१. पण्णत्तिवारो
निद्देसवारवण्णना
१०-२६. ‘‘दुक्खं दुक्खसच्चन्ति? आमन्ता’’ति एत्थ किञ्चापि दुक्खदुक्खं सङ्खारदुक्खं विपरिणामदुक्खन्ति तीसुपि दुक्खसद्दो पवत्तति, ‘‘जातिपि दुक्खा’’तिआदिना (महाव. १४; विभ. १९०) जातिआदीसु च, सो पन दुक्खदुक्खतो अञ्ञत्थ पवत्तमानो अञ्ञनिरपेक्खो नप्पवत्तति. सुद्धञ्चेत्थ दुक्खपदं अञ्ञनिरपेक्खं गहेत्वा पण्णत्तिसोधनं करोति, तेन निप्परियायतो दुक्खसभावत्ता एव यं दुक्खदुक्खं, तस्मिं दुक्खदुक्खे एस दुक्खसद्दो, तञ्च एकन्तेन दुक्खसच्चमेवाति ‘‘आमन्ता’’ति वुत्तं. सुद्धसच्चवारे सच्चविभङ्गे वुत्तेसु समुदयेसु कोचि फलधम्मेसु नत्थि, न च फलधम्मेसु कोचि निरोधोति वुच्चमानो अत्थि, मग्गसद्दो च फलफलङ्गेसु मग्गफलत्ता पवत्तति, न मग्गकिच्चसब्भावा. परिनिट्ठितनिय्यानकिच्चानि हि तानि. निय्यानवाचको चेत्थ मग्गसद्दो, न निय्यानफलवाचको, तस्मा समुदयो सच्चं, निरोधो सच्चं, मग्गो सच्चन्ति एतेसुपि ‘‘आमन्ता’’इच्चेव विस्सज्जनं कतं.
अथ वा पदसोधनेन पदेसु सोधितेसु सच्चविसेसनभूता एव दुक्खादिसद्दा इध गहिताति विञ्ञायन्ति. तेसं पन एकन्तेन सच्चविसेसनभावं, सच्चानञ्च तब्बिसेसनयोगविसेसं दीपेतुं सुद्धसच्चवारो वुत्तोति सच्चविसेसनानं दुक्खादीनं एकन्तसच्चत्ता ‘‘दुक्खं सच्चं…पे… मग्गो सच्चन्ति? आमन्ता’’ति वुत्तन्ति. यथा चेत्थ, एवं खन्धयमकादीसुपि सुद्धखन्धादिवारेसु खन्धादिविसेसनभूतानमेव रूपादीनं गहणं युत्तं. अट्ठकथायं (यम. अट्ठ. खन्धयमक ३८) पन ‘‘यस्मा पियरूपसातरूपसङ्खातं वा रूपं होतु भूतुपादारूपं वा, सब्बं पञ्चसु खन्धेसु सङ्गहं गच्छतेव, तस्मा आमन्ताति पटिजानाती’’ति वचनेन रूपादिचक्खादिदुक्खादिग्गहणेहि सुद्धखन्धादिवारेसुपि खन्धादिविसेसनतो अञ्ञेपि गहिताति अयमत्थो दीपितो होति, तेन तदनुरूपतावसेन इतरो अत्थो वुत्तो.
निद्देसवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
२७-१६४. अन्तमसो सुद्धावासानम्पीति इदं तेसं अरियत्ता दुक्खसच्चेन उपपज्जने आसङ्का सियाति कत्वा वुत्तं. तण्हाविप्पयुत्तचित्तस्साति इदं पञ्चवोकारवसेनेव गहेतब्बन्ति वुत्तं. यस्स दुक्खसच्चं उप्पज्जतीति एतेन पन सन्निट्ठानेन सब्बे उपपज्जन्ता पवत्तियं चतुवोकारे मग्गफलतो अञ्ञचित्तानं उप्पादक्खणसमङ्गिनो पञ्चवोकारे च सब्बचित्तानं उप्पादक्खणसमङ्गिनो सङ्गहिताति तेस्वेव सन्निट्ठानेन निच्छितेसु केचि ‘‘पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे’’ति एतेन दुक्खसमुदयेसु एककोट्ठासप्पवत्तिसमङ्गिनो दस्सीयन्ति सन्निट्ठानेन गहितस्सेव विभागदस्सनतो, तेन चतुवोकारानम्पि गहणं उपपन्नमेव. न हि तेसु मग्गफलुप्पादसमङ्गीसु पसङ्गता अत्थि तंसमङ्गीनं तेसं सन्निट्ठानेन अग्गहितत्ताति. इदं इध न गहेतब्बन्ति इदं चतुवोकारे फलसमापत्तिचित्तं इध सच्चानं उप्पादवचने न गहेतब्बन्ति वुत्तं होति.
एत्थ च सब्बेसं उपपज्जन्तानन्ति इदं कम्मजपवत्तस्स पठमुप्पाददस्सनेन वुत्तं, असञ्ञसत्तापेत्थ सङ्गहिता. पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणेति इदं पन समुदयसच्चुप्पादवोमिस्सस्स दुक्खसच्चुप्पादस्स तंरहितस्स दस्सनवसेन वुत्तं. तण्हाय उप्पादक्खणेति तंसहितस्स समुदयसच्चुप्पादवोमिस्सस्स. तेसं पन असञ्ञसत्तानं पवत्तियं दुक्खसच्चस्स उप्पादो सब्बत्थ न गहितो, तथा निरोधो चाति. मग्गसच्चयमकेपि एसेव नयो. तेसं तस्मिं उपपत्तिक्खणे च तण्हाविप्पयुत्तचित्तुप्पत्तिक्खणे चाति एवमेत्थ खणवसेन ओकासो वेदितब्बोति वुत्तं, एवञ्च सति ‘‘यस्स यत्थ दुक्खसच्चं उप्पज्जति, तस्स तत्थ समुदयसच्चं उप्पज्जिस्सती’’ति (यम. १.सच्चयमक.७१) एतस्स विस्सज्जने पच्छिमकोट्ठासे ‘‘इतरेसं चतुवोकारं पञ्चवोकारं उपपज्जन्तानं, पवत्ते चित्तस्स उप्पादक्खणे तेसं तत्थ दुक्खसच्चञ्च उप्पज्जति समुदयसच्चञ्च उप्पज्जिस्सती’’ति इदं न युज्जेय्य. न हि उपपत्तिक्खणे चित्तुप्पत्तिक्खणे च समुदयसच्चं उप्पज्जिस्सतीति. तस्मा उपपत्तिक्खणतण्हाविप्पयुत्तचित्तुप्पत्तिक्खणसमङ्गीनं पुग्गलानं यस्मिं कामावचरादिओकासे सा उपपत्ति चित्तुप्पत्ति च पवत्तमाना, तत्थ तेसन्ति ओकासवसेनेवेत्थ तत्थ-सद्दस्स अत्थो युज्जति. पुग्गलोकासवारो हेस. तत्थ पुग्गलविसेसदस्सनत्थं ‘‘सब्बेसं उपपज्जन्तान’’न्तिआदि वुत्तं, ओकासो पन यत्थ ते, सो एवाति.
‘‘सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे आरुप्पे मग्गस्स च फलस्स च उप्पादक्खणे तेसं समुदयसच्चञ्च नुप्पज्जति दुक्खसच्चञ्च नुप्पज्जती’’ति एत्थ पन ‘‘पवत्ते चित्तस्स भङ्गक्खणे दुक्खसच्चं नुप्पज्जती’’ति चित्तपटिबद्धवुत्तित्ता चित्तजरूपमेव इधाधिप्पेतं, न कम्मजादिरूपं चित्तं अनपेक्खित्वाव उप्पज्जनतोति केचि वदन्ति. ‘‘यस्स वा पन समुदयसच्चं नुप्पज्जती’’ति एतेन पन सन्निट्ठानेन गहितो पुग्गलो न चित्तं अपेक्खित्वाव गहितो, अथ खो यो कोचि एवंपकारो, तस्मा ‘‘तस्स दुक्खसच्चं नुप्पज्जती’’ति एतेन च न चित्तापेक्खमेव दुक्खसच्चं वुत्तं, अथ खो यं किञ्चीति चित्तस्स भङ्गक्खणे यं किञ्चि दुक्खसच्चं नुप्पज्जतीति अयमत्थो विञ्ञायतीति. न हि यमके विभजितब्बे अविभत्ता नाम पुच्छा अत्थीति.
