३०४. दद्दरजातकं (४-१-४)

१३. इमानि मं दद्दर तापयन्ति, वाचादुरुत्तानि मनुस्सलोके;

मण्डूकभक्खा उदकन्तसेवी, आसीविसं मं अविसा सपन्ति.

१४. सका रट्ठा पब्बाजितो, अञ्ञं जनपदं गतो;

महन्तं कोट्ठं कयिराथ, दुरुत्तानं [दुरुत्तानि (क.)] निधेतवे.

१५. यत्थ पोसं न जानन्ति, जातिया विनयेन वा;

न तत्थ मानं कयिराथ, वसमञ्ञातके जने.

१६. विदेसवासं वसतो, जातवेदसमेनपि [जातवेदभयेनपि (क.)];

खमितब्बं सपञ्ञेन, अपि दासस्स तज्जितन्ति.

दद्दरजातकं चतुत्थं.