२. विचयहारविभङ्गवण्णना

११. जातिलिङ्गकालसाधनविभत्तिसङ्ख्याविसेसादितो सद्दतो पदविचयो कातब्बो. तत्थ करियमानो च यथासभावनिरुत्तिया एव कतो सुकतो होतीति दस्सेन्तो ‘‘इदं नामपदं …पे… अयं सद्दतो पदविचयो’’ति वत्वा ‘‘सो पनाय’’न्तिआदिमाह. वत्तब्बअत्थसंवण्णनाति तंतंपदवचनीयस्स अत्थस्स भेदं वत्वा परियायेहि विवरित्वा कथनं.

विचियमानस्स सुत्तपदस्साति पुच्छावसेन पवत्तसुत्तपदस्स. ‘‘सुत्तन्तरपदानिपि पुच्छावसेनेव पवत्तानी’’ति वदन्ति ‘‘न सब्बम्पि सुत्तपद’’न्ति. एकस्सेव पदस्स सम्भवन्तानं अनेकेसं अत्थानं उद्धारो अत्थुद्धारो. एकस्सेव पन अत्थस्स सम्भवन्तानं अनेकेसं पदानं उद्धारो पदुद्धारो. सब्बे हि संवण्णियमाने सुत्ते लब्भमाने सब्बे पदत्थे. नव सुत्तन्तेति सुत्तगेय्यादिवसेन नवप्पकारे सुत्तस्मिं आनेत्वा विचिनतीति योजना. अथ वा ‘‘सब्बे नव सुत्तन्ते’’ति इमिना पविचयलक्खणेन हारेन सुत्तगेय्यादीनि सब्बानिपि नवप्पकारानि सुत्तानि विचिनतीति अत्थो. तेनाह ‘‘सुत्तगेय्यादिके’’तिआदि.

‘‘कोसलानं पुरा रम्मा’’तिआदिका (सु. नि. ९८२) छपञ्ञास गाथा वत्थुगाथा. ‘‘पारायनमनुगायिस्स’’न्ति (सु. नि. ११३७ आदयो) पन आदिका एकूनवीसति गाथा अनुगीतिगाथा. इदं नामं कतन्ति इदं ‘‘पारायन’’न्ति नामं कतं. तेनाह ‘‘पारं गमनीया इमे धम्मा, तस्मा इमस्स धम्मपरियायस्स ‘पारायनन्त्वेव अधिवचन’’’न्ति (सु. नि. पारायनत्थुतिगाथा; चूळनि. पारायनत्थुतिगाथा १४९ आदयो). बुद्धियं विपरिवत्तमानन्ति इमस्स विचयहारविभङ्गस्स देसनाकाले आयस्मा महाकच्चानो अत्तनो बुद्धियं वत्तमानं कत्वा एवमाहाति योजना.

एकंसब्याकरणस्स अयन्ति एकंसब्याकरणीया, एकंसेन वा ब्याकातब्बत्ता एकंसब्याकरणीया, एकंसब्याकरणयोग्गाति अत्थो. सेसपदद्वयेपि एसेव नयो. ठपनीयाति ठपेतब्बत्ता अब्याकरणीयाति अत्थो. समयन्तरपरिचयेन निवारणधम्मं पति संसयपक्खन्दो पुच्छतीति अधिप्पायेनाह ‘‘विमतिच्छेदन’’न्ति. पकतिया पन निवारणधम्मं अजानन्तो ञातुकामताय पुच्छतीति अदिट्ठजोतनाय पुच्छापि सिया. तथा हि वक्खति ‘‘लोकस्स निवारणादीनि अजानन्तेना’’ति.

एकवत्थुपरिग्गहाति एकस्स अभिधेय्यत्थस्स गहणतो.

विमुत्तिपरिपाचकइन्द्रियानि विवट्टपक्खे ठितस्स सद्धादयो धम्मा, किं पनेत्थ अरियानम्पि इन्द्रियलोकेन सङ्गहो होतीति आह ‘‘परियापन्नधम्मवसेना’’तिआदि.