‘‘सुद्धावासानं दुतिये चित्तेवत्तमाने’’ति इदं सब्बन्तिमेन परिच्छेदेन यस्स यत्थ दुक्खसच्चं उप्पज्जित्थ, नो च समुदयसच्चं, तंदस्सनवसेन वुत्तं. तस्मिं पन दस्सिते तेन समानगतिकत्ता दुतियाकुसलचित्ततो पुरिमसब्बचित्तसमङ्गिनो तेनेव दस्सिता होन्ति. तेसम्पि हि तत्थ दुक्खसच्चं उप्पज्जित्थ नो च तेसं तत्थ समुदयसच्चं उप्पज्जित्थाति. एवञ्च कत्वा ‘‘इतरेसं चतुवोकारपञ्चवोकारान’’न्ति एत्थ यथावुत्ता सुद्धावासा अग्गहिता होन्ति. यथा ‘‘यस्स यत्थ दुक्खसच्चं उप्पज्जति, तस्स तत्थ समुदयसच्चं उप्पज्जित्था’’ति (यम. १.सच्चयमक.६१) एतस्स विस्सज्जने ‘‘सुद्धावासानं उपपत्तिचित्तस्स उप्पादक्खणे’’ति (यम. १.सच्चयमक.६१) एतेनेव उपपत्तिचित्तुप्पादक्खणसमङ्गिसमानगतिका दुतियाकुसलतो पुरिमसब्बचित्तुप्पादक्खणसमङ्गिनो दस्सिता होन्तीति न ते ‘‘इतरेस’’न्ति एतेन गय्हन्ति, एवमिधापि दट्ठब्बन्ति. ‘‘इतरेस’’न्ति वचनं पञ्चवोकारानं विसेसनत्थं, न चतुवोकारानं. न हि ते पुब्बे वुत्ता वज्जेतब्बा सन्ति पञ्चवोकारा विय यथावुत्ता सुद्धावासाति. ‘‘अभिसमेतावीनं तेसं तत्थ दुक्खसच्चञ्च उप्पज्जित्थ मग्गसच्चञ्च उप्पज्जित्था’’ति (यम. १.सच्चयमक.४१) एतेन सन्निट्ठानेन पुग्गलोकासा अञ्ञमञ्ञपरिच्छिन्ना गहिताति यस्मिं ओकासे अभिसमेताविनो, ते एवं ‘‘अभिसमेतावीन’’न्ति एतेन गहिताति दट्ठब्बा. तेन ये कामावचरे रूपावचरे अरूपावचरे वा अभिसमेताविनो रूपावचरं अरूपावचरं वा उपपन्ना, याव तत्थाभिसमयो उप्पन्नो भविस्सति, ताव ते एत्थ न गय्हन्ति, ते पन पुरिमकोट्ठासे ‘‘सुद्धावासानं दुतिये चित्ते वत्तमाने’’ति एवं दस्सितेहि सुद्धावासे अनुप्पन्नाभिसमयेहि समानगतिकाति विसुं न दस्सिता. ‘‘अनभिसमेतावीन’’न्ति गहिता ये सब्बत्थ तत्थ च अनभिसमेताविनो, तेसु सुद्धावासानं गहणकालविसेसनत्थं ‘‘सुद्धावासानं दुतिये चित्ते वत्तमाने’’ति (यम. १.सच्चयमक.४२) वुत्तन्ति.
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्तीति एतेन वोदानचित्तसमङ्गिना समानगतिका ततो पुरिमतरचित्तसमङ्गिनोपि याव सब्बन्तिमतण्हासम्पयुत्तचित्तसमङ्गी, ताव दस्सिताति वेदितब्बा. एस नयो अञ्ञेसु एवरूपेसूति.
पवत्ते चित्तस्स भङ्गक्खणेति आगतट्ठाने पटिसन्धिचित्तस्सपि भङ्गक्खणग्गहणं दट्ठब्बं, तथा ‘‘पवत्ते चित्तस्स उप्पादक्खणे’’ति आगतट्ठाने च चुतिचित्तस्सपि उप्पादक्खणस्साति. ‘‘यस्स दुक्खसच्चं न निरुज्झति, तस्स समुदयसच्चं न निरुज्झिस्सती’’ति (यम. १.सच्चयमक.११६) एतस्स विस्सज्जने द्वीसुपि कोट्ठासेसु ‘‘अरूपे मग्गस्स च फलस्स च भङ्गक्खणे’’इच्चेव (यम. १.सच्चयमक.११६) वुत्तं, न विसेसितं. कस्मा? एकस्सपि मग्गस्स च फलस्स च भङ्गक्खणसमङ्गिनो उभयकोट्ठासभजनतो. यस्स दुक्खसच्चं न निरुज्झतीति एतेन सन्निट्ठानेन गहितेसु हि अरुपे मग्गफलभङ्गक्खणसमङ्गीसु केसञ्चि तिण्णं फलानं द्विन्नञ्च मग्गानं भङ्गक्खणसमङ्गीनं निरन्तरं अनुप्पादेत्वा अन्तरन्तरा विपस्सनानिकन्तिं भवनिकन्तिं उप्पादेत्वा ये उपरिमग्गे उप्पादेस्सन्ति, तेसं समुदयसच्चं निरुज्झिस्सतीति तेसंयेव पन केसञ्चि अन्तरा तण्हं अनुप्पादेत्वा उपरिमग्गउप्पादेन्तानं मग्गफलभङ्गक्खणसमङ्गीनं समुदयसच्चं न निरुज्झिस्सतीति. सामञ्ञवचनेनपि च पुरिमकोट्ठासे वुच्चमानेन पच्छिमकोट्ठासे वक्खमाने वज्जेत्वाव गहणं होतीति दस्सितोयं नयोति.
पवत्तिवारवण्णना निट्ठिता.
३. परिञ्ञावारवण्णना
१६५-१७०. परिञ्ञावारे …पे… तिस्सोपेत्थ परिञ्ञा लब्भन्तीति एत्थेव विसेसनं खन्धयमकादीसु सब्बखन्धादीनं विय सब्बसच्चानं अपरिञ्ञेय्यतादस्सनत्थं सच्छिकरणभावनावसेन इमस्स वारस्स अप्पवत्तिदस्सनत्थञ्च. दुक्खस्स परिञ्ञत्थं समुदयस्स च पहानत्थं भगवति ब्रह्मचरियं वुस्सतीति परिञ्ञापहानं सच्चेसु दस्सेतुं दुक्खे तीरणपरिञ्ञा वुत्ता, न पहानपरिञ्ञा. समुदये च पहानपरिञ्ञा, न तीरणपरिञ्ञा. ञातपरिञ्ञा पन साधारणाति उभयत्थ वुत्ता. मग्गञाणञ्हि दुक्खसमुदयानि विभावेतीति ञातपरिञ्ञा च होति, दुक्खतीरणकिच्चानं निप्फादनतो तीरणपरिञ्ञा च, समुदयस्स अप्पवत्तिकरणतोव पहानपरिञ्ञा चाति तिस्सोपि परिञ्ञा मग्गक्खणे एव योजेतब्बाति.
परिञ्ञावारवण्णना निट्ठिता.
सच्चयमकवण्णना निट्ठिता.
