१०. मक्कटङ्गपञ्हो
१०. ‘‘भन्ते नागसेन, ‘मक्कटस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, मक्कटो वासमुपगच्छन्तो तथारूपे ओकासे महतिमहारुक्खे पविवित्ते सब्बट्ठकसाखे [सब्बत्थकसाखे (स्या.), सब्बट्ठसाखे (क.)] भीरुत्ताणे वासमुपगच्छति, एवमेव खो, महाराज, योगिना योगावचरेन लज्जिं पेसलं सीलवन्तं कल्याणधम्मं बहुस्सुतं धम्मधरं विनयधरं पियं गरुभावनीयं वत्तारं वचनक्खमं ओवादकं विञ्ञापकं सन्दस्सकं समादपकं समुत्तेजकं सम्पहंसकं एवरूपं कल्याणमित्तं आचरियं निस्साय विहरितब्बं. इदं, महाराज, मक्कटस्स पठमं अङ्गं गहेतब्बं.
‘‘पुन चपरं, महाराज, मक्कटो रुक्खे येव चरति तिट्ठति निसीदति, यदि निद्दं ओक्कमति, तत्थेव रत्तिं वासमनुभवति. एवमेव खो, महाराज, योगिना योगावचरेन पवनाभिमुखेन भवितब्बं, पवने येव ठानचङ्कमनिसज्जासयनं निद्दं ओक्कमितब्बं, तत्थेव सतिपट्ठानमनुभवितब्बं. इदं, महाराज, मक्कटस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –
‘‘‘चङ्कमन्तोपि तिट्ठन्तो, निसज्जासयनेन वा;
पवने सोभते भिक्खु, पवनन्तंव वण्णित’’’न्ति.
मक्कटङ्गपञ्हो दसमो.
गद्रभवग्गो पठमो.
तस्सुद्दानं –
गद्रभो चेव [घोरस्सरो च (सी. स्या. पी.)] कुक्कुटो, कलन्दो दीपिनि दीपिको;
कुम्मो वंसो च चापो च, वायसो अथ मक्कटोति.