविपरिणामलक्खणस्स, वट्टदुक्खलक्खणस्स चाति दुविधस्सापि आदीनवस्स निदस्सनत्थं ‘‘अरियमग्गो निब्बान’’न्ति दुविधस्सापि निस्सरणस्स निदस्सननिदस्सनत्थञ्च द्वे द्वे गाथा उदाहटा.

धम्मो हवे रक्खति धम्मचारिन्ति (जा. १.१०.१०२-१०३; नेत्ति. ५, २६, ३१; पेटको. २२) एत्थ धम्मचारिनो मग्गफलनिब्बानेहि सातिसयारक्खा सम्भवति, सम्पत्तिभवस्सापि विपरिणामसङ्खारदुक्खताहि दुग्गतिभावो इच्छितोवाति अधिप्पायेनाह ‘‘निस्सरणं अनामसित्वा’’ति. तथा हि वक्खति ‘‘निब्बानं वा उपनिधाय सब्बा उपपत्तियो दुग्गती’’ति.

अवेक्खस्सूति विधानं. तस्सा पन अवेक्खाय पवत्तिआकारो, विसयो, कत्ता च ‘‘सुञ्ञतो, लोकं, मोघराजा’’ति पदत्तयेन वुत्ताति आह – ‘‘सुञ्ञतो…पे… आणत्ती’’ति. तत्थ सङ्खारानं सुञ्ञता अनत्तसभावताय, अत्तसुञ्ञताय च सिया. यतो ते न वसवत्तिनो, अत्तसारविरहिता च, यतो ते अनत्ता, रित्ता, तुच्छा च अत्तना, तदुभयं दस्सेति ‘‘अवसवत्तिता’’तिआदिना. एवं मच्चुतरो सियाति एवं पटिपत्तिया मच्चुतरो भवेय्याति अत्थो. परिकप्पेत्वा विधियमानस्स मच्चुतरणस्स पुब्बभागपटिपदा देसनाय पच्चक्खतो सिज्झमानं सातिसयं फलन्ति आह ‘‘तस्स यं…पे… फल’’न्ति.

६. उदाहरणवसेनाति निदस्सनवसेन. तत्थ ‘‘पुग्गलविभागेना’’ति इमिना उग्घटितञ्ञुआदिपुग्गलपयोजितो अस्सादादीसु भगवतो देसनाविसेसोति दस्सेति.

घटितमत्तन्ति सोतद्वारानुसारेन मनोद्वारिकविञ्ञाणसन्तानेन आलम्बितमत्तं. सस्सतादिआकारस्साति सस्सतुच्छेदाकारस्स. इदञ्हि द्वयं धम्मदेसनाय चालेतब्बं, न अनुलोमिकखन्ति, यथाभूतञाणं वा. एतस्मिञ्हि चतुक्के आसयसामञ्ञता. वुत्तञ्हेतं –

‘‘सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका;

यथाभूतञ्च यं ञाणं, एतं आसयसञ्ञित’’न्ति. (विसुद्धि. महाटी. १.१३६; दी. नि. टी. १.पठममहासङ्गीतिकथावण्णना; सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना, वेरञ्जकण्डवण्णना; वि. वि. टी. १.वेरञ्जकण्डवण्णना);

चलनायाति विक्खम्भनाय. परानुवत्तियाति समुच्छेदनाय. उग्घटिते जानातीति उग्घटितञ्ञूति मूलविभुजादिपक्खेपेन सद्दसिद्धि वेदितब्बा. विपञ्चितन्ति ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय भावनपुंसकनिद्देसोति आह ‘‘मन्दं सणिक’’न्ति. निस्सरणआदीनवनिस्सरणअस्सादादीनवनिस्सरणानं विभावना वेनेय्यत्तयविनयनसमत्था.

