अकुसलपदं
धम्मुद्देसवारो
पठमचित्तकथावण्णना
३६५. कुसले वुत्तनयं अनुगन्त्वा यथानुरूपं वेदितब्बताय ‘‘वुत्तनयेना’’ति आह. गन्तब्बाभावतोति बुज्झितब्बाभावतो. दिट्ठिया गतमत्तन्ति दिट्ठिया गतिमत्तं गहणमत्तं. आसन्नकारणत्ता अयोनिसोमनसिकारस्स विसुं गहणं एकन्तकारणत्ता च. सतिसंवरोति इध सीतादीहि फुट्ठस्स अप्पमज्जनं खमनं दट्ठब्बं. पहानसंवरोति वीरियसंवरो.
अस्साददस्सनन्ति अस्साददिट्ठि. फलट्ठेन पच्चुपट्ठानेन असम्मापटिपत्तिपच्चुपट्ठानोमोहो, सम्मापटिपत्तिपटिपक्खभावग्गहणाकारो वा. सब्बस्स लोभस्स अभिज्झाभावे सतिपि विसेसयुत्ताय अभिज्झाय कम्मपथप्पत्ताय इधुप्पज्जमानाय लक्खणादिं दस्सेतुं ‘‘सा परसम्पत्तीन’’न्तिआदिमाह. अत्तनो परिणामनस्स पुरेचारिका तण्हाभिरति अभिरति.
अनुपपरिक्खा मोहो. मोहवसेन हि दिट्ठिवसेन वा अवत्थुस्मिं सानुनयो अधिमोक्खो उप्पज्जतीति. असतियचित्तेति अहिरिकादीहि आरक्खरहितचित्ते. सतिरहितत्ता सतिपटिपक्खत्ता चाति एतेन सतिरहिता सतिपटिपक्खा च अकुसला खन्धा एव मिच्छासतीति दस्सेति. ते पन उपनाहादिप्पवत्तियं चिरकतादिसल्लक्खणे पटुसञ्ञासम्पयुत्ता दट्ठब्बा. सदरथादिभावो अविसेसेन किलेससम्पयोगतो वुत्तो लहुतादिएकन्तपटिपक्खानं थिनमिद्धादीनं केसञ्चि इध अभावा. अवूपसमोति असन्निसिन्नसब्भावमाह. अनवट्ठानरसन्ति चलनकिच्चं. चेतसो अवूपसमेति निप्फादेतब्बे पयोजने भुम्मं, अवूपसमपच्चयभूतं आरम्मणं वा ‘‘अवूपसमो’’ति वुत्तं.
धम्मुद्देसवारकथावण्णना निट्ठिता.
निद्देसवारकथावण्णना
३७७. सहजातधम्मेसु अकम्पनं न कोसज्जेसु अकम्पनं विय तप्पटिपक्खभावतो दट्ठब्बं, तंतंपापकिरियाय उस्सहनवसेन पन थिरता तत्थ अकम्पनं.
३८१. दिट्ठिया विरूपं फन्दितन्ति तथा तथा सस्सतादिवसेन पवत्ता दिट्ठि एव वुच्चति. तरन्तीति तित्थे विय पिलवन्ति. विपरियेसतोति वत्थुस्स विपरीततो.
३९०. सभावपटिच्छादनवसेन पकतिअत्तादिअसन्तगहणस्स अनिच्चादीनं निच्चादिविसमगहणस्स च सञ्ञादिविपरियेसस्स निस्सयत्ता ‘‘असन्तं असमञ्च बुज्झती’’ति वुत्तं.
दुतियचित्तवण्णना
३९९. किञ्चापि…पे… परामसन्तस्स उप्पज्जतीति पुरिमचित्तेन अविसेसं दस्सेति. अनुस्साहनावसीदनभावेन संहतभावो थिनं.
ततियचित्तवण्णना
४००. इध मानेन सद्धिं पञ्च अपण्णकङ्गानीति अविरज्झनकङ्गानि उप्पत्तिअरहङ्गानि होन्तीति अत्थो दट्ठब्बो. मानस्स अनियतत्ता न नियतयेवापनकाति. पट्ठाने हि ‘‘संयोजनं धम्मं पटिच्च संयोजनो धम्मो उप्पज्जति हेतुपच्चया’’ति (पट्ठा. ३.४.१) एत्थ ‘‘चतुक्खत्तुं कामरागेन तिक्खत्तुं पटिघेन च मानो विचिकिच्छा भवरागो तयोपेते सकदागामिनो संयोजनानं संयोजनेहि दसविधा योजना’’ति दस्सिताय दसविधाय योजनाय ‘‘कामरागसंयोजनं पटिच्च मानसंयोजनं अविज्जासंयोजन’’न्ति वत्वा ‘‘कामरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति ‘‘मानसंयोजनं पटिच्च भवरागसंयोजनं अविज्जासंयोजन’’न्ति च वत्वा ‘‘भवरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति वुत्ताहि योजनाहि मानस्स अनियतभावो पकासितो, तथा किलेसदुकेपि. इध च वक्खति ‘‘दसविधा संयोजनानं योजना, तथा दसविधा किलेसान’’न्ति च. उन्नमनवसेनेव सम्पग्गहरसो, न वीरियं विय तंतंकिच्चसाधने अब्भुस्साहनवसेन. ओमानस्सपि अत्तानं अवंकत्वा गहणं सम्पग्गहोति दट्ठब्बो.
चतुत्थचित्तवण्णना
४०२. परिहरणत्थं विक्खित्ता हुत्वा उस्साहं जनेन्ता ‘‘परिहरणत्थं सउस्साहा’’ति वुत्ता, तेसं.
नवमचित्तवण्णना
४१३. विसप्पनअनिट्ठरूपसमुट्ठानवसेन अत्तनो पवत्तिआकारवसेन च विसप्पनरसो. दोसो उपयोगफलेसु अनिट्ठत्ता विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. अनभिरतिरसाति एवंपकारेसु पटिक्खेपेन रसवचनेसु तंतंपटिपक्खकिच्चगहणं दट्ठब्बं. कटुकाकारगति कटुकञ्चुकता, अत्तसम्पत्ति आवासादि, परायत्तताय दासब्यं विय दट्ठब्बं. यथा हि दासब्ये सति दासो परायत्तो होति, एवं कुक्कुच्चे सति तंसमङ्गी. न हि सो अत्तनो धम्मताय पवत्तितुं सक्कोति कुसलेति. अथ वा कताकताकुसलकुसलानुसोचने आयत्तताय तदुभयवसेन कुक्कुच्चेन तंसमङ्गी होतीति दासब्यं विय तं होति.
