लोकुत्तरकुसलं
पकिण्णककथावण्णना
तत्राति लोकुत्तरज्झाने. अज्झत्तञ्चाति उपड्ढगाथाय अभिनिविसितब्बं वुट्ठातब्बं विपस्सनाभूमिं पञ्चधा उद्दिसति. सत्तअट्ठादीनि अङ्गानि सत्तट्ठङ्गानीति आदिसद्दस्स लोपो दट्ठब्बो. निमित्तन्ति यतो वुट्ठानं, तानि निमित्तपवत्तानि निमित्तवचनेनेव उद्दिसति. सङ्खारुपेक्खाञाणमेव अरियमग्गस्स बोज्झङ्गादिविसेसं नियमेति. कस्मा? ततो ततो दुतियादिपादकज्झानतो उप्पन्नस्स ससङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभावतो इतरस्स च अतब्भावतो. तेसम्पि वादेसु…पे… विपस्सनाव नियमेतीति वेदितब्बा. कस्मा? विपस्सनानियमेनेव हि पठमत्थेरवादेपि अपादकपठमज्झानपादकमग्गा पठमज्झानिकाव होन्ति, इतरे च पादकज्झानविपस्सनानियमेहि तंतंझानिका. एवं सेसवादेसुपि विपस्सनानियमो यथासम्भवं योजेतब्बो.
पकिण्णकसङ्खारेति पादकज्झानतो अञ्ञसङ्खारे. तेन पादकज्झानसङ्खारेसु सम्मसितेसु वत्तब्बमेव नत्थीति दस्सेति. तत्रापीति दुतियत्थेरवादेपि. तंतंझानिकता तंतंसम्मसितसङ्खारविपस्सनानियमेहि होति. तत्रापि हि विपस्सना तंतंविरागाविरागभावनाभावेन सोमनस्ससहगता उपेक्खासहगता च हुत्वा झानङ्गादिनियमं मग्गस्स करोतीति एवं विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.
तन्ति तंतंझानसदिसभवनं. स्वायमत्थो पादकज्झानसम्मसितज्झानुपनिस्सयेहि विना अज्झासयमत्तेन असिज्झना उपनिस्सयेन विना सङ्कप्पमत्तेन सकदागामिफलादीनं असिज्झनदीपकेन नन्दकोवादेन (म. नि. ३.३९८ आदयो) दीपेतब्बो. तत्थ हि सोतापन्नायपि परिपुण्णसङ्कप्पभावं वदन्तेन भगवता यस्स यस्स उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्साति तेन तेन परिपुण्णसङ्कप्पता होति, न ततो परं सङ्कप्पसब्भावेपि असिज्झनतोति अयमत्थो दीपितो होति. एवमिधापि यस्स यस्स दुतियादिझानिकस्स मग्गस्स यथावुत्तो उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्स सतिपि तस्मिं असिज्झनतो. इमस्मिं पन वादे पादकसम्मसितज्झानुपनिस्सयसब्भावे अज्झासयो एकन्तेन होति, तंतंफलूपनिस्सयसब्भावे तंतंसङ्कप्पो वियाति तदभावाभावतो अज्झासयो नियमेतीति वुत्तं.
यस्मिं पन पादकज्झानं नत्थीति चतुत्थज्झानिकवज्जानं पादकानि लोकियज्झानानि सन्धाय वुत्तं. अप्पनाप्पत्ति च ओळारिकङ्गातिक्कमनुपनिस्सयाभावे पञ्चहि अङ्गेहि विना न होतीति ‘‘सोमनस्ससहगतमग्गो होती’’ति आह. उपेक्खासहगतमग्गोति एतेन चतुत्थज्झानिकतापि समाना अनुसयसमुग्घाटनसमत्थस्स न सङ्खारावसेसताति दस्सेति. ते च वादा न विरुज्झन्ति अज्झासयवसेन पञ्चमज्झानिकताय पठमादिज्झानिकताय च सम्भवतोति अधिप्पायो. अज्झासयो च सात्थको होति, अञ्ञथा पादकसम्मसितज्झानेहेव नियमस्स सिद्धत्ता अज्झासयो नियामको वुच्चमानो निरत्थको सियाति. इध पन अट्ठसालिनिया नियामने एकन्तिकं विपस्सनासङ्खातं अत्थमेव उद्धरित्वा ‘‘तेसम्पि वादेसु अयं…पे… विपस्सनाव नियमेती’’ति वदन्तेन तयोपेते वादे विपस्सनाव नियमेतीति दस्सितं. तंतंवादानञ्हि विपस्सनासहितानमेव सिद्धि, नाञ्ञथाति दस्सितन्ति.
पवेधतीति गोत्रभुस्स पच्चयो भवितुं न सक्कोतीति अत्थो. यदि पञ्चमचित्तक्खणे जवनं पतितं नाम होति, कथं तदा गोत्रभु तदनन्तरञ्च मग्गो जवनस्स पतितक्खणे उप्पज्जतीति? अपुब्बस्स जवनन्तरस्स पतितताभावतो. तदेव हि जवनं अनेकक्खत्तुं पवत्तमानं पतितं सियाति, गोत्रभु पन आरम्मणन्तरे उप्पन्नं अपुब्बं जवनं, तथा मग्गो भूमन्तरतो चाति. ननु च सत्तमजवनचेतनाय बलवताय उपपज्जवेदनीयभावो होति आनन्तरियतापीति, तत्थायं अधिप्पायो सिया ‘‘पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन अन्तिमजवनचेतनाय सुसङ्खतत्ता सा सत्तमजवनचेतना उपपज्जवेदनीया आनन्तरिका च होति, न अपतितजवनचेतना विय बलवताया’’ति.