६. सङ्खारयमकं
१. पण्णत्तिवारवण्णना
१. खन्धादयो विय पुब्बे अविभत्ता कायसङ्खारादयोति तेसं अविञ्ञातत्ता ‘‘अस्सासपस्सासा कायसङ्खारो’’तिआदिना (सं. नि. ४.३४८) तयो सङ्खारे विभजति. कायस्स सङ्खारोति पठमे अत्थे सामिअत्थे एव सामिवचनं, दुतिये अत्थे कत्तुअत्थे. वचिया सङ्खारोति कम्मत्थे सामिवचनं. चित्तस्स सङ्खारोति च कत्तुअत्थेयेव. सो पन करणवचनस्स अत्थोति कत्वा ‘‘करणत्थे सामिवचनं कत्वा’’ति वुत्तं.
२-७. सुद्धिकएकेकपदवसेन अत्थाभावतोति पदसोधनतंमूलकचक्कवारेहि योपि अत्थो दस्सितो द्वीहि पदेहि लब्भमानो एको अस्सासपस्सासादिको, तस्स सुद्धिकेहि कायादिपदेहि सुद्धिकेन च सङ्खारपदेन अवचनीयत्ता यथा रूपपदस्स खन्धेकदेसो खन्धपदस्स खन्धसमुदायो पदसोधने दस्सितो यथाधिप्पेतो अत्थो अत्थि, एवं एकेकपदस्स यथाधिप्पेतत्थाभावतोति अधिप्पायो. कायो कायसङ्खारोतिआदि पन वत्तब्बं सियाति यदि विसुं अदीपेत्वा समुदितो कायसङ्खारसद्दो एकत्थ दीपेति, कायसङ्खारसद्दो कायसङ्खारत्थे वत्तमानो खन्धसद्दो विय रूपसद्देन कायसद्देन विसेसितब्बोति अधिप्पायेन वदति. सुद्धसङ्खारवारो हेसाति एतेन इमस्स वारस्स पदसोधनेन दस्सितानं यथाधिप्पेतानमेव गहणतो तेसञ्च कायादिपदेहि अग्गहितत्ता ‘‘कायो कायसङ्खारो’’तिआदिवचनस्स अयुत्तिं दस्सेति. इध पन सङ्खारयमके कायादिपदानं सङ्खारपदस्स च असमानाधिकरणत्ता ‘‘कायो सङ्खारो, सङ्खारा कायो’’तिआदिम्हि वुच्चमाने अधिप्पेतत्थपरिच्चागो अनधिप्पेतत्थपरिग्गहो च कतो सियाति सुद्धसङ्खारतंमूलचक्कवारा न वुत्ता. पदसोधनवारतंमूलचक्कवारेहि पन असमानाधिकरणेहि कायादिपदेहि सङ्खारसद्दस्स विसेसनीयताय दस्सिताय संसयो होति ‘‘यो अत्थन्तरप्पवत्तिना कायसद्देन विसेसितो कायसङ्खारो, एसो अत्थन्तरप्पवत्तीहि वचीचित्तेहि विसेसितो उदाहु अञ्ञो’’ति. एवं सेसेसुपि. एत्थ तेसं अञ्ञत्थ दस्सनत्थं ‘‘कायसङ्खारो वचीसङ्खारो’’तिआदिना अनुलोमपटिलोमवसेन छ यमकानि वुत्तानीति दट्ठब्बं. अट्ठकथायं पन सुद्धसङ्खारवारट्ठाने वुत्तत्ता अयं नयो सुद्धसङ्खारवारोति वुत्तो.
पण्णत्तिवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
१९. पवत्तिवारे सङ्खारानं पुग्गलानञ्च ओकासत्ता झानं भूमि च विसुं ओकासभावेन गहिताति पुग्गलवारे च ओकासवसेन पुग्गलग्गहणेन तेसं द्विन्नं ओकासानं वसेन गहणं होति, तस्मा ‘‘विना वितक्कविचारेहि अस्सासपस्सासानं उप्पादक्खणे’’ति दुतियततियज्झानोकासवसेन गहिता पुग्गला विसेसेत्वा दस्सिताति दट्ठब्बा. पुन पठमज्झानं समापन्नानन्ति झानोकासवसेन पुग्गलं दस्सेति, कामावचरानन्ति भूमोकासवसेन. द्विप्पकारानम्पि पन तेसं विसेसनत्थमाह ‘‘अस्सासपस्सासानं उप्पादक्खणे’’ति. तेन रूपारूपावचरेसु पठमज्झानसमापन्नके कामावचरे गब्भगतादिके च निवत्तेति. कामावचरानम्पि हि गब्भगतादीनं विना अस्सासपस्सासेहि वितक्कविचारानं उप्पत्ति अत्थि. अट्ठकथायं पन एकन्तिकत्ता रूपारूपावचरा निदस्सिता. विना अस्सासपस्सासेहि वितक्कविचारानं उप्पादक्खणेति एतेन पन दस्सिता पुग्गला पठमज्झानोकासा कामावचरादिओकासा च अस्सासपस्सासविरहविसिट्ठा दट्ठब्बा. इमिना नयेन सब्बत्थ पुग्गलविभागो वेदितब्बो.
२१. ‘‘पठमज्झाने कामावचरेति कामावचरभूमियं उप्पन्ने पठमज्झाने’’ति अट्ठकथायं वुत्तं, एतस्मिं पन अत्थे सति ‘‘चतुत्थज्झाने रूपावचरे अरूपावचरे तत्थ चित्तसङ्खारो उप्पज्जति, नो च तत्थ कायसङ्खारो उप्पज्जती’’ति एत्थापि रूपारूपावचरभूमीसु उप्पन्ने चतुत्थज्झानेति अत्थो भवेय्य, सो च अनिट्ठो भूमीनं ओकासभावस्सेव अग्गहिततापत्तितो, सब्बचतुत्थज्झानस्स ओकासवसेन अग्गहिततापत्तितो च, तस्मा झानभूमोकासानं सङ्करं अकत्वा विसुं एव ओकासभावो योजेतब्बो. पठमज्झानोकासेपि हि कायसङ्खारो च उप्पज्जति वचीसङ्खारो च उप्पज्जति कामावचरोकासे च. यदिपि न सब्बम्हि पठमज्झाने सब्बम्हि च कामावचरे द्वयं उप्पज्जति, तत्थ पन तंद्वयुप्पत्ति अत्थीति कत्वा एवं वुत्तन्ति दट्ठब्बं. विसुं ओकासत्ता च ‘‘अङ्गमत्तवसेन चेत्था’’तिआदिवचनं न वत्तब्बं होतीति. इमम्हि च यमके अवितक्कविचारमत्तं दुतियज्झानं विचारवसेन पठमज्झाने सङ्गहं गच्छतीति दट्ठब्बं. मुद्धभूतं दुतियज्झानं गहेत्वा इतरं असङ्गहितन्ति वा. यस्सयत्थके ‘‘निरोधसमापन्नान’’न्ति न लब्भति. न हि ते असञ्ञसत्ता विय ओकासे होन्तीति.
३७. सुद्धावासानं दुतिये चित्ते वत्तमानेति तेसं पठमतो अवितक्कअविचारतो दुतिये सवितक्कसविचारेपि भवनिकन्तिआवज्जने वत्तमाने उभयं नुप्पज्जित्थाति दस्सेन्तेन ततो पुरिमचित्तक्खणेसुपि नुप्पज्जित्थाति दस्सितमेव होति. यथा पन चित्तसङ्खारस्स आदिदस्सनत्थं ‘‘सुद्धावासं उपपज्जन्तान’’न्ति वुत्तं, एवं वचीसङ्खारस्स आदिदस्सनत्थं ‘‘दुतिये चित्ते वत्तमाने’’ति वुत्तन्ति दट्ठब्बं.
पवत्तिवारवण्णना निट्ठिता.
सङ्खारयमकवण्णना निट्ठिता.
