९. दुतियदुट्ठदोससिक्खापदवण्णना
३९१. तेन समयेन बुद्धो भगवाति दुतियदुट्ठदोससिक्खापदं. तत्थ हन्द मयं आवुसो इमं छगलकं दब्बं मल्लपुत्तं नाम करोमाति ते किर पठमवत्थुस्मिं अत्तनो मनोरथं सम्पादेतुं असक्कोन्ता लद्धनिग्गहा विघातप्पत्ता ‘‘इदानि जानिस्सामा’’ति तादिसं वत्थुं परियेसमाना विचरन्ति. अथेकदिवसं दिस्वा तुट्ठा अञ्ञमञ्ञं ओलोकेत्वा एवमाहंसु – ‘‘हन्द मयं, आवुसो, इमं छगलकं दब्बं मल्लपुत्तं नाम करोमा’’ति, ‘‘दब्बो मल्लपुत्तो नामाय’’न्ति एवमस्स नामं करोमाति वुत्तं होति. एस नयो मेत्तियं नाम भिक्खुनिन्ति एत्थापि.
ते भिक्खू मेत्तियभुमजके भिक्खू अनुयुञ्जिंसूति एवं अनुयुञ्जिंसु –‘‘आवुसो, कुहिं तुम्हेहि दब्बो मल्लपुत्तो मेत्तियाय भिक्खुनिया सद्धिं दिट्ठो’’ति? ‘‘गिज्झकूटपब्बतपादे’’ति. ‘‘काय वेलाय’’ति? ‘‘भिक्खाचारगमनवेलाया’’ति. आवुसो दब्ब इमे एवं वदन्ति – ‘‘त्वं तदा कुहि’’न्ति? ‘‘वेळुवने भत्तानि उद्दिसामी’’ति. ‘‘तव ताय वेलाय वेळुवने अत्थिभावं को जानाती’’ति? ‘‘भिक्खुसङ्घो, भन्ते’’ति. ते सङ्घं पुच्छिंसु – ‘‘जानाथ तुम्हे ताय वेलाय इमस्स वेळुवने अत्थिभाव’’न्ति. ‘‘आम, आवुसो, जानाम, थेरो सम्मुतिलद्धदिवसतो पट्ठाय वेळुवनेयेवा’’ति. ततो मेत्तियभुमजके आहंसु – ‘‘आवुसो, तुम्हाकं कथा न समेति, कच्चि नो लेसं ओड्डेत्वा वदथा’’ति. एवं ते तेहि भिक्खूहि अनुयुञ्जियमाना आम आवुसोति वत्वा एतमत्थं आरोचेसुं.
किं पन तुम्हे, आवुसो, आयस्मन्तं दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्साति एत्थ अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थीति अञ्ञभागियं. अधिकरणन्ति आधारो वेदितब्बो, वत्थु अधिट्ठानन्ति वुत्तं होति. यो हि सो ‘‘दब्बो मल्लपुत्तो नामा’’ति छगलको वुत्तो, सो य्वायं आयस्मतो दब्बस्स मल्लपुत्तस्स भागो कोट्ठासो पक्खो मनुस्सजाति चेव भिक्खुभावो च ततो अञ्ञस्स भागस्स कोट्ठासस्स पक्खस्स होति तिरच्छानजातिया चेव छगलकभावस्स च सो वा अञ्ञभागो अस्स अत्थीति तस्मा अञ्ञभागियसङ्ख्यं लभति. यस्मा च तेसं ‘‘इमं मयं दब्बं मल्लपुत्तं नाम करोमा’’ति वदन्तानं तस्सा नामकरणसञ्ञाय आधारो वत्थु अधिट्ठानं, तस्मा अधिकरणन्ति वेदितब्बो. तञ्हि सन्धाय ‘‘ते भिक्खू अञ्ञभागियस्स अधिकरणस्सा’’ति आहंसु, न विवादाधिकरणादीसु अञ्ञतरं. कस्मा? असम्भवतो. न हि ते चतुन्नं अधिकरणानं कस्सचि अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादियिंसु. न च चतुन्नं अधिकरणानं लेसो नाम अत्थि. जातिलेसादयो हि पुग्गलानंयेव लेसा वुत्ता, न विवादाधिकरणादीनं. इदञ्च ‘‘दब्बो मल्लपुत्तो’’ति नामं तस्स अञ्ञभागियाधिकरणभावे ठितस्स छगलकस्स कोचि देसो होति थेरं अमूलकेन पाराजिकेन अनुद्धंसेतुं लेसमत्तो.