४१८. विरुद्धाकारोति विरुद्धस्स पुग्गलस्स, चित्तस्स वा आकारो विरुद्धभावो. तेन विरुज्झनं विरोधोति दस्सेति. वचनन्ति एतं निदस्सनमत्तं दट्ठब्बं. सब्बमेव हि किच्चं एतेन करियमानं सुरोपितं सुजनितं न होतीति. रोपसद्दवचनत्थमेव केचि वण्णेन्ति. तं अप्पमाणन्ति कोधस्स तथापवत्तनसभावाभावा अञ्ञेन केनचि कारणेन परिपुण्णता सियाति सन्धाय वुत्तं.
एकादसमचित्तवण्णना
४२२. विगता चिकिच्छाति चिकिच्छितुं दुक्करताय वुत्तं, न सब्बथा चिकिच्छाभावा विचिकिच्छायाति तदत्थं दस्सेति.
४२४. निच्छयाभावा असण्ठहनतो चेतसो पवत्तिपच्चयमत्तताय ‘‘पवत्तिट्ठितिमत्त’’न्ति वुत्तं.
४२५. एकं आकारं गन्तुं असमत्थताय अत्तनो आमुखं सप्पनतो ओसक्कति.
द्वादसमचित्तवण्णना
४२९. उद्धच्चं अत्तनो गहिताकारे एव ठत्वा भमतीति एकारम्मणस्मिंयेव विप्फन्दनं होति. विचिकिच्छा पन यदिपि रूपादीसु एकस्मिञ्ञेवारम्मणे उप्पज्जति, तथापि ‘‘एवं नु खो, इदं नु खो’’ति उप्पज्जमाना ‘‘ननु खो, अञ्ञं नु खो’’ति अञ्ञं गहेतब्बाकारं अपेक्खतीति नानारम्मणे चलनं होति.
‘‘एवंसम्पदमिदं वेदितब्ब’’न्ति एत्तावता इमस्मिं चित्तद्वये वुत्तपकिण्णकं दस्सेत्वा द्वादससु दस्सेतुं ‘‘सब्बेसुपी’’तिआदिमाह. कुसलेसुपि आरम्मणाधिपतिं अनुद्धरित्वा सहजाताधिपतिनो एव उद्धटत्ता इधापि सो एव उद्धरितब्बो सियाति ‘‘सहजाताधिपति लब्भमानोपि न उद्धटो’’ति वुत्तं नारम्मणाधिपतिनो अलब्भमानत्ता. सोपि हि अट्ठसु लोभसहगतेसु लब्भतीति. सेसोपीति वीमंसतो अञ्ञोपि सहजाताधिपति नत्थि, यो उद्धरितब्बो सिया. आरम्मणाधिपतिम्हि वत्तब्बमेव नत्थि. कञ्चि धम्मन्ति छन्दादीसु एकम्पि सहजातं. कुसलत्तिके ताव पटिच्चवारादीसु ‘‘न हेतुपच्चया अधिपतिपच्चया’’ति एकस्सपि पञ्हस्स अनुद्धटत्ता पट्ठाने पटिसिद्धता वेदितब्बा. अञ्ञथा हि ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति न हेतुपच्चया अधिपतिपच्चया’’ति (पट्ठा. १.१.८६) एतस्स वसेन ‘‘एक’’न्ति वत्तब्बं सिया.
दस्सनेन पहातब्बाभावतोति दस्सनेन पहातब्बस्स अभावतो, दस्सनेन पहातब्बेसु वा अभावतो. एतेन पटिसन्धिअनाकड्ढनतो दस्सनेन पहातब्बेसु अनागमनन्ति तत्थ अनागमनेन पटिसन्धिअनाकड्ढनं साधेति. अनाकड्ढनतो अनागमनं पन साधेतुं ‘‘तेसु ही’’तिआदिमाह. एत्थेव पटिसन्धिदानं भवेय्य. तथा च सति दस्सनेन पहातब्बं सिया अपायगमनीयस्स दस्सनेन पहातब्बभावतो. न चेतं दस्सनेन पहातब्बं सिया, तस्मा दस्सनेन पहातब्बविभङ्गे नागतन्ति अधिप्पायो.
कथं पनेतं ञायति ‘‘पटिसन्धिअनाकड्ढनतो दस्सनेन पहातब्बेसु अनागमन’’न्ति? दस्सनेन पहातब्बानञ्ञेव नानाक्खणिककम्मपच्चयभावस्स वुत्तत्ता. दुविधा हि अकुसला दस्सनेन पहातब्बा भावनाय पहातब्बाति. तत्थ भावनाय पहातब्बचेतनानं नानाक्खणिककम्मपच्चयभावो न वुत्तो, इतरासञ्ञेव वुत्तो. ‘‘भावनाय पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति एत्थ हि सहजातमेव विभत्तं, न नानाक्खणिकन्ति. तथा पच्चनीयेपि ‘‘भावनाय पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… सहजातपच्चयेन…पे… उपनिस्सयपच्चयेन…पे…. पच्छाजातपच्चयेन पच्चयो’’ति एत्तकमेव वुत्तं, न वुत्तं ‘‘कम्मपच्चयेन पच्चयो’’ति. इतरत्थ च वुत्तं. उद्धच्चसहगता च चेतना भावनाय पहातब्बेसु एव आगताति नानाक्खणिककम्मपच्चयो न सियाति. यदि सिया, भावनाय पहातब्बचेतनाय च नानाक्खणिककम्मपच्चयभावो वुच्चेय्य, न तु वुत्तो. तस्मा उद्धच्चसहगता नानाक्खणिककम्मपच्चयभावे सति दस्सनेन पहातब्बेसु वत्तब्बा सिया, तदभावा न वुत्ताति. पटिसन्धिअनाकड्ढनतो तत्थ अनागताति अयमेत्थाधिप्पायो. नानाक्खणिककम्मपच्चयावचनेन पन भावनाय पहातब्बानं पवत्तिविपाकता पटिक्खित्ता. पवत्तिविपाकस्सपि हि नानाक्खणिककम्मपच्चयता न सक्का निवारेतुं. वुत्तञ्च ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो, नानाक्खणिका’’तिआदि (पट्ठा. १.३.५६-५७). यदि भावनाय पहातब्बानं विपाकदानं नत्थि, कथं ते विपाकधम्मधम्मा होन्तीति? अभिञ्ञाचित्तादीनं विय विपाकारहसभावत्ता. यं पन वुत्तं ‘‘यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं…पे… अविक्खेपो होति, इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३०-७३१) इदम्पि तेसं विपाकारहतञ्ञेव सन्धाय वुत्तं सिया. इदं पन ठानं सुट्ठु विचारेतब्बं. अत्थि हि एत्थ वचनोकासो. न हि विपाकेति वचनं विपाकधम्मवचनं विय विपाकारहतं वदतीति.