पुन अनुलोमं तं अनुबन्धेय्याति गोत्रभुस्स हि सङ्खारारम्मणत्ते सति तदपि अनुलोममेवाति पुरिमअनुलोमं विय तं तदपि अञ्ञं अनुलोमं अनुबन्धेय्य, न मग्गोति मग्गवुट्ठानमेव च न भवेय्य अत्तनो सदिसालम्बनस्स आवज्जनट्ठानियस्स पच्चयस्स अलाभा. अप्पहीनभावेन पञ्चसु उपादानक्खन्धेसु अनुसयिता किलेसा सा भूमि एतेहि लद्धाति कत्वा भूमिलद्धा. वट्टं सिनोन्ति बन्धन्तीति कत्वा वट्टसेतू च, तेसं समुग्घातकरणन्तिपि एतदेवस्स लोभक्खन्धादिपदालनं वुच्चति. तन्ति पवत्तं. एकं भवन्ति अनागामिनो अनेकक्खत्तुञ्च तत्थेव उपपज्जन्तस्स हेट्ठा अनागमनवसेन एको भवोति गहेत्वा वुत्तं.
इमस्स पनत्थस्साति यथावुत्तस्स उपादिन्नकपवत्ततो वुट्ठानस्स. अपायेसु सत्तमभवतो उद्धं सुगतियञ्च विपाकदायकस्स अभिसङ्खारविञ्ञाणस्स पच्चयघातो सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधो दट्ठब्बो. द्वीसु भवेसूति अनागामिमग्गे अभाविते सकदागामिस्स कामधातुयं ये द्वे भवा उप्पज्जेय्युं, तेसूति अत्थो. चलतीति एतेन चलनसभावमेव दस्सेति, न अचलनाभावं, तस्मा अचलनं दस्सेत्वा पुन चलनं दस्सेतुं ‘‘तथागतस्स ही’’तिआदिमाह. येपि वा कत्थचि चत्तारोपि मग्गे समानपटिपदे दिस्वा सभावतो अचलनमेव गण्हेय्युं, तेसं तंगहणनिवारणत्थं ‘‘चलती’’ति वुत्तं, न चलनावधारणत्थन्ति युत्तं उभयदस्सनं. अथ वा यदिपि केसञ्चि चत्तारोपि मग्गा समानपटिपदा, तथापि किलेसिन्द्रियेहि सिज्झमाना पटिपदा तेसं वसेन चलनपकतिका एवाति ‘‘चलति’’च्चेव वुत्तं, न ‘‘न चलती’’ति.
लोकुत्तरकुसलपकिण्णककथावण्णना निट्ठिता.
पठममग्गवीसतिमहानयवण्णना
३५७. यस्स पुब्बभागे ‘‘मग्गं भावेमी’’ति अज्झासयो पवत्तो, सो मग्गं भावेति. एवं सब्बत्थ अज्झासयविसेसेन तंतंभावनाविसेसो दट्ठब्बो.
३५८. छन्दाधिपतेय्यन्तिआदीसु एकचित्तक्खणे वत्तमानेसु धम्मेसु कथं छन्दस्स तंसहजातस्स अधिपतिभावो वीरियादीनञ्चाति? उपनिस्सयवसेन. यस्स हि सचे छन्दवतो कुसलं निप्फज्जति, ‘‘अहं निप्फादेस्सामी’’ति पवत्तमानस्स कुसलं निप्फन्नं, तस्स तंसहजातो छन्दो तेन पुरिमुपनिस्सयेन विसिट्ठो सहजातधम्मे अत्तनो वसे वत्तेति. तस्मिञ्च पवत्तमाने ते पवत्तन्ति, निवत्तमाने निवत्तन्ति, तदनुरूपबला च होन्ति राजपुरिसा वियाति. एवं वीरियादीसु. सेसधम्मानं पन कत्थचि वुत्तप्पकारप्पवत्तिसब्भावेपि अतंसभावत्ता अधिपतिभावो नत्थीति दट्ठब्बो.
दुतियमग्गवण्णना
३६१. आ-कारस्स रस्सत्तं कत्वा अञ्ञिन्द्रियं वुत्तं, आ-कारो च धम्ममरियादत्थो.
ततियचतुत्थमग्गवण्णना
३६२. मग्गङ्गानि न पूरेन्ति अकिच्चकत्ता सम्मादिट्ठियाति अधिप्पायो. मारेन्तो गच्छतीति हि मग्गो, न चेताय मारेतब्बं अत्थीति. मानस्स दिट्ठिसदिसा पवत्ति अहमस्मीति पवत्तमानस्स दिट्ठिट्ठाने ठानं. आलोकस्सेव पवत्तिकालो वियाति चिरप्पवत्तिं सन्धायाह. एकदेससामञ्ञेन हि यथाधिप्पेतेन उपमा होतीति. खारे वाति कट्ठादीनं खारच्छारिकायं. सम्मद्दित्वाति किलेदेत्वा. छन्दोति तण्हा. अनुसयोति तण्हा मानानुसयो च. एतस्मिञ्च सुत्ते असमूहतस्स गन्धस्स समुग्घाटनं विय असमूहतमानादिसमुग्घातं दस्सेन्तेन अञ्ञमञ्ञे किलेसे पजहतीति दस्सितन्ति आनीतं, न यथावुत्तनयेन उपमाय वुत्तत्ताति दट्ठब्बं. निरन्तरं पवत्तमाने चित्ते तस्स संकिलेसवोदानकरा सावज्जानवज्जा चेतसिका उप्पज्जमाना तस्सङ्गभूता अवयवा विय होन्तीति ‘‘चित्तङ्गवसेना’’ति वुत्तं.
लोकुत्तरकुसलवण्णना निट्ठिता.
कुसलकथावण्णना निट्ठिता.