७. अनुसययमकं
परिच्छेदपरिच्छिन्नुद्देसवारवण्णना
१. पच्चयपरिग्गहपरियोसाना ञातपरिञ्ञाति पच्चयदीपकेन मूलयमकेन ञातपरिञ्ञं, खन्धादीसु तीरणबाहुल्लतो खन्धादियमकेहि तीरणपरिञ्ञञ्च विभावेत्वा अनुसयपहानन्ता पहानपरिञ्ञाति पहातब्बमुद्धभूतेहि अनुसयेहि पहानपरिञ्ञं विभावेतुं अनुसययमकं आरद्धं. लब्भमानवसेनाति अनुसयभावेन लब्भमानानं वसेनाति अत्थो. तीहाकारेहि अनुसयानं गाहापनं तेसु तथा अग्गहितेसु अनुसयवारादिपाळिया दुरवबोधत्ता.
अयं पनेत्थ पुरिमेसूति एतेसु सानुसयवारादीसु पुरिमेसूति अत्थो. अत्थविसेसाभावतो ‘‘कामधातुं वा पन उपपज्जन्तस्स कामधातुया चुतस्स, रूपधातुं वा पन उपपज्जन्तस्स कामधातुया चुतस्सा’’ति एवमादीहि अवुच्चमाने कथमयं यमकदेसना सियाति? नायं यमकदेसना, पुरिमवारेहि पन यमकवसेन देसितानं अनुसयानं चुतिउपपत्तिवसेन अनुसयट्ठानपरिच्छेददस्सनं. यमकदेसनाबाहुल्लतो पन सब्बवारसमुदायस्स अनुसययमकन्ति नामं दट्ठब्बं. अथ वा पटिलोमपुच्छापि अत्थवसेन लब्भन्ति, अत्थविसेसाभावतो पन न वुत्ताति लब्भमानतावसेन एतिस्सापि देसनाय यमकदेसनता वेदितब्बा.
अनुरूपं कारणं लभित्वा उप्पज्जन्तीति एतेन कारणलाभे उप्पत्तिअरहतं दस्सेति. अप्पहीना हि अनुसया कारणलाभे सति उप्पज्जन्ति. याव च मग्गेन तेसं अनुप्पत्तिअरहता न कता होति, ताव ते एवंपकारा एवाति ‘‘अनुसया’’ति वुच्चन्ति. सो एवंपकारो उप्पज्जति-सद्देन गहितो, न खन्धयमकादीसु विय उप्पज्जमानता. तेनेव ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता’’तिआदिना उप्पज्जनवारो अनुसयवारेन निन्नानाकरणो विभत्तो. अनुरूपं कारणं पन लभित्वा ये उप्पज्जिंसु उप्पज्जमाना च, तेपि अप्पहीनट्ठेन थामगता अहेसुं भवन्ति च. उप्पत्तिअरहताय एव च ते उप्पज्जिंसु उप्पज्जन्ति च, न च अतीतानागतपच्चुप्पन्नतो अञ्ञे उप्पत्तिअरहा नाम अत्थि, तस्मा सब्बे अतीतानागतपच्चुप्पन्ना कामरागादयो ‘‘अनुसया’’ति वुच्चन्ति. अप्पहीनट्ठेनेव हि अनुसया, अप्पहीना च अतीतादयो एव, मग्गस्स पन तादिसानं अनुप्पत्तिअरहतापादनेन अनुसयप्पहानं होतीति. अप्पहीनाकारो नाम धम्माकारो, न धम्मो, धम्मो एव च उप्पज्जतीति इमिना अधिप्पायेनाह ‘‘अप्पहीनाकारो च उप्पज्जतीति वत्तुं न युज्जती’’ति. सत्तानुसयाति एत्थ यदि अप्पहीनट्ठेन सन्ताने अनुसेन्तीति अनुसया, अथ कस्मा सत्तेव वुत्ता, ननु सत्तानुसयतो अञ्ञेसम्पि किलेसानं अप्पहीनत्ता अनुसयभावो आपज्जतीति चे? नापज्जति, अप्पहीनमत्तस्सेव अनुसयभावस्स अवुत्तत्ता. वुत्तञ्हि ‘‘अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चती’’ति (यम. अट्ठ. अनुसययमक १), तस्मा अप्पहीनट्ठेन थामगतो किलेसोयेव अनुसयो नामाति युत्तं. थामगतन्ति च अञ्ञेहि असाधारणो सभावो दट्ठब्बो. तथा हि धम्मसभावबोधिना तथागतेन इमेयेव ‘‘अनुसया’’ति वुत्ता. थामगतोति अनुसयसमङ्गीति अत्थो.
अनुसयउप्पज्जनवारानं समानगतिकत्ता यथा ‘‘अनुसेती’’ति वचनं अप्पहीनाकारदीपकं, एवं ‘‘उप्पज्जती’’ति वचनं सियाति उप्पज्जनवारेन ‘‘उप्पज्जती’’ति वचनस्स अवुत्तता सक्का वत्तुन्ति चे? तं न, वचनत्थविसेसेन तंद्वयस्स वुत्तत्ता. ‘‘अनुरूपं कारणं लभित्वा उप्पज्जती’’ति हि एतस्मिं अत्थे अविसिट्ठेपि ‘‘अनुसेती’’ति वचनं सन्ताने अनुसयिततं थामगतभावं दीपेति. यदि तमेव ‘‘उप्पज्जती’’ति वचनं दीपेय्य, कस्सचि विसेसस्स अभावा उप्पज्जनवारो न वत्तब्बो सिया, ‘‘उप्पज्जती’’ति वचनं पन उप्पत्तियोग्गं दीपेति. कस्मा? उप्पज्जनवारेन उप्पत्तियोग्गस्स दस्सितत्ता, अनुसयसद्दस्स सब्बदा विज्जमानानं अपरिनिप्फन्नसयनत्थताय निवारणत्थं उप्पत्तिअरहताय थामगतभावसङ्खातस्स यथाधिप्पेतसयनत्थस्स दस्सनत्थं ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं उप्पत्तियोग्गवचनं वुत्तं, तं सुवुत्तमेवाति अधिप्पायो. तम्पि सुवुत्तमेव इमिना तन्तिप्पमाणेनाति सम्बन्धो. तन्तित्तयेनपि हि चित्तसम्पयुत्तता दीपिता होति.
परिच्छेदपरिच्छिन्नुद्देसवारवण्णना निट्ठिता.
उप्पत्तिट्ठानवारवण्णना
२. कामधातुया द्वीसु वेदनासूति कामावचरभूमियं सुखाय च उपेक्खाय चाति अट्ठकथायं कामधातुग्गहणं द्विन्नं वेदनानं विसेसनभावेन वुत्तं, एवं सति कामधातुया कामरागानुसयस्स अनुसयट्ठानता न वुत्ता होति. द्वीसु पन रागेसु भवरागस्स तीसु धातूसु रूपारूपधातूनं अनुसयट्ठानता वुत्ताति कामधातुया कामरागस्स अनुसयट्ठानता वत्तब्बा. धातुवेदनासब्बसक्कायपरियापन्नवसेन हि तिप्पकारं अनुसयानं अनुसयट्ठानं वुत्तन्ति. तस्मा तीसु धातूसु कामधातुया तीसु वेदनासु द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेतीति विसुं अनुसयट्ठानता धातुया वेदनानञ्च योजेतब्बा. द्वीसु वेदनासूति इदञ्च वेदनासु अनुसयमानो कामरागानुसयो द्वीस्वेव अनुसेति, न तीसूति तिण्णम्पि ठानतानिवारणत्थमेव वुत्तन्ति न सब्बासु द्वीसु अनुसयनप्पत्तो अत्थि, तेन वेदनाविसेसनत्थं न कामधातुग्गहणेन कोचि अत्थो. भवरागानुसयनट्ठानञ्हि अट्ठानञ्च अनुसयानं अपरियापन्नं सक्काये कामरागानुसयस्स अनुसयट्ठानं न होतीति पाकटमेतं. यथा च ‘‘द्वीसु वेदनासू’’ति वुत्ते पटिघानुसयानुसयट्ठानतो अञ्ञा द्वे वेदना गय्हन्ति, एवं भवरागानुसयानुसयनट्ठानतो च अञ्ञा ता गय्हन्तीति.