अकुसलपदवण्णना निट्ठिता.
अब्याकतपदं
अहेतुककुसलविपाकवण्णना
४३१. तेसु विपाकाब्याकतन्तिआदीनं ‘‘भाजेत्वा दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्ध’’न्ति एतेन सम्बन्धो. तस्सापीति एतस्स ‘‘उप्पत्तिं दीपेतुं कामा…पे… आदि वुत्त’’न्ति एतेन सम्बन्धो. उपचितत्ताति यथा अञ्ञस्स विपाकं पटिबाहित्वा अत्तनो विपाकाभिमुखं होति तथा वड्ढितत्ता. रूपादीनं पच्चयानं अञ्ञविञ्ञाणसाधारणत्ता असाधारणेन वत्थुना चक्खुविञ्ञाणं सोतविञ्ञाणन्ति नामं उद्धटं. चक्खादीनं तिक्खमन्दभावे विञ्ञाणानं तिक्खमन्दभावा विसेसपच्चयत्ता च.
चक्खुसन्निस्सितञ्च तं रूपविजाननञ्चाति चक्खुसन्निस्सितरूपविजाननं. एवंलक्खणं चक्खुविञ्ञाणं. तत्थ चक्खुसन्निस्सितवचनेन रूपारम्मणं अञ्ञविञ्ञाणं पटिक्खिपति. रूपविजाननवचनेन चक्खुनिस्सये फस्सादयो निवत्तेति. चक्खुरूपवचनेहि च निस्सयतो आरम्मणतो च विजाननं विभावेति. रूपमत्तस्स आरम्मणस्स गहणं किच्चमेतस्साति रूपमत्तारम्मणरसं. झानङ्गवसेनाति इदं द्विपञ्चविञ्ञाणवज्जेसु विज्जमानानं उपेक्खासुखदुक्खेकग्गतानं झानङ्गिकत्ता इधापि तंसदिसानं तदुपचारं कत्वा वुत्तं. न हि झानपच्चयत्ताभावे झानङ्गता अत्थि. वुत्तञ्हि ‘‘झानङ्गानि झानसम्पयुत्त…पे… रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.३.११२). एतेसञ्च झानपच्चयभावो पटिक्खित्तो. यथाह ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न झानपच्चया. पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा’’तिआदि (पट्ठा. १.१.९८). झानपच्चयत्ताभावेपि वेदनाचित्तट्ठितीनं उपेक्खादिभावतो तथाभूतानं वचने अञ्ञट्ठानाभावतो च दुतियरासिनिद्देसो.
४३६. वत्थुपण्डरत्ताति सयं कण्हधम्मानं अप्पटिपक्खत्ता सभावपरिसुद्धानं पसादहदयवत्थुनिस्सयानं वसेन पण्डरसभावं जातन्ति अधिप्पायो. अयं पन नयो चतुवोकारे न लब्भतीति तत्थ भवङ्गस्स ततो निक्खन्ताकुसलस्स च पण्डरता न सिया, तस्मा तत्थ पण्डरताय कारणं वत्तब्बं. सभावो वायं चित्तस्स पण्डरताति.
४३९. इदम्पीति पि-सद्दो ठितिमत्तसहितं पुब्बे वुत्तं विचिकिच्छासहगतं अपेक्खित्वा वुत्तो. पकतियाति अनतिक्कमनेन. सोपि विसेसो. कायप्पसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञतीति आपाथं गन्त्वा पटिहञ्ञतीति अत्थो. यथा च ‘‘रूपं आरब्भ उप्पन्न’’न्ति वुत्ते न आरम्मणुप्पादानं पुब्बापरकालता होति, एवमिधापि घट्टनपटिहननेसु दट्ठब्बं. उपमापि उभयघट्टनदस्सनत्थं वुत्ता, न निस्सितनिस्सयघट्टनानं पुब्बापरतादस्सनत्थं. एत्थ च बहिद्धाति एतं निदस्सनमत्तं. अज्झत्तम्पि हि आरम्मणं होतीति. विञ्ञाणधातुनिस्सयभूतेहि वा अञ्ञं ‘‘बहिद्धा’’ति वुत्तं. पटिघट्टनानिघंसो बलवा होति, ततो एव इट्ठानिट्ठफोट्ठब्बसमायोगे सुखदुक्खपच्चया धातुअनुग्गहधातुक्खोभा चिरं अनुवत्तन्ति.
४५५. अञ्ञेसं चित्तानं सभावसुञ्ञतसब्भावा मनोधातुभावो आपज्जतीति चे? न, विसेससब्भावा. चक्खुविञ्ञाणादीनञ्हि चक्खादिनिस्सितता चक्खादीनं सविसयेसु दस्सनादिप्पवत्तिभावता च विसेसो. मनोविञ्ञाणस्स पन अनञ्ञनिस्सयमनोपुब्बङ्गमताय अञ्ञनिस्सयविञ्ञाणस्स अनन्तरपच्चयत्ताभावेन मनोद्वारनिग्गमनमुखभावाभावतो च सातिसयविजाननकिच्चता विसेसो. तब्बिसेसविरहा मनोमत्ता धातु मनोधातूति तिविधा मनोधातु एव वुच्चति, न विसेसमनो. तस्मा एत्थ मनो एव धातु मनोधातूति एव-सद्दो मत्तसद्दत्थो दट्ठब्बो. विसेसनिवत्तनत्थो हि सो विञ्ञाणस्साति. मनोद्वारनिग्गमनपवेसमुखभावतो पन मनोधातुया विजाननविसेसविरहो दट्ठब्बो, ततो एव मनोविञ्ञाणन्तिपि न वुच्चति. न हि तं विञ्ञाणं मनतो पवत्तं मनसो पच्चयो, नापि मनसो पच्चयभूतं मनतो पवत्तं, दस्सनादीनं पन पच्चयो, तेहि च पवत्तं तेसं पुरेचरं अनुचरञ्चाति. सम्मासङ्कप्पोति अवचनं महाविपाकानं विय जनकसदिसत्ताभावतो. तत्थ हि तिहेतुकतो दुहेतुकम्पि उप्पज्जमानं सम्मासङ्कप्पतादीहि सदिसं सहेतुकतायाति. पञ्चविञ्ञाणसोतेति एत्थ यथा पगुणं गन्थं सज्झायन्तो सज्झायसोते पतितं कञ्चि कञ्चि वाचनामग्गं न सल्लक्खेति, एवं तथागतस्स असल्लक्खणा नाम नत्थि, न च पञ्चविञ्ञाणसोते झानङ्गाभावो इध अवचनस्स कारणं. यदि तदनन्तरं निद्देसो तंसोतपतितता, इतो परेसं द्विन्नं मनोविञ्ञाणधातूनं तंसोतपतितता न सिया. तस्मा पञ्चविञ्ञाणानं विय अहेतुकताय मग्गपच्चयविरहा च विज्जमानेसुपि वितक्कविचारेसु झानङ्गधम्मानं दुब्बलत्ता पञ्चविञ्ञाणेसु विय अगणनुपगभावा च पञ्चविञ्ञाणसोतपतितता. ततो एव हि अहेतुककिरियत्तयेपि झानङ्गानि बलानि च सङ्गहवारे न उद्धटानि, झानपच्चयकिच्चमत्ततो पन पट्ठाने दुब्बलानं एत्थ वितक्कादीनं झानपच्चयता वुत्ता.
