८. मल्लिकाविमानवत्थु

६५८. ‘‘पीतवत्थे पीतधजे, पीतालङ्कारभूसिते;

पीतन्तराहि वग्गूहि, अपिळन्धाव सोभसि.

६५९. ‘‘का कम्बुकायूरधरे [ककम्बुकायुरधरे (स्या.)], कञ्चनावेळभूसिते;

हेमजालकसञ्छन्ने [पच्छन्ने (सी.)], नानारतनमालिनी.

६६०. ‘‘सोवण्णमया लोहितङ्गमया [लोहितङ्कमया (सी. स्या.)] च, मुत्तामया वेळुरियमया च;

मसारगल्ला सहलोहितङ्गा [सहलोहितङ्का (सी.), सहलोहितका (स्या.)], पारेवतक्खीहि मणीहि चित्तता.

६६१. ‘‘कोचि कोचि एत्थ मयूरसुस्सरो, हंसस्स रञ्ञो करवीकसुस्सरो;

तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तूरियमिवप्पवादितं.

६६२. ‘‘रथो च ते सुभो वग्गु [वग्गू (स्या.)], नानारतनचित्तितो [नानारतनचित्तङ्गो (स्या.)];

नानावण्णाहि धातूहि, सुविभत्तोव सोभति.

६६३. ‘‘तस्मिं रथे कञ्चनबिम्बवण्णे, या त्वं [यत्थ (क. सी. स्या. क.)] ठिता भाससि मं पदेसं;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६६४. ‘‘सोवण्णजालं मणिसोण्णचित्तितं [विचित्तं (क.), चित्तं (सी. स्या.)], मुत्ताचितं हेमजालेन छन्नं [सञ्छन्नं (क.)];

परिनिब्बुते गोतमे अप्पमेय्ये, पसन्नचित्ता अहमाभिरोपयिं.

६६५. ‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं;

अपेतसोका सुखिता, सम्पमोदामनामया’’ति.

मल्लिकाविमानं अट्ठमं.