चत्तारोति अस्सादो च आदीनवो च अस्सादो आदीनवो च अस्सादो निस्सरणञ्चाति एते चत्तारो. यदि निस्सरणविभावना वेनेय्यविनयनसमत्था, कस्मा पञ्चमो न गहितोति आह ‘‘आदीनवावचनतो’’ति. यदि हि उग्घटितञ्ञुं सन्धाय अयं नयो वुच्चति, निस्सरणमत्तेन सिद्धं सिया. अथ विपञ्चितञ्ञुं, नेय्यं वा, आदीनवो च निस्सरणञ्च अस्सादो च आदीनवो निस्सरणञ्च वत्तब्बो सिया? तथा अप्पवत्तत्ता न गहितो. तेनाह ‘‘आदीनवावचनतो’’तिआदि. देसनन्ति सामञ्ञतो गहितं ‘‘सुत्तेकदेसं गाथं वा’’ति विसेसेति. पदपरमअग्गहणञ्चेत्थ सउपायस्स निस्सरणस्स अनामट्ठत्ता.

‘‘कल्याण’’न्ति इमिना इट्ठविपाको, ‘‘पापक’’न्ति अनिट्ठविपाको अधिप्पेतोति आह ‘‘अयं अस्सादो, अयं आदीनवो’’ति. लाभादीनं पुञ्ञफलत्ता तदनुरोधं वा सन्धाय ‘‘अयं अस्सादो’’ति वुत्तं. तब्बिपरियायेन अलाभादीनं आदीनवता वेदितब्बा.

कामाति किलेसकामसहिता वत्थुकामा. विरूपरूपेनाति अप्पतिरूपाकारेन. मथेन्तीति मद्दन्ति. पब्बजितोम्हीति पब्बज्जं उपगतो अम्हि. अपण्णकन्ति अविरज्झनकं. सामञ्ञन्ति समणभावो. समितपापभावोयेव सेय्यो सुन्दरतरो.

तत्थ ‘‘कामा हि चित्रा मधुरा मनोरमा’’ति अयं अस्सादो, ‘‘विरूपरूपेन मथेन्ति चित्त’’न्ति अयं आदीनवो, ‘‘अपण्णकं सामञ्ञ’’न्ति इदं निस्सरणन्ति आह ‘‘अयं…पे… निस्सरणञ्चा’’ति.

फलादीनं एककवसेन च तिकवसेन च पाळियं उदाहटत्ता वुत्तं ‘‘दुकवसेनपी’’ति.

सुखा पटिपदा, दुक्खा पटिपदाति या द्वे पटिपदा, तासु एकेका दन्धखिप्पाभिञ्ञताय द्वे द्वे होन्तीति आह ‘‘पटिपदाभिञ्ञाकतो विभागो पटिपदाकतो होती’’ति. कतपुब्बकिच्चस्स पथवीकसिणादीसु सब्बपठमं ‘‘पथवी’’तिआदिना पवत्तमनसिकारो पठमसमन्नाहारो. उपचारन्ति उपचारज्झानं. पटिपज्जितब्बताय झानम्पि ‘‘पटिपदा’’ति वुच्चति. तदञ्ञा हेट्ठिमपञ्ञतो अधिका पञ्ञाति कत्वा ‘‘अभिञ्ञा’’ति वुच्चति.

किलेसेति नीवरणप्पकारे, तंसहगतकिलेसे च. अङ्गपातुभावन्ति वितक्कादिझानङ्गपटिलाभं.