४६९. समानवत्थुकं अनन्तरपच्चयं लभित्वा उप्पज्जमानं सन्तीरणं मनोधातुतो बलवतरं होतीति तं यथारम्मणं आरम्मणरसं अनुभवन्तं इट्ठे सोमनस्ससहगतं होति, इट्ठमज्झत्ते उपेक्खासहगतं सातिसयानुभवत्ता, तस्मा ‘‘अयञ्हि इट्ठारम्मणस्मिं येवा’’तिआदि वुत्तं. वोट्ठब्बनं पन सतिपि बलवभावे विपाकप्पवत्तिं निवत्तेत्वा विसदिसं मनं करोन्तं मनसिकारकिच्चन्तरयोगतो विपाको विय अनुभवनमेव न होतीति सब्बत्थ उपेक्खासहगतमेव होति, तथा पञ्चद्वारावज्जनं मनोद्वारावज्जनञ्च किच्चवसेन अपुब्बत्ता.
अहेतुककुसलविपाकवण्णना निट्ठिता.
अट्ठमहाविपाकचित्तवण्णना
४९८. अलोभो अब्याकतमूलन्तिआदीसु कुसलपक्खे ताव अलोभादोसानं निद्देसेसु ‘‘यो तस्मिं समये अलोभो अलुब्भना…पे… अलोभो कुसलमूल’’न्ति (ध. स. ३२), ‘‘यो तस्मिं समये अदोसो अदुस्सना…पे… अदोसो कुसलमूल’’न्ति (ध. स. ३३) च वुत्तत्ता इधापि तंनिद्देसेसु ‘‘अलोभो अब्याकतमूल’’न्ति ‘‘अदोसो अब्याकतमूल’’न्ति वचनं युज्जेय्य. पञ्ञिन्द्रियादिनिद्देसेसु पन ‘‘पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठी’’ति (ध. स. ३४, ३७) एवं तत्थपि वुत्तं, न वुत्तं ‘‘अमोहो कुसलमूल’’न्ति. तस्मा इधापि ‘‘अमोहो अब्याकतमूल’’न्ति पाठेन न भवितब्बं सिया. अलोभादोसानं विय अमोहस्सपि अब्याकतमूलदस्सनत्थं पनेतं वुत्तन्ति वेदितब्बं. अविञ्ञत्तिजनकतोति कायवचीकम्मद्वारनिवारणं करोति. अविपाकधम्मतोति मनोकम्मद्वारनिवारणञ्च. विपाकधम्मानञ्हि कम्मद्वारं वुत्तन्ति. तथा अप्पवत्तितोति दानादिपुञ्ञकिरियभावेन अप्पवत्तितो. एतेन पुञ्ञकिरियवत्थुभेदमेव निवारेति.
बलवपच्चयेहीति पयोगेन विना निप्फन्नेहि आरम्मणादिपच्चयेहि. असङ्खारिकादीसु हि येन केनचि चित्तेन कम्मे आयूहिते असङ्खारेन अप्पयोगेन कम्मकम्मनिमित्तगतिनिमित्तपच्चुपट्ठाने पटिसन्धि उप्पज्जमाना असङ्खारिका होति, ससङ्खारेन सप्पयोगेन कम्मादिपच्चुपट्ठाने ससङ्खारिका. भवङ्गचुतियो पन पटिसन्धिसदिसाव. तदारम्मणञ्च कुसलाकुसलानि विय असङ्खारिकं ससङ्खारिकञ्च दट्ठब्बन्ति. एतेसु बलवं दुब्बलञ्च विचारेतुं ‘‘तत्थ सब्बेपि सब्बञ्ञुबोधिसत्ता’’तिआदिमाह. कालवसेन पन परिणमतीति अप्पायुकसंवत्तनिककम्मबहुले काले तंकम्मसहितसन्तानजनितसुक्कसोणितपच्चयानं तंमूलकानं चन्दसूरियविसमपरिवत्तादिजनितउताहारादिविसमपच्चयानञ्च वसेन परिणमति.
विपाकुद्धारकथावण्णना
यतो यत्तको च विपाको होति, यस्मिञ्च ठाने विपच्चति, तं दस्सेतुं विपाकुद्धारकथा आरद्धा. एत्थेवाति एकाय चेतनाय कम्मे आयूहितेयेव. दुहेतुकपटिसन्धिवसेन द्वादसकमग्गोपि होति, द्वादसकप्पकारोपीति अत्थो. अहेतुकपटिसन्धिवसेन अहेतुकट्ठकम्पि. असङ्खारिकससङ्खारिकानं ससङ्खारिकअसङ्खारिकविपाकसङ्करं अनिच्छन्तो दुतियत्थेरो ‘‘द्वादसा’’तिआदिमाह. पुरिमस्स हि पच्चयतोससङ्खारिकअसङ्खारिकभावो, इतरेसं कम्मतो. ततियो तिहेतुकतो दुहेतुकम्पि अनिच्छन्तो ‘‘दसा’’तिआदिमाह.
