१०. कयविक्कयसिक्खापदवण्णना
५९३. तेन समयेनाति कयविक्कयसिक्खापदं. तत्थ कति हिपि त्यायन्ति कति ते अयं, हिकारो पनेत्थ पदपूरणो, पिकारो गरहायं, अयं दुब्बलसङ्घाटि तव कति दिवसानि भविस्सतीति अत्थो. अथ वा कतिहम्पि त्यायन्तिपि पाठो. तत्थ कतिहन्ति कति अहानि, कति दिवसानीति वुत्तं होति. सेसं वुत्तनयमेव. कतिहिपि म्यायन्ति इदम्पि एतेनेव नयेन वेदितब्बं. गिहीपि नं गिहिस्साति एत्थ नन्ति नामत्थे निपातो, गिही नाम गिहिस्साति वुत्तं होति.
५९४. नानप्पकारकन्ति चीवरादीनं कप्पियभण्डानं वसेन अनेकविधं. तेनेवस्स पदभाजने चीवरं आदिं कत्वा दसिकसुत्तपरियोसानं कप्पियभण्डमेव दस्सितं. अकप्पियभण्डपरिवत्तनञ्हि कयविक्कयसङ्गहं न गच्छति. कयविक्कयन्ति कयञ्चेव विक्कयञ्च. ‘‘इमिना इमं देही’’तिआदिना हि नयेन परस्स कप्पियभण्डं गण्हन्तो कयं समापज्जति, अत्तनो कप्पियभण्डं देन्तो विक्कयं.
५९५. अज्झाचरतीति अभिभवित्वा चरति, वीतिक्कमवाचं भासतीति अत्थो. यतो कयितञ्च होति विक्कयितञ्चाति यदा कयितञ्च होति परभण्डं अत्तनो हत्थगतं करोन्तेन, विक्कीतञ्च अत्तनो भण्डं परहत्थगतं करोन्तेन. ‘‘इमिना इम’’न्तिआदिवचनानुरूपतो पन पाठे पठमं अत्तनो भण्डं दस्सितं.
निस्सज्जितब्बन्ति एवं परस्स हत्थतो कयवसेन गहितकप्पियभण्डं निस्सज्जितब्बं. अयञ्हि कयविक्कयो ठपेत्वा पञ्च सहधम्मिके अवसेसेहि गिहिपब्बजितेहि अन्तमसो मातापितूहिपि सद्धिं न वट्टति.
तत्रायं विनिच्छयो – वत्थेन वा वत्थं होतु भत्तेन वा भत्तं, यं किञ्चि कप्पियं ‘‘इमिना इमं देही’’ति वदति, दुक्कटं. एवं वत्वा मातुयापि अत्तनो भण्डं देति, दुक्कटं. ‘‘इमिना इमं देही’’ति वुत्तो वा ‘‘इमं देहि, इमं ते दस्सामी’’ति वत्वा वा मातुयापि भण्डं अत्तना गण्हाति, दुक्कटं. अत्तनो भण्डे परहत्थं परभण्डे च अत्तनो हत्थं सम्पत्ते निस्सग्गियं. मातरं पन पितरं वा ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति. ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं न होति. अञ्ञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति होति. ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं होति. ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियं. तस्मा कप्पियभण्डं परिवत्तेन्तेन मातापितूहिपि सद्धिं कयविक्कयं अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो मोचेन्तेन परिवत्तेतब्बं.
