१४. तुवटकसुत्तं
९२१. ‘‘पुच्छामि तं आदिच्चबन्धु [आदिच्चबन्धुं (सी. स्या.)], विवेकं सन्तिपदञ्च महेसि;
कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्चि’’.
९२२. ‘‘मूलं पपञ्चसङ्खाय, (इति भगवा)
मन्ता अस्मीति सब्बमुपरुन्धे [सब्बमुपरुद्धे (स्या. पी. क.)];
या काचि तण्हा अज्झत्तं,
तासं विनया [विनयाय (?)] सदा सतो सिक्खे.
९२३. ‘‘यं किञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथवापि बहिद्धा;
न तेन थामं [मानं (सी. क.)] कुब्बेथ, न हि सा निब्बुति सतं वुत्ता.
९२४. ‘‘सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथवापि सरिक्खो;
फुट्ठो [पुट्ठो (सी. स्या. क.)] अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे.
९२५. ‘‘अज्झत्तमेवुपसमे, न अञ्ञतो भिक्खु सन्तिमेसेय्य;
अज्झत्तं उपसन्तस्स, नत्थि अत्ता कुतो निरत्ता वा.
९२६. ‘‘मज्झे यथा समुद्दस्स, ऊमि नो जायती ठितो होति;
एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य कुहिञ्चि’’.
९२७. ‘‘अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयं;
पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथवापि समाधिं’’.
९२८. ‘‘चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं;
रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मिं.
९२९. ‘‘फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्चि;
भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य.
९३०. ‘‘अन्नानमथो पानानं, खादनीयानं अथोपि वत्थानं;
लद्धा न सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो.
९३१. ‘‘झायी न पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य;
अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य.
९३२. ‘‘निद्दं न बहुलीकरेय्य, जागरियं भजेय्य आतापी;
तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं.
९३३. ‘‘आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं;
विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्य.
९३४. ‘‘निन्दाय नप्पवेधेय्य, न उण्णमेय्य पसंसितो भिक्खु;
लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य.
९३५. ‘‘कयविक्कये न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि;
गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्य.
९३६. ‘‘न च कत्थिता सिया भिक्खु, न च वाचं पयुत्तं भासेय्य;
पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्य.
९३७. ‘‘मोसवज्जे न नीयेथ, सम्पजानो सठानि न कयिरा;
अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे.
९३८. ‘‘सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं [पुथुवचनानं (सी. स्या. पी.)];
फरुसेन ने न पटिवज्जा, न हि सन्तो पटिसेनिकरोन्ति.
९३९. ‘‘एतञ्च धम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे;
सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स न पमज्जेय्य.
९४०. ‘‘अभिभू हि सो अनभिभूतो, सक्खिधम्ममनीतिहमदस्सी;
तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे’’ति.
तुवटकसुत्तं चुद्दसमं निट्ठितं.