इमस्मिं विपाकुद्धारट्ठाने कम्मपटिसन्धिववत्थानत्थं साकेतपञ्हं गण्हिंसु. कम्मवसेन विपाकस्स तंतंगुणदोसुस्सदनिमित्ततं दस्सेतुं उस्सदकित्तनं गण्हिंसु. हेतुकित्तनं इध पठमत्थेरस्स अधिप्पायेन वुत्तं. दुतियत्थेरवादादीसु विसेसं तत्थ तत्थेव वक्खामि. ञाणस्स जच्चन्धादिविपत्तिनिमित्तपटिपक्खभावतो तिहेतुकं अतिदुब्बलम्पि समानं पटिसन्धिं आकड्ढन्तं दुहेतुकं आकड्ढेय्याति ‘‘अहेतुका न होती’’ति आह. यं पन पटिसम्भिदामग्गे सुगतियं जच्चन्धबधिरादिविपत्तिया अहेतुकउपपत्तिं वज्जेत्वा गतिसम्पत्तिया सहेतुकोपपत्तिं दस्सेन्तेन ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति’’च्चेव (पटि. म. १.२३२) वुत्तं. तेन ञाणविप्पयुत्तेन कम्मुना ञाणसम्पयुत्तपटिसन्धि न होतीति दीपितं होति. अञ्ञथा ‘‘सत्तन्नं हेतूनं पच्चया उपपत्ति होती’’ति इदम्पि वुच्चेय्य. तथा हि ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूप’’न्ति विस्सज्जितं ञाणसम्पयुत्तोपपत्तियं.
एवं ञाणविप्पयुत्ततो ञाणसम्पयुत्तुपपत्तिया च विज्जमानाय ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं सत्तन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला’’ति वत्वा अञ्ञत्थ च पुब्बे वुत्तनयेनेव सक्का विस्सज्जनं कातुन्ति. यथा पन ‘‘ञाणसम्पयुत्ते सत्तन्नं हेतूनं पच्चया’’ति अवचनतो ञाणविप्पयुत्ततो ञाणसम्पयुत्ता पटिसन्धि न होति, एवं ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होति’’च्चेव (पटि. म. १.२३३) वत्वा ‘‘सत्तन्नं हेतूनं पच्चया’’ति अवचनतो ञाणसम्पयुत्ततो ञाणविप्पयुत्तापि पटिसन्धि न होतीति आपन्नं. एत्थापि हि न न सक्का कम्मनिकन्तिक्खणेसु तयो च द्वे च हेतू योजेत्वा पटिसन्धिक्खणे द्वे योजेतुन्ति. इमस्स पन थेरस्स अयमधिप्पायो सिया ‘‘कम्मसरिक्खकविपाकदस्सनवसेन इध पाठो सावसेसो कथितो’’ति. ‘‘ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया’’ति एत्थापि पाठस्स सावसेसतापत्तीति चे? न, दुब्बलस्स दुहेतुककम्मस्स ञाणसम्पयुत्तविपाकदाने असमत्थत्ता. तिहेतुकस्स पन अहेतुकविपच्चने विय दुहेतुकविपच्चनेपि नत्थि समत्थताविघातोति. आरम्मणेन वेदना परिवत्तेतब्बाति सन्तीरणतदारम्मणे सन्धाय वुत्तं. विभागग्गहणसमत्थताभावतो हि चक्खुविञ्ञाणादीनि इट्ठइट्ठमज्झत्तेसु उपेक्खासहगतानेव होन्ति, कायविञ्ञाणञ्च सुखसहगतमेव पटिघट्टनाविसेसेनाति.
विसेसवता कालेन तदारम्मणपच्चयसब्बजवनवता विपाकप्पवत्तिं दस्सेतुं ‘‘संवरासंवरे…पे… उपगतस्सा’’ति वुत्तं अञ्ञकाले पञ्चविञ्ञाणादिपरिपुण्णविपाकप्पवत्तिअभावा. कक्कटक…पे… भवङ्गोतरणन्ति एतेन इदं दस्सेति – केदारे पूरेत्वा नदीपवेसनमग्गभूतं मातिकं अप्पविसित्वा कक्कटकमग्गादिना अमग्गेन नदीओतरणं विय चित्तस्स जवित्वा भवङ्गप्पवेसनमग्गभूते तदारम्मणे अनुप्पन्ने मग्गेन विना भवङ्गोतरणन्ति.
एतेसु तीसु मोघवारेसु दुतियो उपपरिक्खित्वा गहेतब्बो. यदि हि अनुलोमे वेदनात्तिके पटिच्चवारादीसु ‘‘आसेवनपच्चया न मग्गे द्वे’’ति ‘‘न मग्गपच्चया आसेवने द्वे’’ति च वुत्तं सिया, सोपि मोघवारो लब्भेय्य. यदि पन वोट्ठब्बनम्पि आसेवनपच्चयो सिया, कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयभावी धम्मो आसेवनपच्चयोति अवुत्तो अत्थि. वोट्ठब्बनस्स पन कुसलाकुसलानं आसेवनपच्चयभावो अवुत्तो. ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नासेवनपच्चया. अकुसलं धम्मं…पे… नासेवनपच्चया’’ति (पट्ठा. १.१.९३) वचनतो पटिक्खित्तोव. अथापि सिया ‘‘असमानवेदनानं वसेन एवं वुत्त’’न्ति, एवमपि यथा ‘‘आवज्जना कुसलानं खन्धानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयोति’’पि वत्तब्बं सिया, जातिभेदा न वुत्तन्ति चे? भूमिभिन्नस्स कामावचरस्स रूपावचरादीनं आसेवनपच्चयभावो विय जातिभिन्नस्सपि भवेय्याति वत्तब्बो एव सिया. अभिन्नजातिकस्स च वसेन यथा ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न तु वुत्तं. तस्मा वेदनात्तिकेपि सङ्खित्ताय गणनाय ‘‘आसेवनपच्चया न मग्गे एकं, न मग्गपच्चया आसेवने एक’’न्ति एवं गणनाय निद्धारियमानाय वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावा यथावुत्तप्पकारो दुतियो मोघवारो वीमंसितब्बो.
वोट्ठब्बनं पन वीथिविपाकसन्ततिया आवट्टनतो आवज्जना, ततो विसदिसस्स जवनस्स करणतो मनसिकारो च. एवञ्च कत्वा पट्ठाने ‘‘वोट्ठब्बनं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’तिआदि न वुत्तं, ‘‘आवज्जना’’इच्चेव वुत्तं. तस्मा वोट्ठब्बनतो चतुन्नं वा पञ्चन्नं वा जवनानं आरम्मणपुरेजातं भवितुं असक्कोन्तं रूपादिआवज्जनादीनं पच्चयो भवितुं न सक्कोति, अयमेतस्स सभावोति जवनापारिपूरिया दुतियो मोघवारो दस्सेतुं युत्तो सिया, अयम्पि अट्ठकथायं अनागतत्ता सुट्ठु विचारेतब्बो. भवङ्गस्स जवनानुबन्धनभूतत्ता ‘‘तदारम्मणं भवङ्ग’’न्ति वुत्तं. पट्ठाने (पट्ठा. ३.१.१०२) च वुत्तं ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, ‘‘अहेतुकं भवङ्गं सहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति च. कुसलाकुसलानं सुखदुक्खविपाकमत्तो विपाको न इट्ठानिट्ठानं विभागं करोति, जवनं पन रज्जनविरज्जनादिवसेन इट्ठानिट्ठविभागं करोतीति ‘‘आरम्मणरसं जवनमेव अनुभवती’’ति वुत्तं.