काळपक्खचातुद्दसीघनवनसण्डमेघपटलच्छादनअड्ढरत्तीनं वसेन चतुरङ्गसमन्नागतेन. विविच्छाति विचिकिच्छाय. तेनाह ‘‘विचिकिच्छाहेतू’’ति. दुक्खमस्स महब्भयन्ति एत्थ वुत्तं ‘‘अस्सा’’ति पदं ‘‘जप्पाभिलेपनं अस्स ब्रूमी’’ति आनेत्वा सम्बन्धितब्बन्ति दस्सेन्तो ‘‘जप्पा तण्हा अस्स लोकस्सा’’ति आह. ‘‘सब्बसत्तान’’न्तिआदिना, ‘‘सब्बसोवा’’तिआदिना च अन्वयतो, ब्यतिरेकतो च सातिसयं अविज्जाय नीवरणभावं दस्सेति. ‘‘दूरे सन्तो पकासन्ति (ध. प. ३०४; नेत्ति. ११), रत्तो अत्थं न जानाती’’ति (नेत्ति. ११, २७) गाथाद्वयेनापि अनुगीतिविचयं दस्सेतीति योजेतब्बं.

रूपावचराति रूपावचरसत्ता. विपरिणामदुक्खताय मुच्चनस्स कारणवचनन्ति सम्बन्धो. यतो वट्टदुक्खतो मुच्चनं. तं वट्टदुक्खं अनवसेसपरियादानवसेन सङ्खारदुक्खतागहणेन.

एकाधारन्ति एकवत्थु अधिट्ठानं. निवारणं विक्खम्भनं पिधानं समुच्छेदोति अत्थद्वयस्स पुच्छितत्ता ‘‘अनेकाधारं दस्सेतु’’न्ति वुत्तं. तेनाह ‘‘निवारणसङ्खातं संवरं…पे… पिधिय्यन्ति पच्छिज्जन्ती’’ति (सु. नि. अट्ठ. २.१०४१; चूळनि. अट्ठ. ३). तस्सत्थो ‘‘निवारणसङ्खातं विक्खम्भनं, संवरं, पिधानञ्च कथेही’’ति.

‘‘वोदान’’न्ति इमिना सोतानं विक्खम्भनविसुद्धि, ‘‘वुट्ठान’’न्ति इमिना समुच्छेदविसुद्धि अधिप्पेताति आह ‘‘पुच्छाय दुविधत्थविसयतं विवरितुं ‘एव’न्तिआदि वुत्त’’न्ति. तथा चाह ‘‘वोदायति…पे… अरियमग्गो’’ति.

दिट्ठिमानाविज्जासोतापि तण्हासोतानुगाति आह ‘‘येभुय्येन अनुरोधवसेना’’ति. उपचारवसेनाति निस्सितुपचारवसेन. सब्बस्माति चक्खुतो याव मनतोति सब्बस्मा द्वारतो. सब्बप्पकारेनात्ति तण्हायनमिच्छाभिनिवेसनउन्नमनादिप्पकारेन.

तमेव सतिन्ति यायं सति पुब्बभागे सोतानं विक्खम्भनवसेन वुत्ता, तमेव सतिं. मग्गक्खणे सोतानं संवरं पिधानं ब्रूमि. यस्मा पन पिधायिकापि सति मग्गक्खणे पञ्ञानुगा, पञ्ञाकिच्चमेवेत्थ अधिकं, तस्मा वुत्तं ‘‘पञ्ञायेते पिधीयरे’’ति.

संवरपिधानानन्ति एत्थ संवरसद्देन निवारणं वुत्तं.

यस्मिं यस्मिं अरियमग्गे अनधिगते यं यं अभिसङ्खारविञ्ञाणं उप्पज्जनारहं, तस्मिं तस्मिं अधिगते तं तं विञ्ञाणं अनुप्पादनिरोधेन निरुज्झति सद्धिं अत्तना सम्पयुत्तनामरूपेनाति आह ‘‘तस्स तस्स विञ्ञाणस्स निरोधेन सहेवा’’ति. अनुप्पादनिरोधो हि एत्थ ‘‘निरोधो’’ति अधिप्पेतो अनुपादिसेसनिब्बानस्स अधिप्पेतत्ताति. अनुसन्धीयति एतेनाति अनुसन्धि, इध पुच्छियमानो अत्थो.

सह विसयेन दस्सेतुन्ति एत्थ सच्चानि एव विसयो. पहातब्बसभावं समुदयसच्चं, तस्स विसयो दुक्खसच्चं. ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढती’’ति (सं. नि. २.५३, ५७) हि वुत्तं. पहायकसभावं मग्गसच्चं, तस्स विसयो निरोधसच्चन्ति आह ‘‘सह विसयेन…पे… सच्चेसू’’ति. कामञ्चेत्थ ‘‘समुदयो द्वीसु भूमीसु पहीयती’’ति आरद्धं, ‘‘दस्सनेन तीणि संयोजनानि पहीयन्ति, भावनाय सत्त संयोजनानि पहीयन्ती’’ति पन विभागवचनमेव वत्तन्ति आह ‘‘पहायकविभागमुखेन पहातब्बविभागं दस्सेतु’’न्ति.