अभिनिविसन्तोति पट्ठपेन्तो. रूपारूपं परिग्गण्हन्तोति रूपारूपधम्मे लक्खणादीहि परिच्छिन्दित्वा गण्हन्तो. परिग्गहितरूपारूपस्स मग्गपातुभावदन्धता च नामरूपववत्थानादीनं किच्छसिद्धिया सियाति न रूपारूपपरिग्गहकिच्छताय एव दुक्खापटिपदता वत्तब्बाति चे? न, नामरूपववत्थापनादीनं पच्चनीककिलेसमन्दताय सुखसिद्धियम्पि तथासिद्धविपस्सनासहगतानं इन्द्रियानं मन्दताय मग्गपातुभावतो. रूपारूपं परिग्गहेत्वाति अकिच्छेनपि परिग्गहेत्वा, किच्छेन परिग्गहिते वत्तब्बमेव नत्थि. एवं सेसेसुपि. नामरूपं ववत्थापेन्तोति ‘‘नामरूपमत्तमेतं, न अञ्ञो कोचि सत्तादिको’’ति ववत्थापनं करोन्तो. कतरो पनेत्थ वारो युत्तरूपोति? यो कोचि सकिं, द्विक्खत्तुं, अनेकसतक्खत्तुन्ति एवमादीसु हि विक्खम्भनवारेसु सकिं, द्विक्खत्तुञ्च विक्खम्भनवारो सुखा पटिपदा एव, न ततो उद्धं सुखा पटिपदा होति, तस्मा तिक्खत्तुं विक्खम्भनवारतो पट्ठाय दुक्खा पटिपदा वेदितब्बा. अपिच कलापसम्मसनावसाने उदयब्बयानुपस्सनाय उप्पन्नस्स विपस्सनुपक्किलेसस्स तिक्खत्तुं विक्खम्भनेन किच्छतावारो दुक्खा पटिपदा वेदितब्बा. एत्थ दन्धत्ता पटिपदाय एतस्स अकिच्छत्तेपि पुरिमानं किच्छत्ते दुक्खापटिपदता वुत्तनयाव. यस्स पन सब्बत्थ अकिच्छता, तस्स परमुक्कंसगता सुखा पटिपदा वेदितब्बा.

यथा नामरूपपरिग्गहकिच्छताय मग्गपातुभावदन्धताय दुक्खा पटिपदा दन्धाभिञ्ञा वुत्ता, तथा तब्बिपरियायेन चतुत्थी, तदुभयवोमिस्सतावसेन दुतिया, ततिया च ञातब्बाति दस्सेन्तो आह ‘‘इमिना…पे… वेदितब्बा’’ति. वट्टदुक्खतो निय्यानस्स अधिप्पेतत्ता ‘‘विपस्सनापक्खिका एवा’’ति वुत्तं.

हेतुपायफलेहीति एत्थ तण्हाचरितता, मन्दपञ्ञता च पठमाय पटिपदाय हेतु, तण्हाचरितता, उदत्थपञ्ञता च दुतियाय, दिट्ठिचरितता, मन्दपञ्ञता च ततियाय, दिट्ठिचरितता, उदत्थपञ्ञता च चतुत्थिया. उपायो पन यथाक्कमं सतिसमाधिवीरियपञ्ञिन्द्रियानि, सतिपट्ठानझानसम्मप्पधानसच्चानि च उपनिस्सयभूतानि. फलं वट्टदुक्खतो निय्यानं.

समाधिमुखेनाति समाधिमुखेन भावनानुयोगेन. तेनेवाह ‘‘समथपुब्बङ्गमाय विपस्सनाया’’ति. इधाति इमस्मिं नेत्तिप्पकरणे. वक्खति ‘‘रागविरागा चेतोविमुत्ति सेक्खफल’’न्ति, ‘‘रागविरागा चेतोविमुत्तिकामधातुसमतिक्कम’’न्ति च. सोति अनागामी.

तेनाति पटिपक्खेन. ततोति पटिपक्खतो. समानाधिकरणवसेन च चेतोविमुत्तिसद्दानं समासं कत्वा भिन्नाधिकरणवसेन वत्तुं ‘‘अथ वा’’तिआदि वुत्तं. पुन ‘‘चेतसो वा’’तिआदिना अञ्ञपदत्थवसेन चेतोविमुत्तिपदानं समासं दस्सेति. विञ्ञाणपरियायेन चेतो-सद्देन वुत्तयोजना न सम्भवतीति आह ‘‘यथासम्भव’’न्ति.

हा-सद्दो गतिअत्थो, गति चेत्थ ञाणगति अधिप्पेताति आह ‘‘हातब्बाति गमेतब्बा’’ति. नेतब्बाति ञापेतब्बा.