एत्थ च द्वीहि वेदनाहि सम्पयुत्तेसु अञ्ञेसु च पियरूपसातरूपेसु इट्ठरूपादीसु उप्पज्जमानो कामरागानुसयो सातसन्तसुखगिद्धिया पवत्ततीति द्वीसु वेदनासु तस्स अनुसयनं वुत्तं. अञ्ञत्थ उप्पज्जमानोपि हि सो इमासु द्वीसु वेदनासु अनुगतो हुत्वा सेति सुखमिच्चेव अभिलभतीति. एवं पटिघानुसयो च दुक्खवेदनासम्पयुत्तेसु अञ्ञेसु च अप्पियरूपासातरूपेसु अनिट्ठरूपादीसु उप्पज्जमानो दुक्खपटिकूलतो दुक्खमिच्चेव पटिहञ्ञतीति दुक्खवेदनमेव अनुगतो हुत्वा सेति, तेन पन तस्मिं अनुसयनं वुत्तं. एवं कामरागपटिघानं तीसु वेदनासु अनुसयवचनेन इट्ठइट्ठमज्झत्तअनिट्ठेसु आरम्मणपकतिया विपरीतसञ्ञाय च वसेन इट्ठादिभावेन गहितेसु कामरागपटिघानं उप्पत्ति दस्सिता होति. तत्थ उप्पज्जमाना हि ते तीसु वेदनासु अनुसेन्ति नाम. वेदनात्तयमुखेन वा एत्थ इट्ठादीनं आरम्मणानं गहणं वेदितब्बं, कामधातुआदिग्गहणेन कामस्सादादिवत्थुभूतानं कामभवादीनं. तत्थ कामरागानुसयो भवस्सादवसेन अनुसयमानो कामधातुया अनुसेति, कामसुखस्सादवसेन अनुसयमानो सुखोपेक्खावेदनासु. पटिघो दुक्खपटिघातवसेनेव पवत्ततीति यत्थ तत्थ पटिहञ्ञमानोपि दुक्खवेदनाय एव अनुसेति. रूपारूपभवेसु पन रूपारूपावचरधम्मेसु च कामस्सादस्स पवत्ति नत्थीति तत्थ अनुसयमानो रागो भवरागोइच्चेव वेदितब्बो. धातुत्तयवेदनात्तयग्गहणेन च सब्बसक्कायपरियापन्नानं गहितत्ता ‘‘यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो नानुसेती’’ति (यम. २.अनुसययमक.४६) एवमादीनं विस्सज्जनेसु धातुत्तयवेदनात्तयविनिमुत्तं दिट्ठानुसयादीनं अनुसयट्ठानं न वुत्तन्ति दट्ठब्बं. ननु च अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो पिहपच्चया उप्पन्नदोमनस्से पटिघानुसयो नानुसेति, तथा नेक्खम्मस्सितसोमनस्सुपेक्खासु कामरागेन नानुसयितब्बन्ति तदनुसयनट्ठानतो अञ्ञापि दिट्ठानुसयानुसयनट्ठानभूता कामावचरवेदना सन्तीति? होन्तु, न पन धातुत्तयवेदनात्तयतो अञ्ञं तदनुसयनट्ठानं अत्थि, तस्मा तं न वुत्तं. यस्मा पन ‘‘यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो नानुसेतीति? आमन्ता’’ति (यम. २.अनुसययमक.५२) वुत्तं, तस्मा अविसेसेन दुक्खं पटिघानुसयस्स अनुसयनट्ठानन्ति समुदायवसेन गहेत्वा वुत्तन्ति वेदितब्बं. तथा लोकियसुखोपेक्खा कामरागमानानुसयनट्ठानन्ति.
अपिच सुत्ते ‘‘इधावुसो विसाख, भिक्खु इति पटिसञ्चिक्खति ‘कुदास्सु नामाहं दोमनस्सं पजहेय्य’न्ति, सो इति पटिसञ्चिक्खित्वा पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेती’’ति नेक्खम्मस्सितं दोमनस्सं उप्पादेत्वा तं विक्खम्भेत्वा वीरियं कत्वा अनागामिमग्गेन पटिघस्स समुग्घातनं सन्धाय वुत्तं. न हि पटिघेनेव पटिघप्पहानं, दोमनस्सेन वा दोमनस्सप्पहानं अत्थीति. पटिघुप्पत्तिरहट्ठानताय पन इध सब्बं दुक्खं ‘‘पटिघानुसयस्स अनुसयनट्ठान’’न्ति वुत्तन्ति दट्ठब्बं. निप्परियायदेसना हेसा, सा पन परियायदेसना. एवञ्च कत्वा पठमज्झानविक्खम्भितं कामरागानुसयं तथा विक्खम्भितमेव कत्वा अनागामिमग्गेन समुग्घातनं सन्धाय ‘‘विविच्चेव…पे… पठमं झानं उपसम्पज्ज विहरति, रागं तेन पजहति, न तत्थ रागानुसयो अनुसेती’’ति वुत्तं. एवं चतुत्थज्झानविक्खम्भितं अविज्जानुसयं तथा विक्खम्भितमेव कत्वा अरहत्तमग्गेन समुग्घातनं सन्धाय ‘‘सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, अविज्जं तेन पजहति, न तत्थ अविज्जानुसयो अनुसेती’’ति (म. नि. १.४६५) वुत्तं. न हि लोकियचतुत्थज्झानुपेक्खाय अविज्जानुसयो सब्बथा नानुसेतीति सक्का वत्तुं ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ अविज्जानुसयो अनुसेती’’ति (यम. अट्ठ. अनुसययमक २) वुत्तत्ता, तस्मा अविज्जानुसयस्सेव वत्थु चतुत्थज्झानुपेक्खा, नेक्खम्मस्सितदोमनस्सञ्च पटिघानुसयस्स वत्थु न न होतीति तत्थापि तस्स अनुसयनं वेदितब्बं. अवत्थुभावतो हि इध अनुसयनं न वुच्चति, न सुत्तन्तेसु विय वुत्तनयेन तंपटिपक्खभावतो तंसमुग्घातकमग्गस्स बलवूपनिस्सयभावतो चाति.
एत्थ च आरम्मणे अनुसयट्ठाने सति भवरागवज्जो सब्बो लोभो कामरागानुसयोति न सक्का वत्तुं. दुक्खाय हि वेदनाय रूपारूपधातूसु च अनुसयमानेन दिट्ठानुसयेन सम्पयुत्तोपि लोभो लोभो एव, न कामरागानुसयो. यदि सिया, दिट्ठानुसयस्स विय एतस्सपि ठानं वत्तब्बं सियाति. अथ पन अज्झासयवसेन तन्निन्नताय अनुसयनट्ठानं वुत्तं. यथा इट्ठानं रूपादीनं सुखाय च वेदनाय अप्पटिलद्धं वा अप्पटिलाभतो समनुपस्सतो, पटिलद्धपुब्बं वा अतीतं निरुद्धं विगतं परिणतं समनुपस्सतो उप्पज्जमानो पटिघो दुक्खे पटिहञ्ञनवसेनेव पवत्ततीति दुक्खमेव तस्स अनुसयनट्ठानं वुत्तं, नालम्बितं, एवं दुक्खादीसु अभिनिवेसनवसेन उप्पज्जमानेन दिट्ठानुसयेन सम्पयुत्तोपि लोभो सुखाभिसङ्गवसेनेव पवत्ततीति सातसन्तसुखद्वयमेवस्स अनुसयट्ठानं वुत्तन्ति भवरागवज्जस्स सब्बलोभस्स कामरागानुसयता न विरुज्झति, एकस्मिंयेव च आरम्मणे रज्जन्ति दुस्सन्ति च. तत्थ रागो सुखज्झासयो पटिघो दुक्खज्झासयोति तेसं नानानुसयट्ठानता होति.
