४२०. सुमङ्गलजातकं (४)

२७. भुसम्हि [भुसम्पि (क.), भुसं हि (सी. निय्य)] कुद्धोति अवेक्खियान, न ताव दण्डं पणयेय्य इस्सरो;

अट्ठानसो अप्पतिरूपमत्तनो, परस्स दुक्खानि भुसं उदीरये.

२८. यतो च जानेय्य पसादमत्तनो, अत्थं नियुञ्जेय्य परस्स दुक्कटं;

तदायमत्थोति सयं अवेक्खिय, अथस्स दण्डं सदिसं निवेसये.

२९. न चापि झापेति परं न अत्तनं, अमुच्छितो यो नयते नयानयं;

यो दण्डधारो भवतीध इस्सरो, स वण्णगुत्तो सिरिया न धंसति.

३०. ये खत्तिया से अनिसम्मकारिनो, पणेन्ति दण्डं सहसा पमुच्छिता;

अवण्णसंयुता [युत्ताव (क.)] जहन्ति जीवितं, इतो विमुत्तापि च यन्ति दुग्गतिं.

३१. धम्मे च ये अरियप्पवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मुना च;

ते सन्तिसोरच्चसमाधिसण्ठिता, वजन्ति लोकं दुभयं तथाविधा.

३२. राजाहमस्मि नरपमदानमिस्सरो, सचेपि कुज्झामि ठपेमि अत्तनं;

निसेधयन्तो जनतं तथाविधं, पणेमि दण्डं अनुकम्प योनिसो.

३३. सिरी च लक्खी च तवेव खत्तिय, जनाधिप मा विजहि कुदाचनं;

अक्कोधनो निच्चपसन्नचित्तो, अनीघो तुवं वस्ससतानि पालय.

३४. गुणेहि एतेहि उपेत खत्तिय, ठितमरियवत्ती [वत्ति (सी.), वुत्ति (क.)] सुवचो अकोधनो;

सुखी अनुप्पीळ पसासमेदिनिं [अनुप्पीळं सहसमेदनिं (क.)], इतो विमुत्तोपि च याहि सुग्गतिं.

३५. एवं सुनीतेन [सुविनीतेन (पी.)] सुभासितेन, धम्मेन ञायेन उपायसो नयं;

निब्बापये सङ्खुभितं महाजनं, महाव मेघो सलिलेन मेदिनिन्ति [मेदनिन्ति (स्या. क.)].

सुमङ्गलजातकं चतुत्थं.