६. सुत्तविञ्ञत्तिसिक्खापदवण्णना
६३६. तेन समयेनाति सुत्तविञ्ञत्तिसिक्खापदं. तत्थ खोमन्ति खोमवाकेहि कतसुत्तं. कप्पासिकन्ति कप्पासतो निब्बत्तं. कोसेय्यन्ति कोसियंसूहि कन्तित्वा कतसुत्तं. कम्बलन्ति एळकलोमसुत्तं. साणन्ति साणवाकसुत्तं. भङ्गन्ति पाटेक्कं वाकसुत्तमेवाति एके. एतेहि पञ्चहि मिस्सेत्वा कतसुत्तं पन ‘‘भङ्ग’’न्ति वेदितब्बं.
वायापेति पयोगे पयोगे दुक्कटन्ति सचे तन्तवायस्स तुरिवेमादीनि नत्थि, तानि ‘‘अरञ्ञतो आहरिस्सामी’’ति वासिं वा फरसुं वा निसेति, ततो पट्ठाय यं यं उपकरणत्थाय वा चीवरवायनत्थाय वा करोति, सब्बत्थ तन्तवायस्स पयोगे पयोगे भिक्खुस्स दुक्कटं. दीघतो विदत्थिमत्ते तिरियञ्च हत्थमत्ते वीते निस्सग्गियं पाचित्तियं. महापच्चरियं पन ‘‘याव परियोसानं वायापेन्तस्स फलके फलके निस्सग्गियं पाचित्तिय’’न्ति वुत्तं. तम्पि इदमेव पमाणं सन्धाय वुत्तन्ति वेदितब्बं. विकप्पनुपगपच्छिमञ्हि चीवरसङ्ख्यं गच्छतीति.
अपिचेत्थ एवं विनिच्छयो वेदितब्बो – सुत्तं ताव सामं विञ्ञापितं अकप्पियं, सेसं ञातकादिवसेन उप्पन्नं कप्पियं. तन्तवायोपि अञ्ञातकअप्पवारितो विञ्ञत्तिया लद्धो अकप्पियो, सेसो कप्पियो. तत्थ अकप्पियसुत्तं अकप्पियतन्तवायेन वायापेन्तस्स पुब्बे वुत्तनयेन निस्सग्गियं. तेनेव पन कप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवं दुक्कटं. तेनेव कप्पियं अकप्पियञ्च सुत्तं वायापेन्तस्स यदि पच्छिमचीवरप्पमाणेन एको परिच्छेदो सुद्धकप्पियसुत्तमयो, एको अकप्पियसुत्तमयोति एवं केदारबद्धं विय चीवरं होति, अकप्पियसुत्तमये परिच्छेदे पाचित्तियं, इतरस्मिं तथेव दुक्कटं. यदि ततो ऊनपरिच्छेदा होन्ति, अन्तमसो अच्छिमण्डलप्पमाणापि, सब्बपरिच्छेदेसु परिच्छेदगणनाय दुक्कटं. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, फलके फलके दुक्कटं. कप्पियतन्तवायेनपि अकप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवं दुक्कटं. तेनेव कप्पियञ्च अकप्पियञ्च सुत्तं वायापेन्तस्स सचे पच्छिमचीवरप्पमाणा ऊनका वा अकप्पियसुत्तपरिच्छेदा होन्ति, तेसु परिच्छेदगणनाय दुक्कटं. कप्पियसुत्तपरिच्छेदेसु अनापत्ति. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, फलके फलके दुक्कटं.
यदि पन द्वे तन्तवाया होन्ति, एको कप्पियो एको अकप्पियो, सुत्तञ्च अकप्पियं, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन वीते फलके फलके पाचित्तियं, ऊनतरे दुक्कटं. इतरेन वीते उभयत्थ दुक्कटं. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, फलके फलके पाचित्तियं. अथ सुत्तं कप्पियं, चीवरञ्च केदारबद्धादीहि सपरिच्छेदं, अकप्पियतन्तवायेन वीते परिच्छेदे परिच्छेदे दुक्कटं, इतरेन वीते अनापत्ति. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, फलके फलके दुक्कटं. अथ सुत्तम्पि कप्पियञ्च अकप्पियञ्च, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन अकप्पियसुत्तमयेसु पच्छिमचीवरप्पमाणेसु परिच्छेदेसु वीतेसु परिच्छेदगणनाय पाचित्तियं. ऊनकतरेसु कप्पियसुत्तमयेसु च दुक्कटं. कप्पियतन्तवायेन अकप्पियसुत्तमयेसु पमाणयुत्तेसु वा ऊनकेसु वा दुक्कटमेव. कप्पियसुत्तमयेसु अनापत्ति.
अथ एकन्तरिकेन वा सुत्तेन दीघतो वा अकप्पियं तिरियं कप्पियं कत्वा विनन्ति, उभोपि वा ते वेमं गहेत्वा एकतो विनन्ति, अपरिच्छेदे चीवरे फलके फलके दुक्कटं, सपरिच्छेदे परिच्छेदवसेन दुक्कटानीति. अयं पन अत्थो महाअट्ठकथायं अपाकटो, महापच्चरियादीसु पाकटो. इध सब्बाकारेनेव पाकटो.
सचे सुत्तम्पि कप्पियं, तन्तवायोपि कप्पियो ञातकप्पवारितो वा मूलेन वा पयोजितो, वायापनपच्चया अनापत्ति. दसाहातिक्कमनपच्चया पन आपत्तिं रक्खन्तेन विकप्पनुपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बं. दसाहातिक्कमेन निट्ठापियमानञ्हि निस्सग्गियं भवेय्याति. ञातकादीहि तन्तं आरोपेत्वा ‘‘तुम्हाकं, भन्ते, इदं चीवरं गण्हेय्याथा’’ति निय्यातितेपि एसेव नयो.
सचे तन्तवायो एवं पयोजितो वा सयं दातुकामो वा हुत्वा ‘‘अहं, भन्ते, तुम्हाकं चीवरं असुकदिवसे नाम वायित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियं.
सचे पन तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, चीवरं निट्ठित’’न्ति आरोचेति, एतस्स आरोचनं न पमाणं. यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं.
सचे तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, चीवरं गहेत्वा गतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतं चीवरं सुन्दर’’न्ति? ‘‘कुहिं, आवुसो, चीवर’’न्ति? ‘‘इत्थन्नामस्स हत्थे पेसित’’न्ति. एतस्सपि वचनं न पमाणं. यदा पन सो भिक्खु चीवरं देति, लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. सचे पन वायापनमूलं अदिन्नं होति, याव काकणिकमत्तम्पि अवसिट्ठं, ताव रक्खति.
६४०. अनापत्ति चीवरं सिब्बेतुन्ति चीवरसिब्बनत्थाय सुत्तं विञ्ञापेन्तस्स अनापत्तीति अत्थो. आयोगेतिआदीसुपि निमित्तत्थे भुम्मवचनं, आयोगादिनिमित्तं विञ्ञापेन्तस्स अनापत्तीति वुत्तं होति. सेसमेत्थ उत्तानत्थमेवाति.
छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.
सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.