एवञ्च कत्वा ‘‘यत्थ कामरागानुसयो अनुसेति, तत्थ पटिघानुसयो अनुसेतीति? नो’’ति (यम. २.अनुसययमक.१४) वुत्तन्ति. अट्ठकथायं पन द्वीसु वेदनासु इट्ठारम्मणे च दोमनस्सुप्पत्तिं वत्वा ‘‘दोमनस्समत्तमेव पन तं होति, न पटिघानुसयो’’ति (यम. अट्ठ. अनुसययमक २) वुत्तत्ता यथा तत्थ पटिघो पटिघानुसयो न होति, एवं दुक्खादीसु उप्पज्जमानेन दिट्ठानुसयेन सहजातो लोभो कामरागानुसयो न होतिच्चेव विञ्ञायतीति. यं पनेतं वुत्तं ‘‘दोमनस्समत्तमेव पन तं होति, न पटिघानुसयो’’ति, एत्थ न पटिघानुसयोति नत्थि पटिघानुसयोति अत्थो दट्ठब्बो. न हि दोमनस्सस्स पटिघानुसयभावासङ्का अत्थीति.
देसना संकिण्णा विय भवेय्याति भवरागस्सपि कामधातुया द्वीसु वेदनासु आरम्मणकरणवसेनेव उप्पत्ति वुत्ता विय भवेय्य, तस्मा आरम्मणविसेसेन विसेसदस्सनत्थं एवं देसना कता सहजातवेदनाविसेसाभावतोति अधिप्पायो.
उप्पत्तिट्ठानवारवण्णना निट्ठिता.
महावारो
१. अनुसयवारवण्णना
३. अनुसेति उप्पज्जतीति पच्चुप्पन्नवोहारा पवत्ताविरामवसेन वेदितब्बा. मग्गेनेव हि अनुसयानं विरामो विच्छेदो होति, न ततो पुब्बेति.
२०. नापि एकस्मिं ठाने उप्पज्जन्ति, न एकं धम्मं आरम्मणं करोन्तीति एत्थ पुरिमेन एकस्मिं चित्तुप्पादे उप्पत्ति निवारिता, पच्छिमेन एकस्मिं आरम्मणेति अयं विसेसो. पुग्गलोकासवारस्स पटिलोमे तेसं तेसं पुग्गलानं तस्स तस्स अनुसयस्स अननुसयनट्ठानं पकतिया पहानेन च वेदितब्बं, ‘‘तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ कामरागानुसयो नानुसेति, नो च तेसं तत्थ पटिघानुसयो नानुसेति, तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ कामरागानुसयो च नानुसेति, पटिघानुसयो च नानुसेती’’ति पकतिया दुक्खादीनं कामरागादीनं अननुसयट्ठानतं सन्धाय वुत्तं, ‘‘द्विन्नं पुग्गलानं सब्बत्थ कामरागानुसयो च नानुसेति, पटिघानुसयो च नानुसेती’’ति (यम. २.अनुसययमक.५६) अनुसयप्पहानेन. एत्थ पुरिमनयेन ओकासं अवेक्खित्वा पुग्गलस्स विज्जमानानं अनुसयानं अननुसयनं वुत्तं, पच्छिमनयेन पुग्गलं अवेक्खित्वा ओकासस्स कामधातुआदिकस्स अनोकासताति.
अनुसयवारवण्णना निट्ठिता.
२. सानुसयवारवण्णना
६६-१३१. सानुसयपजहनपरिञ्ञावारेसु ‘‘सानुसयो, पजहति, परिजानाती’’ति पुग्गलो वुत्तो. पुग्गलस्स च इमस्मिं भवे सानुसयोति एवं भवविसेसेन वा, इमस्मिं कामरागानुसयेन सानुसयो इमस्मिं इतरेसु केनचीति एवं भवानुसयविसेसेन वा सानुसयतानिरनुसयतादिका नत्थि. तथा द्वीसु वेदनासु कामरागानुसयेन सानुसयो, दुक्खाय वेदनाय निरनुसयोति इदम्पि नत्थि. न हि पुग्गलस्स वेदना ओकासो, अथ खो अनुसयानन्ति. अनुसयस्स पन तस्स तस्स सो सो अनुसयनोकासो पुग्गलस्स तेन तेन अनुसयेन सानुसयताय, तस्स तस्स पजहनपरिजाननानञ्च निमित्तं होति, अननुसयनोकासो च निरनुसयतादीनं, तस्मा ओकासवारेसु भुम्मनिद्देसं अकत्वा ‘‘यतो ततो’’ति निमित्तत्थे निस्सक्कवचनं कतं, पजहनपरिञ्ञावारेसु अपादानत्थे एव वा. ततो ततो हि ओकासतो अपगमकरणं विनासनं पजहनं परिजाननञ्चाति.
तत्थ यतोति यतो अनुसयट्ठानतो अनुलोमे, पटिलोमे अननुसयट्ठानतोति अत्थो. अनुसयानानुसयस्सेव हि निमित्तापादानभावदस्सनत्थं ‘‘रूपधातुया अरूपधातुया ततो मानानुसयेन सानुसयोति (यम.२.अनुसययमक.७७), पजहती’’ति (यम. २.अनुसययमक.१४३) च ‘‘दुक्खाय वेदनाय ततो कामरागानुसयेन निरनुसयोति (यम. २.अनुसययमक.११०), न पजहती’’ति (यम. २.अनुसययमक.१७४-१७६) च एवमादीसु रूपधातुआदयो एव भुम्मनिद्देसेनेव निद्दिट्ठाति. अट्ठकथायं पन चतुत्थपञ्हविस्सज्जनेन सरूपतो अनुसयनट्ठानस्स दस्सितत्ता तदत्थे आदिपञ्हेपि ‘‘यतो’’ति अनुसयनट्ठानं वुत्तन्ति इममत्थं विभावेत्वा पुन ‘‘यतो’’ति एतस्स वचनत्थं दस्सेतुं ‘‘उप्पन्नेन कामरागानुसयेन सानुसयो’’ति वुत्तं, तं पमादलिखितं विय दिस्सति. न हि उप्पन्नेनेव अनुसयेन सानुसयो, उप्पत्तिरहट्ठानतञ्च सन्धायेव निस्सक्कवचनं न सक्का वत्तुं. न हि अपरियापन्नानं अनुसयुप्पत्तिरहट्ठानताति तं तथेव दिस्सति. एवं पनेत्थ अत्थो दट्ठब्बो – यतो उप्पन्नेनाति यतो उप्पन्नेन भवितब्बं, तेनाति उप्पत्तिरहट्ठाने निस्सक्कवचनं कतन्ति. तथा सब्बधम्मेसु उप्पज्जनकेनाति. उप्पत्तिपटिसेधे अकते अनुप्पत्तिया अनिच्छितत्ता सब्बधम्मेसु उप्पज्जनकभावं आपन्नेन अनुप्पज्जनभावं अपनेति नाम. सब्बत्थाति एतस्स पन सब्बट्ठानतोति अयमत्थो न न सम्भवति. त्थ-कारञ्हि भुम्मतो अञ्ञत्थापि सद्दविदू इच्छन्तीति.
सानुसयवारवण्णना निट्ठिता.