अविज्जमाने कारके कथं आवज्जनादिभावेन पवत्ति होतीति तं दस्सेतुं पञ्चविधं नियामं नाम गण्हिंसु. नियामो च धम्मानं सभावकिच्चपच्चयभावविसेसोव. तंतंसदिसफलदानन्ति तस्स तस्स अत्तनो अनुरूपफलस्स दानं. सदिसविपाकदानन्ति च अनुरूपविपाकदानन्ति अत्थो. इदं वत्थुन्ति एकवचननिद्देसो एकगाथावत्थुभावेन कतो. जगतिप्पदेसोति यथावुत्ततो अञ्ञोपि लोकप्पदेसो. कालगतिउपधिपयोगपटिबाळ्हञ्हि पापं न विपच्चेय्य, न पदेसपटिबाळ्हन्ति. सब्बञ्ञुतञ्ञाणपदट्ठानपटिसन्धियादिधम्मानं नियामो दससहस्सिकम्पनपच्चयभावो धम्मनियामो. अयं इध अधिप्पेतोति एतेन नियामवसेन आवज्जनादिभावो, न कारकवसेनाति एतमत्थं दस्सेति.
इमस्मिं ठानेति सोळसविपाककथाठाने. द्वादसहि वाहेतब्बा नाळियन्तोपमा न द्वादसन्नं चित्तानं एकस्मिं द्वारे एकारम्मणे सह किच्चकरणवसेन वुत्ता, अथ खो द्वादसन्नं एकस्मिं द्वारे सकिच्चकरणमत्तवसेन. अहेतुकपटिसन्धिजनकसदिसजवनानन्तरं अहेतुकतदारम्मणं दस्सेन्तो ‘‘चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स…पे… पतिट्ठाती’’ति आह. अहेतुकपटिसन्धिकस्स पन तिहेतुकजवने जविते पटिसन्धिदायकेन कम्मेन अहेतुकस्स तदारम्मणस्स निब्बत्ति न पटिसेधिता. एवं दुहेतुकपटिसन्धिकस्सपि तिहेतुकानन्तरं दुहेतुकतदारम्मणं अप्पटिसिद्धं दट्ठब्बं. परिपुण्णविपाकस्स च पटिसन्धिजनककम्मस्स वसेनायं विपाकविभावना तस्सा मुखनिदस्सनमत्तमेवाति पवत्तिविपाकस्स च एकस्स तिहेतुकादिकम्मस्स सोळसविपाकचित्तादीनि वुत्तनयेन योजेतब्बानि. तस्मा येन केनचि कम्मुना एकेन अनेकं तदारम्मणं पवत्तमानं कम्मविसेसाभावा येसं तं अनुबन्धभूतं, तेसं जवनसङ्खातानं पच्चयानं विसेसेन विसिट्ठं होतीति जवनेनायं तदारम्मणनियामो वुत्तो, न नानाकम्मुना निब्बत्तमानस्स वसेन. एवञ्च कत्वा पट्ठाने (पट्ठा. ३.१.९८) ‘‘सहेतुके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जती’’ति ञाणानन्तरं अहेतुकतदारम्मणं, ‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति अकुसलानन्तरञ्च सहेतुकतदारम्मणं वुत्तं, न च ‘‘तं एतेन थेरेन अदस्सित’’न्ति कत्वा तस्स पटिसेधो कतो होतीति.
यं पन जवनेन…पे… तं कुसलं सन्धाय वुत्तन्ति इदं कुसलस्स विय अकुसलस्स सदिसो विपाको नत्थीति कत्वा वुत्तं. ससङ्खारिकासङ्खारिकनियमनं पन सन्धाय तस्मिं वुत्ते अकुसलेपि न तं न युज्जतीति. अट्ठानमेतन्ति इदं नियमितादिवसेन योनिसो अयोनिसो वा आवट्टिते अयोनिसो योनिसो वा ववत्थापनस्स अभावं सन्धाय वुत्तं.
पटिसिद्धन्ति अवचनमेव पटिसेधोति कत्वा वुत्तं. कामतण्हानिब्बत्तेन कम्मुना महग्गतलोकुत्तरानुभवनविपाको न होतीति तत्थ तदारम्मणाभावो वेदितब्बो. आपाथगते विसये तन्निन्नं भवङ्गं आवज्जनं उप्पादेतीति आवज्जनं विसये निन्नत्ता उप्पज्जति. भवङ्गं पन सब्बदा सविसये निन्नमेवाति विसयन्तरविञ्ञाणस्स पच्चयो हुत्वापि तदभावा विना आवज्जनेन सविसये निन्नत्ताव उप्पज्जति. चिण्णत्ताति आवज्जनेन विना बहुलं उप्पन्नपुब्बत्ता. समुदाचारत्ताति आपाथगते विसये पटिसन्धिविसये च बहुलं उप्पादितपुब्बत्ता. चिण्णत्ताति वा पुग्गलेन आसेवितभावो वुत्तो. समुदाचारत्ताति सयं बहुलं पवत्तभावो. निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनन्ति इदं तदनन्तरमेव निरोधफुसनं सन्धाय वुत्तं, न अरूपक्खन्धानं विय निरोधस्स अनन्तरपच्चयभावं. नेवसञ्ञानासञ्ञायतनं पन किञ्चि परिकम्मेन विना उप्पज्जमानं नत्थि. परिकम्मावज्जनमेव तस्स आवज्जनन्ति अञ्ञस्स विय एतस्सपि सावज्जनताय भवितब्बं.