तत्रायं परिवत्तनविधि – भिक्खुस्स पाथेय्यतण्डुला होन्ति, सो अन्तरामग्गे भत्तहत्थं पुरिसं दिस्वा ‘‘अम्हाकं तण्डुला अत्थि, न च नो इमेहि अत्थो, भत्तेन पन अत्थो’’ति वदति. पुरिसो तण्डुले गहेत्वा भत्तं देति, वट्टति. तिस्सोपि आपत्तियो न होन्ति. अन्तमसो निमित्तकम्ममत्तम्पि न होति. कस्मा? मूलस्स अत्थिताय. परतो च वुत्तमेव ‘‘इदं अम्हाकं अत्थि, अम्हाकञ्च इमिना च इमिना च अत्थोति भणती’’ति. यो पन एवं अकत्वा ‘‘इमिना इमं देही’’ति परिवत्तेति; यथावत्थुकमेव. विघासादं दिस्वा ‘‘इमं ओदनं भुञ्जित्वा, रजनं वा दारूनि वा आहरा’’ति वदति, रजनछल्लिगणनाय दारुगणनाय च निस्सग्गियानि होन्ति. ‘‘इमं ओदनं भुञ्जित्वा इदं नाम करोथा’’ति दन्तकारादीहि सिप्पिकेहि धमकरणादीसु तं तं परिक्खारं कारेति, रजकेहि वा वत्थं धोवापेति; यथावत्थुकमेव. न्हापितेन केसे छिन्दापेति, कम्मकारेहि नवकम्मं कारेति; यथावत्थुकमेव. सचे पन ‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति न वदति ‘‘इदं भत्तं भुञ्ज भुत्तोसि भुञ्जिस्ससि, इदं नाम करोही’’ति वदति, वट्टति. एत्थ च किञ्चापि वत्थधोवने वा केसच्छेदने वा भूमिसोधनादिनवकम्मे वा परभण्डं अत्तनो हत्थगतं निस्सज्जितब्बं नाम नत्थि. महाअट्ठकथायं पन दळ्हं कत्वा वुत्तत्ता न सक्का एतं पटिक्खिपितुं, तस्मा यथा निस्सग्गियवत्थुम्हि परिभुत्ते वा नट्ठे वा पाचित्तियं देसेति, एवमिधापि देसेतब्बं.
५९६. कयविक्कये कयविक्कयसञ्ञीतिआदिम्हि यो कयविक्कयं समापज्जति, सो तस्मिं कयविक्कयसञ्ञी वा भवतु वेमतिको वा, न कयविक्कयसञ्ञी वा निस्सग्गियपाचित्तियमेव. चूळत्तिके द्वीसु पदेसु दुक्कटमेवाति एवमत्थो दट्ठब्बो.
५९७. अग्घं पुच्छतीति ‘‘अयं तव पत्तो किं अग्घती’’ति पुच्छति. ‘‘इदं नामा’’ति वुत्ते पन सचे तस्स कप्पियभण्डं महग्घं होति, एवञ्च नं पटिवदति ‘‘उपासक, मम इदं वत्थु महग्घं, तव पत्तं अञ्ञस्स देही’’ति. तं सुत्वा इतरो ‘‘अञ्ञं थालकम्पि दस्सामी’’ति वदति गण्हितुं वट्टति, ‘‘इदं अम्हाकं अत्थी’’ति वुत्तलक्खणे पतति. सचे सो पत्तो महग्घो, भिक्खुनो वत्थु अप्पग्घं, पत्तसामिको चस्स अप्पग्घभावं न जानाति, पत्तो न गहेतब्बो, ‘‘मम वत्थु अप्पग्घ’’न्ति आचिक्खितब्बं. महग्घभावं ञत्वा वञ्चेत्वा गण्हन्तो हि गहितभण्डं अग्घापेत्वा कारेतब्बतं आपज्जति. सचे पत्तसामिको ‘‘होतु, भन्ते, सेसं मम पुञ्ञं भविस्सती’’ति देति, वट्टति.
कप्पियकारकस्स आचिक्खतीति यस्स हत्थतो भण्डं गण्हाति, तं ठपेत्वा अञ्ञं अन्तमसो तस्स पुत्तभातिकम्पि कप्पियकारकं कत्वा ‘‘इमिना इमं नाम गहेत्वा देही’’ति आचिक्खति. सो चे छेको होति, पुनप्पुनं अपनेत्वा विवदित्वा गण्हाति, तुण्हीभूतेन ठातब्बं. नो चे छेको होति, न जानाति गहेतुं, वाणिजको तं वञ्चेति, ‘‘मा गण्हा’’ति वत्तब्बो.
इदं अम्हाकन्तिआदिम्हि ‘‘इदं पटिग्गहितं तेलं वा सप्पि वा अम्हाकं अत्थि, अम्हाकञ्च अञ्ञेन अप्पटिग्गहितकेन अत्थो’’ति भणति. सचे सो तं गहेत्वा अञ्ञं देति, पठमं अत्तनो तेलं न मिनापेतब्बं. कस्मा? नाळियञ्हि अवसिट्ठतेलं होति, तं पच्छा मिनन्तस्स अप्पटिग्गहितकं दूसेय्याति. सेसं उत्तानमेव.
छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.
कयविक्कयसिक्खापदवण्णना निट्ठिता.
निट्ठितो कोसियवग्गो दुतियो.