२४७. पादञ्जलीजातकं (२-१०-७)

१९४. अद्धा पादञ्जली सब्बे, पञ्ञाय अतिरोचति;

तथा हि ओट्ठं भञ्जति, उत्तरिं नून पस्सति.

१९५. नायं धम्मं अधम्मं वा, अत्थानत्थञ्च बुज्झति;

अञ्ञत्र ओट्ठनिब्भोगा, नायं जानाति किञ्चनन्ति.

पादञ्जलीजातकं सत्तमं.