अयं पनेत्थाधिप्पायो दट्ठब्बो – नेवसञ्ञानासञ्ञायतनस्स न निरोधस्स अनन्तरपच्चयभावे निन्नादिता अञ्ञत्थ दिट्ठा अतदत्थपरिकम्मभावे च उप्पत्तिया, अथ च तं तस्स अनन्तरपच्चयो होति, तथा च उप्पज्जति. एवं यथावुत्ता मनोविञ्ञाणधातु असतिपि निरावज्जनुप्पत्तियं निन्नादिभावे निरावज्जना उप्पज्जतीति. एवञ्च कत्वा ‘‘अरियमग्गचित्तं मग्गानन्तरानि फलचित्तानी’’ति इदं वुत्तं. यदि हि निब्बानारम्मणावज्जनाभावं सन्धायेतं वुत्तं सिया, गोत्रभुवोदानानि निदस्सनानि सियुं तेहेव एतेसं निरावज्जनतासिद्धितो. फलसमापत्तिकाले च ‘‘परित्तारम्मणं महग्गतारम्मणं अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति वचनतो समानारम्मणावज्जनरहितत्ता ‘‘मग्गानन्तरानि फलचित्तानी’’ति एवं फलसमापत्तिचित्तानि न वज्जेतब्बानि सियुं, गोत्रभुवोदानानि पन यदिपि निब्बाने चिण्णानि समुदाचारानि च न होन्ति, आरम्मणन्तरे चिण्णसमुदाचारानेव. फलसमापत्तिचित्तानि च मग्गवीथितो उद्धं तदत्थपरिकम्मसब्भावाति तेसं गहणं न कतं, अनुलोमानन्तरञ्च फलसमापत्तिचित्तं चिण्णं समुदाचारं, न नेवसञ्ञानासञ्ञायतनानन्तरं मग्गानन्तरस्स विय तदत्थपरिकम्माभावाति ‘‘निरोधा वुट्ठहन्तस्सा’’ति तञ्च निदस्सनं. आरम्मणेन पन विना नुप्पज्जतीति इदं एतस्स महग्गतारम्मणत्ताभावा पुच्छं कारेत्वा आरम्मणनिद्धारणत्थं वुत्तं.
तत्थाति विपाककथायं. जच्चन्धपीठसप्पिउपमानिदस्सनं विपाकस्स निस्सयेन विना अप्पवत्तिदस्सनत्थं. विसयग्गाहोति इदं चक्खादीनं सविसयग्गहणेन चक्खुविञ्ञाणादिविपाकस्स दस्सनत्थं वुत्तं. उपनिस्सयतो चक्खादीनं दस्सनादिअत्थतो च तस्सेव विपाकस्स दस्सनत्थं ‘‘उपनिस्सयमत्थसो’’ति वुत्तं. हदयवत्थुमेवाति यथा पुरिमचित्तानि हदयवत्थुनिस्सितानि च पसादवत्थुअनुगतानि च अञ्ञारम्मणानि होन्ति, न एवं भवङ्गं, तं पनेतं वत्थारम्मणन्तररहितं केवलं हदयवत्थुमेव निस्साय पवत्ततीति वुत्तं होति. हदयरूपवत्थुकन्ति इधापि अञ्ञवत्थानुगतन्ति अधिप्पायो वेदितब्बो. मक्कटकस्स हि सुत्तारोहणं विय पसादवत्थुकं चित्तं, सुत्तेन गमनादीनि विय तदनुगतानि सेसचित्तानीति. सुत्तघट्टनमक्कटकचलनानि विय पसादघट्टनभवङ्गचलनानि सह होन्तीति दीपनतो ‘‘एकेकं…पे… आगच्छती’’तिपि दीपेति.
भवङ्गस्स आवट्टितकालोति इदं दोवारिकसदिसानं चक्खुविञ्ञाणादीनं पादपरिमज्जकसदिसस्स आवज्जनस्स सञ्ञादानसदिसो अनन्तरपच्चयभावो एव भवङ्गावट्टनन्ति कत्वा वुत्तं. विपाकमनोधातुआदीनं अदिस्वाव सम्पटिच्छनादिकरणं गाळ्हग्गहणमत्तपुथुलचतुरस्सभावविजाननमत्तकहापणभावविजाननमत्तकम्मोपनयनमत्तसामञ्ञवसेन वुत्तं, न गाळ्हग्गाहकादीनं कहापणदस्सनस्स अभावो तंसमानभावो च सम्पटिच्छनादीनं अधिप्पेतोति वेदितब्बो.
पण्डरं एतन्ति पण्डररूपदस्सनसामञ्ञतो चक्खुविञ्ञाणमेव दस्सनकिच्चं साधेतीति दीपनं वेदितब्बं. एवं सोतद्वारादीसुपि योजेतब्बं सवनादिवसेन. सन्तापनवसेन गुळसीलो गुळप्पयोजनो वा गोळियको. उपनिस्सयतोति न उपनिस्सयपच्चयं सन्धाय वुत्तं. यस्मिं पन असति यो न होति, सो इध ‘‘उपनिस्सयो’’ति अधिप्पेतो. आलोकसन्निस्सितन्ति इदम्पि आलोके सति सब्भावं सन्धाय वुत्तं, न उपनिस्सयपच्चयतं. मन्दथामगतं नाम किरियचित्तस्स पच्चयभावं अनुपगन्त्वा सयमेव पवत्तमानं.
असङ्खारिकससङ्खारिकेसु दोसं दिस्वाति न कम्मस्स विरुद्धसभावेन विपाकेन भवितब्बन्ति असङ्खारिककम्मस्स ससङ्खारिकविपाकेसु, ससङ्खारिककम्मस्स च असङ्खारिकविपाकेसु दोसं दिस्वा. अहेतुकानं पन रूपादीसु अभिनिपातमत्तादिकिच्चानं न ससङ्खारिकविरुद्धो सभावोति असङ्खारिकता नत्थि, असङ्खारिकविरुद्धसभावाभावा नापि ससङ्खारिकताति उभयाविरोधा उभयेनपि तेसं निब्बत्तिं अनुजानाति. चित्तनियामन्ति तदारम्मणनियामं. किरियतो पञ्चाति इमेसं…पे… पतिट्ठातीति किरियजवनानन्तरञ्च तदारम्मणं वुत्तं. पट्ठाने (पट्ठा. १.३.९४) पन ‘‘कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति विपाकधम्मधम्मानमेव अनन्तरा तदारम्मणं वुत्तं. कुसलत्तिके च ‘‘सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो’’तिआदिना (पट्ठा. १.१.४०६) कुसलाकुसलजवनमेव वत्वा तदनन्तरं तदारम्मणं वुत्तं, न अब्याकतानन्तरं, न च कत्थचि किरियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सति. विज्जमाने च तस्मिं अवचने कारणं नत्थि, तस्मा उपपरिक्खितब्बो एसो थेरवादो. विप्फारिकञ्हि जवनं नावं विय नदीसोतो भवङ्गं अनुबन्धतीति युत्तं, न पन छळङ्गुपेक्खवतो सन्तवुत्तिं किरियजवनं पण्णपुटं विय नदीसोतोति.
