५. पहीनवारवण्णना

२६४-२७४. पहीनवारे फलट्ठवसेनेव देसना आरद्धाति अनुलोमं सन्धाय वुत्तं. पटिलोमे हि पुथुज्जनवसेनपि देसना गहिताति. ‘‘फलट्ठवसेनेवा’’ति च साधारणवचनेन मग्गसमङ्गीनं अग्गहिततं दीपेति. अनुसयच्चन्तपटिपक्खेकचित्तक्खणिकानञ्हि मग्गसमङ्गीनं न कोचि अनुसयो उप्पत्तिरहो, नापि अनुप्पत्तिरहतं आपादितो, तस्मा ते न अनुसयसानुसयपहीनउप्पज्जनवारेसु गहिताति.

२७५-२९६. ओकासवारे सो सो अनुसयो अत्तनो अत्तनो ओकासे एव अनुप्पत्तिधम्मतं आपादितो पहीनो, अनापादितो च अप्पहीनोति पहीनाप्पहीनवचनानि तदोकासमेव दीपेन्ति, तस्मा अनोकासे तदुभयावत्तब्बता वुत्ताति. साधारणट्ठाने तेन सद्धिं पहीनो नाम होतीति तेन सद्धिं समानोकासे पहीनो नामाति अत्थो, न समानकाले पहीनोति.

पहीनवारवण्णना निट्ठिता.