निरवसेसकामरागब्यापादा ततियमग्गेन पहीयन्ति, इतरे चतुत्थमग्गेनाति वुत्तं ‘‘इतरेहि पन निरवसेस’’न्ति. तत्थाति कम्मविपाकवट्टप्पभेदेन तेधातुके भवत्तये. संयोजनवसेनाति सब्बदा योजनवसेन बन्धनवसेन.

१२. अग्गफलञाणताय एकम्पि समानं तन्निमित्तस्स खयानुप्पादारम्मणस्स पच्चवेक्खणञाणस्स वसेन फलवोहारेन द्वे नामानि लभति.

सोमनस्सनामलाभो इमिना आरम्मणसङ्केतेनाति तदत्थं विवरन्तो ‘‘खये…पे… समञ्ञाया’’ति आह.

१३. तग्गहणेनेवाति फस्सपञ्चमकपञ्चरूपिन्द्रियग्गहणेनेव. सहचरणादिनाति सहजातादिअनन्तरादिपच्चयभावेन चेव निस्सयारम्मणादिना च. ‘‘सम्पयुत्त’’न्ति इमिना सहितता अविसिट्ठता इधाधिप्पेताति आह ‘‘अविभागेन गहणीयभावं सन्धाया’’ति.

कथं समाधिन्द्रियं उप्पादेतीति आह ‘‘सतिग्गहणेन चेत्थ परियुट्ठानप्पहानं इधाधिप्पेत’’न्ति. न हि समाधिना परियुट्ठानप्पहानं सम्भवति.

पदहति एतेनाति पधानं, वीरियं. तेति वीरियसङ्खारा. एकरसेनाति यथा इन्द्रियानि एकरसानि होन्ति, एवं एकरसभावेन सरणतो पवत्तनतो. तथा पवत्तिया एव सुट्ठु वत वीरियं वाहेसीति योगिना सङ्कप्पेतब्बतो तदुपगवीरियवाहनट्ठेन ‘‘सम्पहंसना’’ति वुत्तं. तेनाह ‘‘एवं मे…पे… हेतुभावतो’’ति.

इद्धिसद्दस्स पठमो कत्तुअत्थो, दुतियो करणत्थो वुत्तो, पादसद्दस्स एको करणत्थो एव. पज्जितब्बा च इद्धी वुत्ता, न च इज्झन्ति. पज्जितब्बा च इद्धी पज्जनकरणेन पादेन समानाधिकरणा न होन्तीति ‘‘पठमेन अत्थेन इद्धि एव पादो’’ति कथं सक्का वत्तुं, तथा इद्धिकिरियाकरणेन साधेतब्बा बुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न समानाधिकरणता सम्भवतीति ‘‘दुतियेन अत्थेन इद्धिया पादो’’ति कथं सक्का वत्तुन्ति चे? सक्का, पादस्स इज्झमानकोट्ठास इज्झनकरणूपायभावतो. अथ वा ‘‘पठमेन अत्थेन इद्धिया पादो, दुतियेन अत्थेन इद्धि एव पादो इद्धिपादो’’ति एवं योजनतो. कथं? अनन्तरत्थो पच्चासत्तिञायेन इध पठमोति अधिप्पेतो, ततो पुरिमो दुतियोति.

‘‘छन्दं चे भिक्खु अधिपतिं करित्वा लभति समाधि’’न्तिआदि (विभ. ४३२) वचनतो छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेतीति एत्थापि छन्दाधिपति समाधि छन्दसमाधीति अधिपतिसद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति. अधिपतिसद्दत्थदस्सनवसेनेव पन ‘‘छन्दहेतुको, छन्दाधिको वा समाधी’’ति सम्मोहविनोदनियं (विभ. अट्ठ. ४३१) वुत्तं, तस्मा इधापि छन्दाधिपति समाधि छन्दसमाधीति वेदितब्बो. तं पन छन्दं वुत्तनयेन सद्धासीसेन दस्सेन्तो ‘‘सद्धाधिपतेय्या चित्तेकग्गता’’ति वुत्तं. ‘‘इदं पधान’’न्ति वा वीरियं वुत्तं. वीरियसद्दापेक्खासहितं एकवचनेन वत्वा चतुब्बिधस्सपि वीरियस्स अधिप्पेतत्ता निब्बत्तेतब्बधम्मविभागेन च ‘‘इमे सङ्खारा’’ति वुत्तं. तेन पधानभूता सङ्खाराति एवं समासो वेदितब्बो. सङ्खतसङ्खारादिनिवत्तनत्थञ्चेत्थ पधानग्गहणं. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो.

