१०. परिणतसिक्खापदवण्णना
६५७. तेन समयेनाति परिणतसिक्खापदं. तत्थ पूगस्साति समूहस्स; धम्मगणस्साति अत्थो. पटियत्तन्ति पटियादितं. बहू सङ्घस्स भत्ताति सङ्घस्स बहूनि भत्तानि अनेकानि लाभमुखानि; न सङ्घस्स केनचि परिहानीति दीपेन्ति. ओणोजेथाति देथ. किं पनेवं वत्तुं वट्टतीति कस्मा न वट्टति? अयञ्हि अभिहटभिक्खा अभिहरित्वा एकस्मिं ओकासे सङ्घस्सत्थाय पटियत्ता अभिहटपटियत्ते च उद्दिस्स ठपितभागे च पयुत्तवाचा नाम नत्थि.
६५८. सङ्घिकन्ति सङ्घस्स सन्तकं. सो हि सङ्घस्स परिणतत्ता हत्थं अनारूळ्होपि एकेन परियायेन सङ्घस्स सन्तको होति, पदभाजने पन ‘‘सङ्घिकं नाम सङ्घस्स दिन्नं होति परिच्चत्त’’न्ति एवं अत्थुद्धारवसेन निप्परियायतोव सङ्घिकं दस्सितं. लाभन्ति पटिलभितब्बवत्थुं आह. तेनेवस्स निद्देसे ‘‘चीवरम्पी’’तिआदि वुत्तं. परिणतन्ति सङ्घस्स निन्नं सङ्घस्स पोणं सङ्घस्स पब्भारं हुत्वा ठितं. येन पन कारणेन सो परिणतो होति, तं दस्सेतुं ‘‘दस्साम करिस्सामाति वाचा भिन्ना होती’’ति पदभाजनं वुत्तं.
६५९. पयोगे दुक्कटन्ति परिणतलाभस्स अत्तनो परिणामनपयोगे दुक्कटं, पटिलाभेन तस्मिं हत्थं आरूळ्हे निस्सग्गियं. सचे पन सङ्घस्स दिन्नं होति, तं गहेतुं न वट्टति, सङ्घस्सेव दातब्बं. योपि आरामिकेहि सद्धिं एकतो खादति, भण्डं अग्घापेत्वा कारेतब्बो. परिणतं पन सहधम्मिकानं वा गिहीनं वा अन्तमसो मातुसन्तकम्पि ‘‘इदं मय्हं देही’’ति सङ्घस्स परिणतभावं ञत्वा अत्तनो परिणामेत्वा गण्हन्तस्स निस्सग्गियं पाचित्तियं. ‘‘इमस्स भिक्खुनो देही’’ति एवं अञ्ञस्स परिणामेन्तस्स सुद्धिकपाचित्तियं. एकं पत्तं वा चीवरं वा अत्तनो, एकं अञ्ञस्स परिणामेति, निस्सग्गियं पाचित्तियञ्चेव सुद्धिकपाचित्तियञ्च. एसेव नयो बहूसु. वुत्तम्पि चेतं –
‘‘निस्सग्गियेन आपत्तिं, सुद्धिकेन पाचित्तियं;
आपज्जेय्य एकतो;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८०);
अयञ्हि परिणामनं सन्धाय वुत्तो. योपि वस्सिकसाटिकसमये मातुघरेपि सङ्घस्स परिणतं वस्सिकसाटिकं ञत्वा अत्तनो परिणामेति, निस्सग्गियं पाचित्तियं. परस्स परिणामेति, सुद्धिकपाचित्तियं. मनुस्सा ‘‘सङ्घभत्तं करिस्सामा’’ति सप्पितेलादीनि आहरन्ति, गिलानो चेपि भिक्खु सङ्घस्स परिणतभावं ञत्वा किञ्चि याचति, निस्सग्गियं पाचित्तियमेव. सचे पन सो ‘‘तुम्हाकं सप्पिआदीनि आभटानि अत्थी’’ति पुच्छित्वा ‘‘आम, अत्थी’’ति वुत्ते ‘‘मय्हम्पि देथा’’ति वदति, वट्टति. अथापि नं कुक्कुच्चायन्तं उपासका वदन्ति – ‘‘सङ्घोपि अम्हेहि दिन्नमेव लभति; गण्हथ, भन्ते’’ति एवम्पि वट्टति.
६६०. सङ्घस्स परिणतं अञ्ञसङ्घस्साति एकस्मिं विहारे सङ्घस्स परिणतं अञ्ञं विहारं उद्दिसित्वा ‘‘असुकस्मिं नाम महाविहारे सङ्घस्स देथा’’ति परिणामेति.
चेतियस्स वाति ‘‘किं सङ्घस्स दिन्नेन, चेतियस्सपूजं करोथा’’ति एवं चेतियस्स वा परिणामेति.
चेतियस्स परिणतन्ति एत्थ नियमेत्वा अञ्ञचेतियस्सत्थाय रोपितमालावच्छतो अञ्ञचेतियम्हि पुप्फम्पि आरोपेतुं न वट्टति. एकस्स चेतियस्स पन छत्तं वा पटाकं वा आरोपेत्वा ठितं दिस्वा सेसं अञ्ञस्स चेतियस्स दापेतुं वट्टति.
पुग्गलस्स परिणतन्ति अन्तमसो सुनखस्सापि परिणतं ‘‘इमस्स सुनखस्स मा देहि, एतस्स देही’’ति एवं अञ्ञपुग्गलस्स परिणामेति, दुक्कटं. सचे पन दायका ‘‘मयं सङ्घस्स भत्तं दातुकामा, चेतियस्स पूजं कातुकामा, एकस्स भिक्खुनो परिक्खारं दातुकामा, तुम्हाकं रुचिया दस्साम; भणथ, कत्थ देमा’’ति वदन्ति. एवं वुत्ते तेन भिक्खुना ‘‘यत्थ इच्छथ, तत्थ देथा’’ति वत्तब्बा. सचे पन केवलं ‘‘कत्थ देमा’’ति पुच्छन्ति, पाळियं आगतनयेनेव वत्तब्बं. सेसमेत्थ उत्तानत्थमेव.
तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मवचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.
समन्तपासादिकाय विनयसंवण्णनाय
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
निस्सग्गियवण्णना निट्ठिता.
पाराजिककण्ड-अट्ठकथा निट्ठिता.