३. पजहनवारवण्णना
१३२-१९७. पजहनवारे येन कामरागानुसयादयो सावसेसा पहीयन्ति, सो ते पजहतीति सन्निट्ठानं कत्वा वत्तब्बो न होति अपजहनसब्भावा, तस्मा सन्निट्ठाने निरवसेसप्पजहनकोयेव पजहतीति वुत्तो, तस्मा ‘‘यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो’’ति (यम. २.अनुसययमक.१३२) वुत्तं. यस्मा पन संसयपदेन पहानकरणमत्तमेव पुच्छति, न सन्निट्ठानं करोति, तस्मा यथाविज्जमानं पहानं सन्धाय ‘‘यो कामरागानुसयं पजहति, सो मानानुसयं पजहतीति? तदेकट्ठं पजहती’’ति वुत्तं. पटिलोमे पन ‘‘नप्पजहती’’ति पजहनाभावो एव सन्निट्ठानपदेन संसयपदेन च विनिच्छितो पुच्छितो च, तस्मा येसं पजहनं नत्थि निरवसेसवसेन पजहनकानं, ते ठपेत्वा अवसेसा अप्पजहनसब्भावेनेव नप्पजहन्तीति वुत्ता, न च यथाविज्जमानेन पहानेनेव वज्जिताति दट्ठब्बाति. ‘‘अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ती’’ति (यम. २.अनुसययमक.१६५) एत्थ अट्ठकथायं ‘‘पुथुज्जनो पहानपरिञ्ञाय अभावेन नप्पजहति, सेसा तेसं अनुसयानं पहीनत्ता’’ति (यम. अट्ठ. अनुसययमक १३२-१९७) वुत्तं.
तत्थ किञ्चापि केसञ्चि विचिकिच्छानुसयो केसञ्चि उभयन्ति सेसानं तेसं पहीनता अत्थि, तथापि सोतापन्नादीनं विचिकिच्छानुसयस्स पहीनता उभयापजहनस्स कारणं न होतीति तेसं पहीनत्ता ‘‘नप्पजहन्ती’’ति न सक्का वत्तुं, अथ पन कामरागानुसयञ्च नप्पजहन्तीति इमं सन्निट्ठानेन तेसं पुग्गलानं सङ्गहिततादस्सनत्थं वुत्तन्ति न तत्थ कारणं वत्तब्बं, पुच्छितस्स पन संसयत्थस्स कारणं वत्तब्बं. एवं सति ‘‘सेसा तस्स अनुसयस्स पहीनत्ता’’ति वत्तब्बन्ति? न वत्तब्बं ‘‘यो कामरागानुसयं नप्पजहति, सो दिट्ठानुसयं विचिकिच्छानुसयं नप्पजहती’’ति पटिक्खिपित्वा पुच्छिते सदिसविस्सज्जनके दिट्ठिविचिकिच्छानुसये सन्धाय कारणस्स वत्तब्बत्ता, तस्मा तेसं अनुसयानं पहीनत्ताति तेसं दिट्ठिविचिकिच्छानुसयानं पहीनत्ता ते संसयत्थसङ्गहिते अनुसये नप्पजहन्तीति अत्थो दट्ठब्बो.
पजहनवारवण्णना निट्ठिता.
५. पहीनवारवण्णना
२६४-२७४. पहीनवारे फलट्ठवसेनेव देसना आरद्धाति अनुलोमं सन्धाय वुत्तं. पटिलोमे हि पुथुज्जनवसेनपि देसना गहिताति. ‘‘फलट्ठवसेनेवा’’ति च साधारणवचनेन मग्गसमङ्गीनं अग्गहिततं दीपेति. अनुसयच्चन्तपटिपक्खेकचित्तक्खणिकानञ्हि मग्गसमङ्गीनं न कोचि अनुसयो उप्पत्तिरहो, नापि अनुप्पत्तिरहतं आपादितो, तस्मा ते न अनुसयसानुसयपहीनउप्पज्जनवारेसु गहिताति.
२७५-२९६. ओकासवारे सो सो अनुसयो अत्तनो अत्तनो ओकासे एव अनुप्पत्तिधम्मतं आपादितो पहीनो, अनापादितो च अप्पहीनोति पहीनाप्पहीनवचनानि तदोकासमेव दीपेन्ति, तस्मा अनोकासे तदुभयावत्तब्बता वुत्ताति. साधारणट्ठाने तेन सद्धिं पहीनो नाम होतीति तेन सद्धिं समानोकासे पहीनो नामाति अत्थो, न समानकाले पहीनोति.
पहीनवारवण्णना निट्ठिता.
७. धातुवारवण्णना
३३२-३४०. धातुवारे सन्तानं अनुगता हुत्वा सयन्तीति यस्मिं सन्ताने अप्पहीना, तंसन्ताने अप्पहीनभावेन अनुगन्त्वा उप्पत्तिअरहभावेन सयन्तीति अत्थो. उप्पत्तिरहता एव हि अनुरूपं कारणं लभित्वा उप्पज्जन्तीति इधापि युत्ताति. एत्थ च न कामधातुआदीनि छ पटिनिसेधवचनानि धातुविसेसनिद्धारणानि न होन्तीति ‘‘न कामधातुया चुतस्स न कामधातुं उपपज्जन्तस्सा’’तिआदिम्हि वुच्चमाने इमं नाम उपपज्जन्तस्साति न विञ्ञायेय्य, तस्मा तंमूलिकासु योजनासु ‘‘न कामधातुया चुतस्स कामधातुं रूपधातुं अरूपधातुं उपपज्जन्तस्सा’’ति पठमं योजेत्वा पुन अनुक्कमेन ‘‘न कामधातुं उपपज्जन्तस्सा’’तिआदिका योजना कता. एवञ्हि न कामधातुआदिपदेहि यथावुत्तधातुयोयेव गहिता, न कञ्चीति विञ्ञायति. यथा अनुसयवारे ‘‘अनुसेन्तीति पदस्स उप्पज्जन्तीति अत्थो गहितो’’ति वुत्तं, तत्थापि उप्पज्जमानमेव सन्धाय उप्पज्जन्तीति गहेतुं न सक्का ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता’’तिआदिवचनतो. अथापि अप्पहीनतं सन्धाय उप्पज्जन्तीति अत्थो तत्थ गहितो, इधापि सो न न युज्जतीति. भङ्गाति भञ्जितब्बा, द्विधा कातब्बाति अत्थो. ननु न कोचि अनुसयो यत्थ उप्पज्जन्तस्स अनुसेति नानुसेति चाति द्विधा कातब्बा, तत्थेव कस्मा ‘‘कति अनुसया भङ्गा? अनुसया भङ्गा नत्थी’’ति पुच्छाविस्सज्जनानि कतानि. न हि पकारन्तराभावे संसयो युत्तोति? न न युत्तो, ‘‘अनुसया भङ्गा नत्थी’’ति अवुत्ते भङ्गाभावस्स अविञ्ञातत्ताति.
धातुवारवण्णना निट्ठिता.
अनुसययमकवण्णना निट्ठिता.
८. चित्तयमकं
उद्देसवारवण्णना
१-६२. चित्तयमकवण्णनायं आदितोव तयो सुद्धिकमहावारा होन्तीति इमे तयो महावारा सरागादिकुसलादीहि मिस्सका सुद्धिका च, तेसु आदितो सुद्धिका होन्तीति अत्थो. मिस्सकेसु च एकेकस्मिं सरागादिमिस्सकचित्ते तयो तयो महावारा, ते तत्थ तत्थ पन वुत्ते सम्पिण्डेत्वा ‘‘सोळस पुग्गलवारा’’तिआदि वुत्तं, न निरन्तरं वुत्तेति. ‘‘यस्स चित्तं उप्पज्जति न निरुज्झति, तस्स चित्तं निरुज्झिस्सति नुप्पज्जिस्सती’’तिआदिना उप्पादनिरोधानं पच्चुप्पन्नानागतकालानञ्च संसग्गवसेन एकेकाय पुच्छाय पवत्तत्ता ‘‘उप्पादनिरोधकालसम्भेदवारो’’ति वुत्तो. एवं सेसानम्पि वारानं तंतंनामता पाळिअनुसारेन वेदितब्बा.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
६३. तथारूपस्सेव खीणासवस्स चित्तं सन्धायाति इदं उप्पादक्खणसमङ्गिपच्छिमचित्तसमङ्गिम्हि पुग्गले अधिप्पेते तञ्च चित्तं अधिप्पेतमेव होतीति कत्वा वुत्तन्ति दट्ठब्बं. अरहतो पच्छिमचित्तम्पीति नुप्पज्जति निरुज्झतीति एवंपकारं भङ्गक्खणसमङ्गिमेव सन्धाय वुत्तं.