वीरियिद्धिपादनिद्देसे ‘‘वीरियसमाधिप्पधानसङ्खारसमन्नागत’’न्ति (विभ. ४३५) द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं ‘‘वीरियाधिपति समाधि वीरियसमाधी’’ति, दुतियं समन्नागमङ्गदस्सनत्थं. द्वे एव हि सब्बत्थ समन्नागमङ्गानि समाधि, पधानसङ्खारो च. छन्दादयो समाधिविसेसनानि. पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होति. यस्मा पन छन्दादीहि विसिट्ठो समाधि तथा विसिट्ठेनेव तेन सम्पयुत्तो पधानसङ्खारो, सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन ‘‘चत्तारो इद्धिपादा’’ति वुत्ता. विसेसनभावो च छन्दादीनं तंतंअपस्सयनवसेन होतीति छन्दसमाधि…पे… इद्धिपादन्ति एत्थ निस्सयत्थेपि पादसद्देन उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति. तथा हि अभिधम्मे उत्तरचूळभाजनीये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना (विभ. ४५७) छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हापुच्छके च ‘‘चत्तारो इद्धिपादा – इध भिक्खु छन्दसमाधी’’ति (विभ. ४६२) आरभित्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं. अञ्ञथा चतुब्बिधताव न होतीति. अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो.

तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सितत्तं वत्वा पटिप्पस्सद्धिविवेकनिस्सितस्स अवचनं ‘‘छन्दसमाधि…पे… इद्धिपादं भावेती’’ति (विभ. ४३२) भावेतब्बानं इद्धिपादानं वुत्तत्ता. भावितिद्धिपादस्स हि सच्छिकातब्बा फलपरियापन्ना इद्धिपादाति.

वोस्सग्गसद्दो परिच्चागत्थो, पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. यथावुत्तेन पकारेनाति तदङ्गसमुच्छेदप्पकारेन, तन्निन्नभावारम्मणप्पकारेन च. परिणमन्तं विपस्सनक्खणे.

१४. पुब्बभागपञ्ञायाति एकावज्जननानावज्जनवीथीसु पवत्तउपचारपञ्ञाय. अधिगमपञ्ञायाति अप्पनापञ्ञाय. पुन पुब्बभागपञ्ञायाति नानावज्जनुपचारपञ्ञाय, पटिसन्धिपञ्ञाय वा. उपचारपञ्ञायाति एकावज्जने, सब्बत्थ वा पवत्तउपचारपञ्ञाय.

पुच्छाविस्सज्जनविचयोपीति यथावुत्ताय पुच्छाय विस्सज्जनविचयोपि. वुत्तनयानुसारेनाति अदिट्ठजोतना, विमतिच्छेदना चाति हेट्ठा वुत्तनयानुगमनेन.

१५. सेखे असेखेति सेक्खे अरियपुग्गले, असेक्खे अरियपुग्गले. विपस्सनापुब्बङ्गमप्पहानेति विपस्सनं पुरेचारिकं कत्वा पवत्तकिलेसप्पहाने, पहानाभिसमयेति अत्थो.

‘‘यं अनिच्चं दुक्खं अनत्ता’’ति पाळिं दस्सेत्वा पुन ‘‘यं अनिच्चे दुक्खे अनत्तनी’’ति वचनं एवम्पेत्थ पठन्तीति दस्सेतुं.

सेससंकिलेसवोदानधम्माति गेधतो अवसिट्ठसंकिलेसधम्मा च सब्बवोदानधम्मा च. अभावेनाति अभावनेन अभावकरणेन.