पिण्डजवनं जवतीति कुसलाकुसलकिरियजवनानि पिण्डेत्वा कथितानीति तथा कथितानि जवनानि पिण्डितानि विय वुत्तानि, एकस्मिं वा तदारम्मणे पिण्डेत्वा दस्सितानि हुत्वा जवितानेव वुत्तानि. इमञ्च पन पिण्डजवनं वदन्तेन अकुसलतो चत्तारियेव उपेक्खासहगतानि गहेत्वा द्वादसुपेक्खासहगतजवनानि पिण्डितानि विय वुत्तानि. पट्ठाने पन ‘‘कुसलं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति. दिट्ठि, विचिकिच्छा, उद्धच्चं, दोमनस्सं उप्पज्जति. अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वुत्तत्ता इतरानि द्वे इट्ठारम्मणे पवत्तविचिकिच्छुद्धच्चसहगतानिपि कुसलविपाके तदारम्मणे पिण्डेतब्बानि सियुं. तेसं पन अनन्तरं अहेतुकविपाकेनेव तदारम्मणेन भवितब्बं, सो च सन्तीरणभावेनेव गहितोति अपुब्बं गहेतब्बं नत्थि. अहेतुके च पिण्डेतब्बं नारहन्तीति अधिप्पायेन न पिण्डेतीति.
तिहेतुकजवनावसाने पनेत्थाति एतस्मिं दुतियवादे तिहेतुकजवनावसाने तिहेतुकतदारम्मणं युत्तन्ति दस्सेतुं युत्तं वदति जवनसमानत्ता, नालब्भमानत्ता अञ्ञस्स. पठमत्थेरेन अकुसलानन्तरं वुत्तस्स अहेतुकतदारम्मणस्स, कुसलानन्तरं वुत्तस्स च सहेतुकतदारम्मणस्स अकुसलानन्तरं उप्पत्तिं वदन्तस्स हि पटिसन्धिजनकं तिहेतुककम्मं दुहेतुकाहेतुकं विपाकं जनयन्तम्पि तिहेतुकजवनानन्तरं न जनेतीति न एत्थ कारणं दिस्सतीति एवं युत्तं गहेतब्बं अवुत्तम्पीति अधिप्पायो. अथ वा तस्मिं तस्मिं थेरवादे येन अधिप्पायेन ससङ्खारासङ्खारविधानादि वुत्तं, तं तेनेव अधिप्पायेन युत्तं गहेतब्बं, न अधिप्पायन्तरं अधिप्पायन्तरेन आलोळेतब्बन्ति अत्थो. हेतुसदिसमेवाति जनककम्महेतुसदिसमेव. महापकरणे आवि भविस्सतीति महापकरणे आगतपाळिया पाकटं उप्पत्तिविधानं आवि भविस्सतीति अधिप्पायेन वदति.
कामावचरकुसलविपाककथावण्णना निट्ठिता.
रूपावचरारूपावचरविपाककथावण्णना
४९९. अनन्तरायेनाति परिहानिपच्चयविरहेन. पटिपदादिभेदोति पटिपदारम्मणभेदो. तथा हि दुक्खपटिपदं दन्धाभिञ्ञं झानं उप्पादेत्वा पुनप्पुनं समापज्जन्तस्स तं झानं तंपटिपदमेव होति. एतस्मिं अपरिहीने तस्स विपाको निब्बत्तमानो तप्पटिपदोव भवितुं अरहतीति. छन्दाधिपतेय्यादिभावो पन तस्मिं खणे विज्जमानानं छन्दादीनं अधिपतिपच्चयभावेन होति, न आगमनवसेन. तथा हि एकमेव झानं नानाक्खणेसु नानाधिपतेय्यं होति. चतुत्थज्झानस्सेव हि चतुरिद्धिपादभावेन भावना होति, तस्मा विपाकस्स आगमनवसेन छन्दाधिपतेय्यादिता न वुत्ता.
रूपावचरारूपावचरविपाककथावण्णना निट्ठिता.
लोकुत्तरविपाककथावण्णना
५०५. यथा वट्टं आचिनति, तथा तण्हादीहि अभिसङ्खतं लोकियकम्मं उपचितन्ति वुच्चति. लोकुत्तरं पन एवं न होतीति तथा न वुत्तं. सुद्धागमनवसेनाति अनिमित्ताप्पणिहितनामदायकेहि सगुणारम्मणेहि विज्जमानेहिपि फलस्स सुञ्ञतनामदानदीपने अग्गहितभावेनेव अवोमिस्सेनाति अत्थो. आगमनतो सुञ्ञताप्पणिहितनामवतो मग्गस्स आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामत्तयदानं योजितं, इतरस्सपि पन तथेव योजेतब्बं. नयमत्तदस्सनञ्हेतं. सगुणारम्मणेहि पन नामत्तयवतो अनिच्चानुपस्सनानन्तरस्सपि मग्गस्स आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामत्तयदानं न निवारितन्ति. वळञ्जनकफलसमापत्तिया च विपस्सनागमनवसेन नामलाभे मग्गस्स विय अनिमित्तनामलाभो न सिया. यथा पन मग्गानन्तरस्स विय वळञ्जनकफलसमापत्तियापि झानपटिपदाभेदो होति, एवं सुञ्ञतादिनामलाभे सति अनिमित्तनामञ्च लभतीति. अवूपसन्तायाति इदं केनचि अञ्ञेन अनन्तरितत्ता तादिसाय एव सद्धाय…पे… पञ्ञाय च अनन्तरपच्चयभावं सन्धाय वुत्तं. तेन छन्दादयोपि अत्तनो अनन्तरसदिसानं छन्दादीनं उप्पादका अधिपतिभूता अधिपतिभूते एव उप्पादेन्तीति इममत्थं दीपेति.
५५५. किलेससमुच्छेदकस्स मग्गस्स सम्मादिट्ठिआदिकस्स निय्यानिकसभावस्स फलेनपि पटिप्पस्सद्धकिलेसेन निय्यानसभावेनेव भवितब्बं, तस्मा फलेपि ‘‘मग्गङ्गं मग्गपरियापन्न’’न्ति वुत्तं. एवञ्च कत्वा मग्गविभङ्गे फलेसु च अट्ठङ्गिको पञ्चङ्गिको च मग्गो उद्धटो, एवं बोज्झङ्गापीति. मग्गं उपादायाति मग्गसदिसताय मग्गोति इममत्थं सन्धायाह.
लोकुत्तरविपाककथावण्णना निट्ठिता.
अकुसलविपाककथावण्णना
५५६. इट्ठइट्ठमज्झत्तेसु विय न अनिट्ठअनिट्ठमज्झत्तेसु सन्तीरणविसेसो अत्थि, अनिट्ठारम्मणमेव पन अधिमत्तं मन्दञ्च एवं द्विधा वुत्तं.
अकुसलविपाककथावण्णना निट्ठिता.