९. सासङ्कसिक्खापदवण्णना
६५२. तेन समयेनाति सासङ्कसिक्खापदं. तत्थ वुत्थवस्सा आरञ्ञकेसूति ते पुब्बेपि अरञ्ञेयेव विहरिंसु. दुब्बलचीवरत्ता पन पच्चयवसेन गामन्तसेनासने वस्सं वसित्वा निट्ठितचीवरा हुत्वा ‘‘इदानि निप्पलिबोधा समणधम्मं करिस्सामा’’ति आरञ्ञकेसु सेनासनेसु विहरन्ति. कत्तिकचोरकाति कत्तिकमासे चोरा. परिपातेन्तीति उपद्दवन्ति, तत्थ तत्थ आधावित्वा उत्तासेन्ति पलापेन्ति. अन्तरघरे निक्खिपितुन्ति अन्तोगामे निक्खिपितुं. भगवा यस्मा पच्चया नाम धम्मेन समेन दुल्लभा, सल्लेखवा हि भिक्खु मातरम्पि विञ्ञापेतुं न सक्कोति. तस्मा चीवरगुत्तत्थं अन्तरघरे निक्खिपितुं अनुजानाति. भिक्खूनं पन अनुरूपत्ता अरञ्ञवासं न पटिक्खिपि.
६५३. उपवस्सं खो पनाति एत्थ उपवस्सन्ति उपवस्स; उपवसित्वाति वुत्तं होति. उपसम्पज्जन्तिआदीसु विय हि एत्थ अनुनासिको दट्ठब्बो. वस्सं उपगन्त्वा वसित्वा चाति अत्थो. इमस्स च पदस्स ‘‘तथारूपेसु भिक्खु सेनासनेसु विहरन्तो’’ति इमिना सम्बन्धो. किं वुत्तं होति? वस्सं उपगन्त्वा वसित्वा च ततो परं पच्छिमकत्तिकपुण्णमपरियोसानकालं यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि; तथारूपेसु भिक्खु सेनासनेसु विहरन्तो आकङ्खमानो तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपेय्याति. यस्मा पन यो वस्सं उपगन्त्वा याव पठमकत्तिकपुण्णमं वसति, सो वुट्ठवस्सानं अब्भन्तरो होति, तस्मा इदं अतिगहनं ब्यञ्जनविचारणं अकत्वा पदभाजने केवलं चीवरनिक्खेपारहं पुग्गलं दस्सेतुं ‘‘वुट्ठवस्सान’’न्ति वुत्तं. तस्सापि ‘‘भिक्खु सेनासनेसु विहरन्तो’’ति इमिना सम्बन्धो. अयञ्हि एत्थ अत्थो ‘‘वुट्ठवस्सानं भिक्खु सेनासनेसु विहरन्तो’’ति एवरूपानं भिक्खूनं अब्भन्तरे यो कोचि भिक्खूति वुत्तं होति.
अरञ्ञलक्खणं अदिन्नादानवण्णनायं वुत्तं. अयं पन विसेसो – सचे विहारो परिक्खित्तो होति, परिक्खित्तस्स गामस्स इन्दखीलतो अपरिक्खित्तस्स परिक्खेपारहट्ठानतो पट्ठाय याव विहारपरिक्खेपा मिनितब्बं. सचे विहारो अपरिक्खित्तो होति, यं सब्बपठमं सेनासनं वा भत्तसाला वा धुवसन्निपातट्ठानं वा बोधिवा चेतियं वा दूरे चेपि सेनासनतो होति, तं परिच्छेदं कत्वा मिनितब्बं. सचेपि आसन्ने गामो होति, विहारे ठितेहि घरमानुसकानं सद्दो सूयति, पब्बतनदीआदीहि पन अन्तरितत्ता न सक्का उजुं गन्तुं, यो चस्स पकतिमग्गो होति, सचेपि नावाय सञ्चरितब्बो, तेन मग्गेन गामतो पञ्चधनुसतिकं गहेतब्बं. यो आसन्नगामस्स अङ्गसम्पादनत्थं ततो ततो मग्गं पिदहति, अयं ‘‘धुतङ्गचोरो’’ति वेदितब्बो.
सासङ्कसम्मतानीति ‘‘सासङ्कानी’’ति सम्मतानि; एवं सञ्ञातानीति अत्थो. पदभाजने पन येन कारणेन तानि सासङ्कसम्मतानि, तं दस्सेतुं ‘‘आरामे आरामूपचारे’’तिआदि वुत्तं.
सह पटिभयेन सप्पटिभयानि, सन्निहितबलवभयानीति अत्थो. पदभाजने पन येन कारणेन तानि सप्पटिभयानि; तं दस्सेतुं ‘‘आरामे आरामूपचारे’’तिआदि वुत्तं.
समन्ता गोचरगामे निक्खिपेय्याति आरञ्ञकस्स सेनासनस्स समन्ता सब्बदिसाभागेसु अत्तना अभिरुचिते गोचरगामे सतिया अङ्गसम्पत्तिया निक्खिपेय्य.
तत्रायं अङ्गसम्पत्ति – पुरिमिकाय उपगन्त्वा महापवारणाय पवारितो होति, इदमेकं अङ्गं. सचे पच्छिमिकाय वा उपगतो होति छिन्नवस्सो वा, निक्खिपितुं न लभति. कत्तिकमासोयेव होति, इदं दुतियं अङ्गं. कत्तिकमासतो परं न लभति, पञ्चधनुसतिकं पच्छिममेव पमाणयुत्तं सेनासनं होति, इदं ततियं अङ्गं. ऊनप्पमाणे वा गावुततो अतिरेकप्पमाणे वा न लभति, यत्र हि पिण्डाय चरित्वा पुन विहारं भत्तवेलायं सक्का आगन्तुं, तदेव इध अधिप्पेतं. निमन्तितो पन अद्धयोजनम्पि योजनम्पि गन्त्वा वसितुं पच्चेति, इदमप्पमाणं. सासङ्कसप्पटिभयमेव होति, इदं चतुत्थं अङ्गं. अनासङ्कअप्पटिभये हि अङ्गयुत्तेपि सेनासने वसन्तो निक्खिपितुं न लभतीति.
अञ्ञत्र भिक्खुसम्मुतियाति या उदोसितसिक्खापदे कोसम्बकसम्मुति (पारा. ४७५) अनुञ्ञाता तस्सा सम्मुतिया अञ्ञत्र; सचे सा लद्धा होति, छारत्तातिरेकम्पि विप्पवसितुं वट्टति.
पुन गामसीमं ओक्कमित्वाति सचे गोचरगामतो पुरत्थिमाय दिसाय सेनासनं; अयञ्च पच्छिमदिसं गतो होति, सेनासनं आगन्त्वा सत्तमं अरुणं उट्ठापेतुं असक्कोन्तेन गामसीमम्पि ओक्कमित्वा सभायं वा यत्थ कत्थचि वा वसित्वा चीवरप्पवत्तिं ञत्वा पक्कमितुं वट्टतीति अत्थो. एवं असक्कोन्तेन तत्थेव ठितेन पच्चुद्धरितब्बं, अतिरेकचीवरट्ठाने ठस्सतीति. सेसं उत्तानमेव.
कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, अकिरिया, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.
सासङ्कसिक्खापदवण्णना निट्ठिता.