पयोगपरक्कमन्ति भुसं योगो पयोगो, पयोगोव परक्कमो पयोगपरक्कमो, चित्तं. उक्खिपतीति कोसज्जपक्खे पतितुं अदेन्तो कुसलपक्खे उद्धं खिपेन्तो विय पवत्तति. पधानवीरियन्ति अकुसलानं अनुप्पादनट्ठेन उत्तमवीरियं. योजेतब्बानीति ‘‘आसेवमानो वायमती’’तिआदिना योजेतब्बानि. अनुप्पन्नाति अवत्तब्बतं आपन्नानन्ति भूमिलद्धारम्मणाधिग्गहिताविक्खम्भितासमुग्घाटितुप्पन्नानं.

१६. ‘‘अट्ठमकस्स इन्द्रियानी’’ति वुत्तत्ता ‘‘पठममग्गे सद्धादयो’’तिआदि वुत्तं. इन्द्रियग्गहणञ्च पाळियं निदस्सनमत्तं दट्ठब्बं.

असुभानुपस्सना कायानुपस्सनासतिपट्ठानन्ति आह ‘‘सतिपट्ठानभावनाय सुनिग्गहितो कामवितक्को’’ति. समाधि उप्पज्जमानो कामवितक्कम्पि निग्गहेत्वा एव उप्पज्जतीति दस्सेन्तो ‘‘अनवज्जसुखपदट्ठानेना’’तिआदिमाह. ‘‘कुसलेसु धम्मेसु आरद्धवीरियो’’तिआदिना धम्मच्छन्दतो उप्पज्जमानो वीरियच्छन्दो खन्तिं परिब्रूहेतीति दस्सेति. अनवज्जधम्मानं उपकारकधम्मासेवनं विय अनुपकारकधम्मपरिवज्जनम्पि पञ्ञानिसेवनेनेव होतीति आह ‘‘समाधिआदीन’’न्तिआदि.

१७. सब्बधम्माधिट्ठानं देसनं पुग्गलाधिट्ठानेन विभजितुं ‘‘लोको नामा’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘सब्बधम्मानन्ति…पे… दस्सेतु’’न्ति आह. महग्गतधम्मेसु ठानं तंसम्पादनाव. तथा सेसेसु. वड्ढियमानेसूति यथा विमुत्तिं परिपाचयन्ति, एवं ब्रूहियमानेसु.

दस्सनपरिञ्ञाति रूपारूपधम्मानं सलक्खणतो, पच्चयतो च परिजानना. तेनाह ‘‘ञातपरिञ्ञा’’ति. पटिपक्खविधमनेन सद्धिं लक्खणत्तयविभावना इध ‘‘भावनापरिञ्ञा’’ति अधिप्पेताति आह ‘‘भावना…पे… परिञ्ञा चा’’ति. दस्सनत्था परिञ्ञा दस्सनपरिञ्ञा, भावनत्था परिञ्ञा भावनापरिञ्ञाति एवं वा एत्थ अत्थो दट्ठब्बो.

कक्खळफुसनादीति कक्खळादिफुसनादि. अभिजानित्वाति अभिञ्ञाय पञ्ञाय जानित्वा, ठितस्स अभिजाननहेतु वाति अत्थो. अत्थोति फलं. नयोति वुत्तनयो.

‘‘यं असङ्खत’’न्तिपि पठन्ति. चतुनयकोविदोति एकत्तनानत्तादिनयचतुक्के निपुणो. देसनायुत्तिकुसलोति धम्मानं देसनाविधिम्हि कुसलो.

सदिसी कातब्बा संसन्दनवसेनाति अधिप्पायो. आनेतब्बा ‘‘अयं देसना इमाय देसनाय एवं संसन्दती’’ति. अत्थतो अपेतन्ति अयुत्तत्थं. असम्बन्धत्थन्ति अञ्ञमञ्ञं असम्बन्धपदत्थं. ननु पट्ठानविचारो नयविचारो विय हारेहि असम्मिस्सो विचारणन्तरोति चोदनं मनसि कत्वा आह ‘‘यस्मा पना’’तिआदि. इध निक्खित्तोति इध सुत्तविचये सुत्तत्थविचारभावतो निक्खित्तो, एतेन वा पट्ठानस्स हारन्तोगधभावदस्सनेनेव मूलपदानं विय पट्ठानस्स पदत्थन्तराभावो दस्सितोति वेदितब्बं.

इमस्स सुत्तस्साति संवण्णियमानसुत्तं सन्धायाह. कस्मिं वा पदेति संवण्णियमानं गाथं सन्धायाह. तब्बिचयेनाति पुच्छादिविचयेन, अस्सादादिविचयेन च.

विचयहारविभङ्गवण्णना निट्ठिता.