३. पजहनवारवण्णना

१३२-१९७. पजहनवारे येन कामरागानुसयादयो सावसेसा पहीयन्ति, सो ते पजहतीति सन्निट्ठानं कत्वा वत्तब्बो न होति अपजहनसब्भावा, तस्मा सन्निट्ठाने निरवसेसप्पजहनकोयेव पजहतीति वुत्तो, तस्मा ‘‘यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो’’ति (यम. २.अनुसययमक.१३२) वुत्तं. यस्मा पन संसयपदेन पहानकरणमत्तमेव पुच्छति, न सन्निट्ठानं करोति, तस्मा यथाविज्जमानं पहानं सन्धाय ‘‘यो कामरागानुसयं पजहति, सो मानानुसयं पजहतीति? तदेकट्ठं पजहती’’ति वुत्तं. पटिलोमे पन ‘‘नप्पजहती’’ति पजहनाभावो एव सन्निट्ठानपदेन संसयपदेन च विनिच्छितो पुच्छितो च, तस्मा येसं पजहनं नत्थि निरवसेसवसेन पजहनकानं, ते ठपेत्वा अवसेसा अप्पजहनसब्भावेनेव नप्पजहन्तीति वुत्ता, न च यथाविज्जमानेन पहानेनेव वज्जिताति दट्ठब्बाति. ‘‘अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ती’’ति (यम. २.अनुसययमक.१६५) एत्थ अट्ठकथायं ‘‘पुथुज्जनो पहानपरिञ्ञाय अभावेन नप्पजहति, सेसा तेसं अनुसयानं पहीनत्ता’’ति (यम. अट्ठ. अनुसययमक १३२-१९७) वुत्तं.

तत्थ किञ्चापि केसञ्चि विचिकिच्छानुसयो केसञ्चि उभयन्ति सेसानं तेसं पहीनता अत्थि, तथापि सोतापन्नादीनं विचिकिच्छानुसयस्स पहीनता उभयापजहनस्स कारणं न होतीति तेसं पहीनत्ता ‘‘नप्पजहन्ती’’ति न सक्का वत्तुं, अथ पन कामरागानुसयञ्च नप्पजहन्तीति इमं सन्निट्ठानेन तेसं पुग्गलानं सङ्गहिततादस्सनत्थं वुत्तन्ति न तत्थ कारणं वत्तब्बं, पुच्छितस्स पन संसयत्थस्स कारणं वत्तब्बं. एवं सति ‘‘सेसा तस्स अनुसयस्स पहीनत्ता’’ति वत्तब्बन्ति? न वत्तब्बं ‘‘यो कामरागानुसयं नप्पजहति, सो दिट्ठानुसयं विचिकिच्छानुसयं नप्पजहती’’ति पटिक्खिपित्वा पुच्छिते सदिसविस्सज्जनके दिट्ठिविचिकिच्छानुसये सन्धाय कारणस्स वत्तब्बत्ता, तस्मा तेसं अनुसयानं पहीनत्ताति तेसं दिट्ठिविचिकिच्छानुसयानं पहीनत्ता ते संसयत्थसङ्गहिते अनुसये नप्पजहन्तीति अत्थो दट्ठब्बो.

पजहनवारवण्णना निट्ठिता.