७. तन्ति पुग्गलविभागं. ञाणविभागेनाति सुतमयादिञाणप्पभेदेन. निब्बत्तनन्ति उप्पादनं. तत्थाति तस्मिं उग्घटितञ्ञुतातिआदिपुग्गलविभागभूते देसनाभाजने. देसनायन्ति सुत्ते. तं दस्सेतुन्ति तं पुग्गलविभागं दस्सेतुं. ‘‘स्वायं हारो कथं सम्भवती’’ति केचि पठन्ति.

साति वुत्तप्पकारधम्मत्थानं वीमंसनपञ्ञा. अधिकारतोति ‘‘सत्था वा धम्मं देसयती’’तिआदिअधिकारतो. सामत्थियतो उग्घटितञ्ञुआदिवेनेय्यविनयनसमत्थभावतो. परियत्तिधम्मस्स उपधारणन्ति एत्थापि ‘‘अधिकारतो सामत्थियतो वा’’ति आनेत्वा योजेतब्बं.

‘‘वीमंसादिपरियायवती पठमविकप्पवसेन, वीमंसादिविभागवती दुतियविकप्पवसेन, चिन्ताय हेतुभूताय निब्बत्ता चिन्तामयी’’ति एवमादिवुत्तनयानुसारेन सक्का योजेतुन्ति आह ‘‘सेसं वुत्तनयमेवा’’ति.

सुतचिन्तामयञाणेसूति सुतमयञाणे च चिन्तामयञाणे च सुतचिन्तामयञाणेसु च सुतचिन्तामयञाणेसूति एकदेससरूपेकसेसो वेदितब्बो. चिन्तामयञाणेयेव हि पतिट्ठिता महाबोधिसत्ता चरिमभवे विपस्सनं आरभन्ति, इतरे सुतचिन्तामयञाणेसूति. तेहीति तथा पठन्तेहि. वुत्तनयेनाति ‘‘उपादारूपं परिग्गण्हाति, अरूपं परिग्गण्हाती’’तिआदिना पटिपदाकथायं (नेत्ति. अट्ठ. ५) वुत्तनयेन.

८. परतो घोसो पच्चयभूतो एतिस्साति अधिप्पायो. ‘‘पच्चत्तसमुट्ठितेन च योनिसोमनसिकारेना’’ति इदं आवुत्तिनयेन दुतियं आवट्टतीति वेदितब्बं. तेन सावकानं भावनामयञाणुप्पत्ति सङ्गहिता होति. सावकानमेव वा ञाणुप्पत्ति इधाधिप्पेता उग्घटितञ्ञुआदिविभागकथनतो. एतस्मिं पक्खे पुब्बे वुत्तएकसेसनयोपि पटिक्खित्तो दट्ठब्बो. ‘‘आसयपयोगपबोधस्स निप्फादितत्ता’’ति एतेन पच्छिमचक्कद्वयपरियापन्नानि पुब्बहेतुसङ्गहानि सुतचिन्तामयञाणानि सन्धाय ‘‘इमा द्वे पञ्ञा अत्थी’’ति वुत्तन्ति दस्सेति. अत्थिभावो चेतासं पटिपक्खेन अनुपद्दुतता वेदितब्बा. अपरिक्खतत्ता अनभिसङ्खतत्ता. सुतमयञाणस्सापि पुरिमसिद्धस्स.

९. देसनापटिपदाञाणविभागेहीति निस्सरणदेसनादिदेसनाविभागेहि, दुक्खापटिपदादिपटिपदाविभागेहि, सुतमयञाणादिञाणविभागेहि.

अवसिट्ठपारिसज्जेनाति खत्तियगहपतिपरिसपरियापन्नेन. अट्ठन्नन्ति खत्तियपरिसा ब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसाति इमासं अट्ठन्नं.

समत्थेतीति समत्थं सम्बन्धत्थं करोति.

