५. विसाखपञ्चालपुत्तत्थेरगाथा

२०९. ‘‘न उक्खिपे नो च परिक्खिपे परे, ओक्खिपे पारगतं न एरये;

न चत्तवण्णं परिसासु ब्याहरे, अनुद्धतो सम्मितभाणि सुब्बतो.

२१०. ‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;

संसेवितवुद्धसीलिना, निब्बानं न हि तेन दुल्लभ’’न्ति.

… विसाखो पञ्चालपुत्तो थेरो ….