७. सुनिक्खित्तवग्गो
१. चित्तलताविमानवत्थु
१११४. ‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
१११५. ‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
१११६. सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
१११७. ‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;
जिण्णे च मातापितरो अभारिं [अभरिं (सी. स्या.)], पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासि.
१११८. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
चित्तलताविमानं पठमं.
२. नन्दनविमानवत्थु
११२०. ‘‘यथा वनं नन्दनं [नन्दनं चित्तलतं (सी. स्या. क.), नन्दवनं (क.)] पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
११२१. ‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
११२२. सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
११२३. ‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;
जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
११२४. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
नन्दनविमानं दुतियं.
३. मणिथूणविमानवत्थु
११२६. ‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
११२७. ‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
११२८. ‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
११३०. सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.
११३१. ‘‘अहं मनुस्सेसु मनुस्सभूतो, विवने पथे सङ्कमनं [चङ्कमनं (सी.), चङ्कमं (स्या.), समकं (क. सी.)] अकासिं;
आरामरुक्खानि च रोपयिस्सं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
११३२. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
मणिथूणविमानं ततियं.
४. सुवण्णविमानवत्थु
११३४. ‘‘सोवण्णमये पब्बतस्मिं, विमानं सब्बतोपभं;
हेमजालपटिच्छन्नं [हेमजालकपच्छन्नं (सी.)], किङ्किणि [किङ्कणिक (स्या. क.), किङ्किणिक (पी.)] जालकप्पितं.
११३५. ‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;
एकमेकाय अंसिया, रतना सत्त निम्मिता.
११३६. ‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.
११३७. ‘‘चित्रा मनोरमा भूमि, न तत्थुद्धंसती रजो;
गोपाणसीगणा पीता, कूटं धारेन्ति निम्मिता.
११३८. ‘‘सोपाणानि च चत्तारि, निम्मिता चतुरो दिसा;
नानारतनगब्भेहि, आदिच्चोव विरोचति.
११३९. ‘‘वेदिया चतस्सो तत्थ, विभत्ता भागसो मिता;
दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.
११४०. ‘‘तस्मिं विमाने पवरे, देवपुत्तो महप्पभो;
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.
११४१. ‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.
११४२. सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
११४३. ‘‘अहं अन्धकविन्दस्मिं, बुद्धस्सादिच्चबन्धुनो;
विहारं सत्थु कारेसिं, पसन्नो सेहि पाणिभि.
११४४. ‘‘तत्थ गन्धञ्च मालञ्च, पच्चयञ्च [पच्चग्गञ्च (सी.), पच्चग्घञ्च (?)] विलेपनं;
विहारं सत्थु अदासिं, विप्पसन्नेन चेतसा;
तेन मय्हं इदं लद्धं, वसं वत्तेमि नन्दने.
११४५. ‘‘नन्दने च वने [नन्दने पवने (सी. स्या.)] रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
सुवण्णविमानं चतुत्थं.
५. अम्बविमानवत्थु
११४६. ‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
११४७. ‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
११४८. ‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
११५०. सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
११५१. ‘‘गिम्हानं पच्छिमे मासे, पतपन्ते [पतापन्ते (स्या.), पतापेन्ते (क.)] दिवङ्करे;
परेसं भतको पोसो, अम्बाराममसिञ्चति.
११५२. ‘‘अथ तेनागमा भिक्खु, सारिपुत्तोति विस्सुतो;
किलन्तरूपो कायेन, अकिलन्तोव चेतसा.
११५३. ‘‘तञ्च दिस्वान आयन्तं, अवोचं अम्बसिञ्चको;
साधु तं [साधुकं (क.)] भन्ते न्हापेय्यं, यं ममस्स सुखावहं.
११५४. ‘‘तस्स मे अनुकम्पाय, निक्खिपि पत्तचीवरं;
निसीदि रुक्खमूलस्मिं, छायाय एकचीवरो.
११५५. ‘‘तञ्च अच्छेन वारिना, पसन्नमानसो नरो;
न्हापयी रुक्खमूलस्मिं, छायाय एकचीवरं.
११५६. ‘‘अम्बो च सित्तो समणो च न्हापितो, मया च पुञ्ञं पसुतं अनप्पकं;
इति सो पीतिया कायं, सब्बं फरति अत्तनो.
११५७. ‘‘तदेव एत्तकं कम्मं, अकासिं ताय जातिया;
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.
११५८. ‘‘नन्दने च वने रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
अम्बविमानं पञ्चमं.
६. गोपालविमानवत्थु
११५९. ‘‘दिस्वान देवं पटिपुच्छि भिक्खु, उच्चे विमानम्हि चिरट्ठितिके;
आमुत्तहत्थाभरणं यसस्सिं [आमुत्तहत्थाभरणो यसस्सी (स्या. पी. क.)], दिब्बे विमानम्हि यथापि चन्दिमा.
