१७८. कच्छपजातकं (२-३-८)
५५. जनित्तं मे भवित्तं मे, इति पङ्के अवस्सयिं;
तं मं पङ्को अज्झभवि, यथा दुब्बलकं तथा;
तं तं वदामि भग्गव, सुणोहि वचनं मम.
५६. गामे वा यदि वा रञ्ञे, सुखं यत्राधिगच्छति;
तं जनित्तं भवित्तञ्च, पुरिसस्स पजानतो;
यम्हि जीवे तम्हि गच्छे, न निकेतहतो सियाति.
कच्छपजातकं अट्ठमं.