६५-८२. उप्पादवारस्स दुतियपुच्छाविस्सज्जने चित्तस्स भङ्गक्खणे, निरोधसमापन्नानं, असञ्ञसत्तानं तेसं चित्तं उप्पज्जित्थ, नो च तेसं चित्तं उप्पज्जतीति एत्थ ‘‘चित्तस्स भङ्गक्खणे तेसं चित्तं उप्पज्जित्था’’ति एतस्स ‘‘सब्बेसं चित्तं खणपच्चुप्पन्नमेव हुत्वा उप्पादक्खणं अतीतत्ता उप्पज्जित्थ नामा’’ति अत्थो वुत्तो. चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जित्थ चेव उप्पज्जति चाति एतस्सपि उप्पादं पत्तत्ता उप्पज्जित्थ, अनतीतत्ता उप्पज्जति नामाति द्वयमेतं एवं न सक्का वत्तुं. न हि खणपच्चुप्पन्ने ‘‘उप्पज्जित्था’’ति अतीतवोहारो अत्थि. यदि सिया, यं वा पन चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जतीति एत्थ ‘‘नो’’ति अवत्वा विभजितब्बं सिया. तथा ‘‘यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जित्था’’ति एत्थ च ‘‘नो’’ति अवत्वा ‘‘आमन्ता’’ति वत्तब्बं सिया. ‘‘चित्तस्स भङ्गक्खणे’’ति पन भिज्जमानचित्तसमङ्गी पुग्गलो वुत्तो, तस्स अतीतं चित्तं उप्पज्जित्थ, न च किञ्चि चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणेति च उप्पज्जमानचित्तसमङ्गी पुग्गलो वुत्तो, तस्सपि अतीतं चित्तं उप्पज्जित्थ, तं पन चित्तं उप्पज्जतीति एवमेत्थ अत्थो दट्ठब्बो. चित्तन्ति हि सामञ्ञवचनं एकस्मिं अनेकस्मिञ्च यथागहितविसेसे तिट्ठतीति. ‘‘यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पज्जतीति? चित्तस्स भङ्गक्खणे’’ति एत्थ यस्स वा पन चित्तं उप्पज्जिस्सतीति एतेन सन्निट्ठानेन गहितपुग्गलस्सेव चित्तस्स भङ्गक्खणेति एवं सब्बत्थ सन्निट्ठानवसेन नियमो वेदितब्बो. उप्पन्नुप्पज्जमानवारो निरुद्धनिरुज्झमानवारो च पुग्गलवारादीसु तीसुपि निन्नानाकरणा उद्दिट्ठा निद्दिट्ठा च. तत्थ पुग्गलवारे अविसेसेन यं कञ्चि तादिसं पुग्गलं सन्धाय ‘‘उप्पन्नं उप्पज्जमान’’न्तिआदि वुत्तं, धम्मवारे चित्तमेव, पुग्गलधम्मवारे पुग्गलं चित्तञ्चाति अयमेत्थ विसेसो दट्ठब्बो.
८३. अतिक्कन्तकालवारे इमस्स पुग्गलवारत्ता पुग्गलो पुच्छितोति पुग्गलस्सेव विस्सज्जनेन भवितब्बं. यथा यस्स चित्तं उप्पज्जित्थाति एतेन न कोचि पुग्गलो न गहितो, एवं यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालन्ति एतेन सन्निट्ठानेन न कोचि न गहितो. न हि सो पुग्गलो अत्थि, यस्स चित्तं उप्पादक्खणं अतीतं नत्थि, ते च पन निरुज्झमानक्खणातीतचित्ता न न होन्तीति पठमो पञ्हो ‘‘आमन्ता’’ति विस्सज्जितब्बो सिया, तथा दुतियततिया. चतुत्थो पन ‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं भङ्गक्खणं अवीतिक्कन्तं, नो च तेसं चित्तं उप्पादक्खणं अवीतिक्कन्तं, इतरेसं चित्तं भङ्गक्खणञ्च अवीतिक्कन्तं उप्पादक्खणञ्च अवीतिक्कन्त’’न्ति विस्सज्जितब्बो भवेय्य, तथा अविस्सज्जेत्वा कस्मा सब्बत्थ चित्तमेव विभत्तन्ति? चित्तवसेन पुग्गलववत्थानतो. खणस्स हि वीतिक्कन्तताय अतिक्कन्तकालतावचनेन वत्तमानस्स च चित्तस्स वसेन पुग्गलो उप्पादक्खणातीतचित्तो वुत्तो अतीतस्स च, तत्थ पुरिमस्स चित्तं न भङ्गक्खणं वीतिक्कन्तं पच्छिमस्स वीतिक्कन्तन्ति एवमादिको पुग्गलविभागो यस्स चित्तस्स वसेन पुग्गलववत्थानं होति, तस्स चित्तस्स तंतंखणवीतिक्कमावीतिक्कमदस्सनवसेन दस्सितो होतीति सब्बविस्सज्जनेसु चित्तमेव विभत्तं. अथ वा नयिध धम्ममत्तविसिट्ठो पुग्गलो पुच्छितो, अथ खो पुग्गलविसिट्ठं चित्तं, तस्मा चित्तमेव विस्सज्जितन्ति वेदितब्बं. यदिपि पुग्गलप्पधाना पुच्छा, अथापि चित्तप्पधाना, उभयथापि दुतियपुच्छाय ‘‘आमन्ता’’ति वत्तब्बं सिया, तथा पन अवत्वा निरोधक्खणवीतिक्कमेन अतिक्कन्तकालता न उप्पादक्खणवीतिक्कमेन अतिक्कन्तकालता विय वत्तमानस्स अत्थीति दस्सनत्थं ‘‘अतीतं चित्त’’न्ति वुत्तन्ति दट्ठब्बं. यस्स चित्तं न उप्पज्जमानन्ति एत्थ उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं यस्स चित्तं न होतीति अत्थो. एस नयो ‘‘न निरुज्झमान’’न्ति एत्थापि.
११४-११६. मिस्सकवारेसु यस्स सरागं चित्तं उप्पज्जति न निरुज्झति, तस्स चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति पुच्छा, नोति विस्सज्जनञ्च अट्ठकथायं दस्सितं. पाळियं पन ‘‘यस्स सरागं चित्तं उप्पज्जति न निरुज्झति, तस्स सरागं चित्तं निरुज्झिस्सति नुप्पज्जिस्सती’’ति मातिकाठपनायं वुत्तत्ता विस्सज्जनेपि तथेव सन्निट्ठानसंसयत्थेसु सरागादिमिस्सकचित्तवसेनेव पुच्छा उद्धरित्वा ‘‘सरागपच्छिमचित्तस्स उप्पादक्खणे तेसं सरागं चित्तं उप्पज्जति न निरुज्झति निरुज्झिस्सति नुप्पज्जिस्सति, इतरेसं सरागचित्तस्स उप्पादक्खणे तेसं सरागं चित्तं उप्पज्जति न निरुज्झति निरुज्झिस्सति चेव उप्पज्जिस्सति चा’’ति एवमादिना नयेन येभुय्येन सुद्धिकवारसदिसमेव विस्सज्जनं कातब्बन्ति कत्वा संखित्तन्ति विञ्ञायति.
निद्देसवारवण्णना निट्ठिता.
चित्तयमकवण्णना निट्ठिता.