किरियाब्याकतं
मनोधातुचित्तवण्णना
५६६. वातपुप्फन्ति मोघपुप्फं. तं अच्छिन्नेपि रुक्खे न फलति, छिन्नरुक्खपुप्फं पन अच्छिन्ने फलेय्य. एवं अच्छिन्नभवमूलस्सपि पवत्तमानं यं न फलति, तं वातपुप्फसदिसं. इतरस्सेव पन पवत्तमानं छिन्नरुक्खपुप्फसदिसं. तञ्हि अच्छिन्ने भवमूले फलेय्याति.
किरियमनोविञ्ञाणधातुचित्तवण्णना
५६८. लोलुप्पतण्हा पहीनाति इमस्स चित्तस्स पच्चयभूता पुरिमा पवत्ति दस्सिता. इदं पन चित्तं विचारणपञ्ञारहितन्ति केवलं सोमनस्समत्तं उप्पादेन्तस्स होतीति. एवं चेतियपूजादीसुपि दट्ठब्बं. वत्तं करोन्तोति इदं वत्तं करोन्तस्स फोट्ठब्बारम्मणे कायद्वारचित्तप्पवत्तिं सन्धाय वुत्तं. पञ्चद्वारानुगतं हुत्वा लब्भमानं सन्धाय पञ्चद्वारे एव वा लोलुप्पतण्हापहानादिपच्चवेक्खणहेतुभूतं इदमेव पवत्तिं सन्धाय तत्थ तत्थ ‘‘इमिना चित्तेन सोमनस्सितो होती’’ति वुत्तन्ति ‘‘एवं ताव पञ्चद्वारे लब्भती’’ति आह. अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘‘इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणानुपरिवत्ती’’तिआदिवचनतो (महानि. १५६ अत्थतो समानं) ‘‘भगवतो इदं उप्पज्जती’’ति वुत्तवचनं विचारेतब्बं. अहेतुकस्स मूलाभावेन सुप्पतिट्ठितता नत्थीति बलभावो अपरिपुण्णो, तस्मा उद्देसवारे ‘‘समाधिबलं होति, वीरियबलं होती’’ति न वुत्तं. ततो एव हि अहेतुकानं सङ्गहवारे झानङ्गानि च न उद्धटानि. तेनेव इमस्मिम्पि अहेतुकद्वये बलानि अनुद्देसासङ्गहितानि. यस्मा पन वीरियस्स विज्जमानत्ता सेसाहेतुकेहि बलवं, यस्मा च एत्थ वितक्कादीनं झानपच्चयमत्तता विय समाधिवीरियानं बलमत्तता अत्थि, तस्मा निद्देसवारे ‘‘समाधिबलं वीरियबल’’न्ति वत्वा ठपितं. यस्मा पन नेव कुसलं नाकुसलं, तस्मा सम्मासमाधि मिच्छासमाधीति, सम्मावायामो मिच्छावायामोति च न वुत्तन्ति अधिप्पायो. एवं सति महाकिरियचित्तेसु च एतं न वत्तब्बं सिया, वुत्तञ्च, तस्मा सम्मा, मिच्छा वा निय्यानिकसभावाभावतो मग्गपच्चयभावं अप्पत्ता समाधिवायामा इध तथा न वुत्ताति दट्ठब्बा.
५७४. इन्द्रियपरोपरियत्तआसयानुसयसब्बञ्ञुतानावरणञाणानि इमस्सानन्तरं उप्पज्जमानानि यमकपाटिहारियमहाकरुणासमापत्तिञाणानि च इमस्स अनन्तरं उप्पन्नपरिकम्मानन्तरानि इमिना आवज्जितारम्मणेयेव पवत्तन्तीति आह ‘‘छ…पे… गण्हन्ती’’ति. महाविसयत्ता महागजो विय महन्तन्ति महागजं.
रूपावचरारूपावचरकिरियचित्तवण्णना
५७७. इदानि यानि किरियानि जातानि, तानि वेदितब्बानीति एवं योजना कातब्बा. अत्तभावोति पञ्चक्खन्धा वुच्चन्ति.
चित्तुप्पादकण्डवण्णना निट्ठिता.