तमेव द्वादसपदभावं दीपेत्वाति सम्बन्धो. तदत्थस्साति छछक्कपरियायत्थस्स (म. नि. ३.४२० आदयो). सब्बपरियत्तिधम्मसङ्गाहकत्ता छछक्कपरियायस्स, तदत्थस्स च धम्मचक्कप्पवत्तेन सुत्तेन (सं. नि. ५.१०८१; महाव. १३; पटि. म. २.३०) सङ्गहितत्ता वुत्तं ‘‘सब्बस्सापि…पे… विभावेन्तो’’ति. विसयिभावेन ब्यञ्जनपदानं, विसयभावेन अत्थपदानं सम्बन्धं सन्धायाह ‘‘तेसं…पे… सम्बन्धभाव’’न्ति.

पदावयवो अक्खरानि. पदत्थोति पदत्थावयवो. पदत्थग्गहणस्साति पदत्थावबोधस्स. विसेसाधानं विसेसुप्पत्ति. वाक्यभेदेति वाक्यविसेसे. चित्तपरितोसनं चित्ताराधनं. बुद्धिनिसानं पञ्ञाय तेजनं तिक्खभावकरणं. नानावाक्यविसयतापि सिद्धा होति पदादीहिपि सङ्कासनस्स सिद्धत्ता. एकवाक्यविसयताय हि अत्थपदानं सङ्कासनादयो यथाक्कमं अक्खरादिविसया एवाति नियमो सिया. एतेनाति अत्थपदानं नानावाक्यविसयत्थेन.

उग्घटनादिअत्थानीति उग्घटनविपञ्चननयनप्पयोजनानि.

१०. उपतिट्ठति एत्थाति उपट्ठितन्ति उपट्ठितसद्दस्स अधिकरणत्थतं दस्सेतुं ‘‘उपतिट्ठनट्ठान’’न्ति वुत्तं यथा ‘‘पदक्कन्त’’न्ति. तेनाह ‘‘इदं नेस’’न्तिआदि. पटिपत्तिदेसनागमनेहीति पटिपत्तिगमनदेसनागमनेहि. ‘‘किच्छं वतायं लोको आपन्नो जायति च…पे… जरामरणस्सा’’तिआदिना जरामरणतो पट्ठाय पटिच्चसमुप्पादमुखेन विपस्सनं अभिनिविसित्वा महागहनं छिन्दितुं निसानसिलायं फरसुं निसेन्तो विय किलेसगहनं छिन्दितुं लोकनाथो ञाणफरसुं तेजेन्तो बुद्धभावाय हेतुसम्पत्तिया परिपाकगतत्ता सब्बञ्ञुतञ्ञाणाधिगमाय विपस्सनागब्भं गण्हापेन्तो अन्तरन्तरा नानासमापत्तियो समापज्जित्वा अनुपदधम्मविपस्सनावसेन अनेकाकारवोकारसङ्खारे सम्मसन्तो छत्तिंसकोटिसतसहस्समुखेन यं ञाणं पवत्तेसि, तं ‘‘महावजिरञाण’’न्ति वदन्ति. अट्ठकथायं पन ‘‘चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाण’’न्ति (दी. नि. अट्ठ. ३.१४१) आगतं, तं देवसिकं वळञ्जनकसमापत्तीनं पुरेचरानुचरञाणं सन्धाय वुत्तं. यं पन वक्खति ‘‘ञाणवजिरमोहजालपदालन’’न्ति, तं सह विपस्सनाय मग्गञाणं वेदितब्बं. एतं ब्रह्मचरियन्ति सासनब्रह्मचरियं अधिप्पेतन्ति तं दस्सेन्तो ‘‘ब्रह्मुनो’’तिआदिमाह.

देसनायाति करणत्थे इदं करणवचनं. नियुत्तोति एत्थ हेतुअत्थो अन्तोनीतोति दस्सेन्तो ‘‘निद्धारेत्वा योजितो’’ति आह.

देसनाहारविभङ्गवण्णना निट्ठिता.