११६०. ‘‘अलङ्कतो मल्यधरो [मालभारी (सी.), मालधरी (क.)] सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.
११६१. ‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
११६२. ‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
११६३. सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
११६४. ‘‘अहं मनुस्सेसु मनुस्सभूतो, सङ्गम्म रक्खिस्सं परेसं धेनुयो;
ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं.
११६५. ‘‘द्वयज्ज किच्चं उभयञ्च कारियं, इच्चेवहं [इच्चेवं (क.)] भन्ते तदा विचिन्तयिं;
ततो च सञ्ञं पटिलद्धयोनिसो, ददामि भन्तेति खिपिं अनन्तकं.
११६६. ‘‘सो मासखेत्तं तुरितो अवासरिं, पुरा अयं भञ्जति यस्सिदं धनं;
ततो च कण्हो उरगो महाविसो, अडंसि पादे तुरितस्स मे सतो.
११६७. ‘‘स्वाहं अट्टोम्हि दुक्खेन पीळितो, भिक्खु च तं सामं मुञ्चित्वानन्तकं [मुञ्चित्व नन्तकं (सी.), मुञ्चित्वा अनन्तकं (स्या.)];
अहासि कुम्मासं ममानुकम्पया [ममानुकम्पिया (पी. क.), ममानुकम्पाय (स्या.)], ततो चुतो कालकतोम्हि देवता.
११६८. ‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिपादयामि तं.
११६९. ‘‘सदेवके लोके समारके च, अञ्ञो मुनि नत्थि तयानुकम्पको;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं.
११७०. ‘‘इमस्मिं लोके परस्मिं वा पन, अञ्ञो मुनी नत्थि तयानुकम्पको;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि त’’न्ति.
गोपालविमानं छट्ठं.
७. कण्डकविमानवत्थु
११७१. ‘‘पुण्णमासे यथा चन्दो, नक्खत्तपरिवारितो;
समन्ता अनुपरियाति, तारकाधिपती ससी.
११७२. ‘‘तथूपमं इदं ब्यम्हं, दिब्बं देवपुरम्हि च;
अतिरोचति वण्णेन, उदयन्तोव रंसिमा.
११७३. ‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.
११७४. ‘‘चित्रा मनोरमा भूमि, वेळूरियस्स सन्थता;
कूटागारा सुभा रम्मा, पासादो ते सुमापितो.
११७५. ‘‘रम्मा च ते पोक्खरणी, पुथुलोमनिसेविता;
अच्छोदका विप्पसन्ना, सोवण्णवालुकसन्थता.
११७६. ‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोत्थता (क.), समोगता (स्या.)];
सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता.
११७७. ‘‘तस्सा ते उभतो पस्से, वनगुम्बा सुमापिता;
उपेता पुप्फरुक्खेहि, फलरुक्खेहि चूभयं.
११७८. ‘‘सोवण्णपादे पल्लङ्के, मुदुके गोणकत्थते [चोलसन्थते (सी.)];
निसिन्नं देवराजंव, उपतिट्ठन्ति अच्छरा.
११७९. ‘‘सब्बाभरणसञ्छन्ना, नानामालाविभूसिता;
रमेन्ति तं महिद्धिकं, वसवत्तीव मोदसि.
११८०. ‘‘भेरिसङ्खमुदिङ्गाहि, वीणाहि पणवेहि च;
रमसि रतिसम्पन्नो, नच्चगीते सुवादिते.
११८१. ‘‘दिब्बा ते विविधा रूपा, दिब्बा सद्दा अथो रसा;
गन्धा च ते अधिप्पेता, फोट्ठब्बा च मनोरमा.
११८२. ‘‘तस्मिं विमाने पवरे, देवपुत्त महप्पभो;
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.
११८३. ‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.
११८४. सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
११८५. ‘‘अहं कपिलवत्थुस्मिं, साकियानं पुरुत्तमे;
सुद्धोदनस्स पुत्तस्स, कण्डको सहजो अहं.
११८६. ‘‘यदा सो अड्ढरत्तायं, बोधाय मभिनिक्खमि;
सो मं मुदूहि पाणीहि, जालि [जाल (सी.)] तम्बनखेहि च.
११८७. ‘‘सत्थिं आकोटयित्वान, वह सम्माति चब्रवि;
अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तमं.
११८८. ‘‘तं मे गिरं सुणन्तस्स, हासो मे विपुलो अहु;
उदग्गचित्तो सुमनो, अभिसीसिं [अभिसिंसिं (सी.), अभिसीसि (पी.)] तदा अहं.
११८९. ‘‘अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसं;
उदग्गचित्तो मुदितो, वहिस्सं पुरिसुत्तमं.
११९०. ‘‘परेसं विजितं गन्त्वा, उग्गतस्मिं दिवाकरे [दिवङ्करे (स्या. क.)];
ममं छन्नञ्च ओहाय, अनपेक्खो सो अपक्कमि.