एत्थ च दिस्सति अपदिस्सति अस्स अयन्ति वोहरीयतीति देसो. जातिआदीसु अञ्ञतरकोट्ठासस्सेतं अधिवचनं. अञ्ञम्पि वत्थुं लिस्सति सिलिस्सति वोहारमत्तेनेव ईसकं अल्लीयतीति लेसो. जातिआदीनंयेव अञ्ञतरकोट्ठासस्सेतं अधिवचनं. ततो परं उत्तानत्थमेव. सिक्खापदपञ्ञत्तियम्पि अयमेवत्थो. पदभाजने पन यस्स अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य, तं यस्मा अट्ठुप्पत्तिवसेनेव आविभूतं, तस्मा न विभत्तन्ति वेदितब्बं.
३९३. यानि पन अधिकरणन्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानि, तेसं अञ्ञभागियता च तब्भागियता च यस्मा अपाकटा जानितब्बा च विनयधरेहि, तस्मा वचनसामञ्ञतो लद्धं अधिकरणं निस्साय तं आविकरोन्तो ‘‘अञ्ञभागियस्स अधिकरणस्साति आपत्तञ्ञभागियं वा होति अधिकरणञ्ञभागियं वा’’तिआदिमाह. या च सा अवसाने आपत्तञ्ञभागियस्स अधिकरणस्स वसेन चोदना वुत्ता, तम्पि दस्सेतुं अयं सब्बाधिकरणानं तब्भागियअञ्ञभागियता समाहटाति वेदितब्बा.
तत्थ च आपत्तञ्ञभागियं वाति पठमं उद्दिट्ठत्ता ‘‘कथञ्च आपत्ति आपत्तिया अञ्ञभागिया होती’’ति निद्देसे आरभितब्बे यस्मा आपत्ताधिकरणस्स तब्भागियविचारणायंयेव अयमत्थो आगमिस्सति, तस्मा एवं अनारभित्वा ‘‘कथञ्च अधिकरणं अधिकरणस्स अञ्ञभागिय’’न्ति पच्छिमपदंयेव गहेत्वा निद्देसो आरद्धोति वेदितब्बो.
तत्थ अञ्ञभागियवारो उत्तानत्थोयेव. एकमेकञ्हि अधिकरणं इतरेसं तिण्णं तिण्णं अञ्ञभागियं अञ्ञपक्खियं अञ्ञकोट्ठासियं होति, वत्थुविसभागत्ता, तब्भागियवारे पन विवादाधिकरणं विवादाधिकरणस्स तब्भागियं तप्पक्खियं तंकोट्ठासियं वत्थुसभागत्ता, तथा अनुवादाधिकरणं अनुवादाधिकरणस्स. कथं? बुद्धकालतो पट्ठाय हि अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नविवादो च इदानि उप्पज्जनकविवादो च वत्थुसभागताय एकं विवादाधिकरणमेव होति, तथा बुद्धकालतो पट्ठाय चतस्सो विपत्तियो निस्साय उप्पन्नअनुवादो च इदानि उप्पज्जनकअनुवादो च वत्थुसभागताय एकं अनुवादाधिकरणमेव होति. यस्मा पन आपत्ताधिकरणं आपत्ताधिकरणस्स सभागविसभागवत्थुतो सभागसरिक्खासरिक्खतो च एकंसेन तब्भागियं न होति, तस्मा आपत्ताधिकरणं आपत्ताधिकरणस्स सिया तब्भागियं सिया अञ्ञभागियन्ति वुत्तं. तत्थ आदितो पट्ठाय अञ्ञभागियस्स पठमं निद्दिट्ठत्ता इधापि अञ्ञभागियमेव पठमं निद्दिट्ठं, तत्थ अञ्ञभागियत्तञ्च परतो तब्भागियत्तञ्च वुत्तनयेनेव वेदितब्बं.
किच्चाधिकरणं किच्चाधिकरणस्स तब्भागियन्ति एत्थ पन बुद्धकालतो पट्ठाय चत्तारि सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणञ्च इदानि चत्तारि सङ्घकम्मानि निस्साय उप्पज्जनकं अधिकरणञ्च सभागताय सरिक्खताय च एकं किच्चाधिकरणमेव होति. किं पन सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणं किच्चाधिकरणं, उदाहु सङ्घकम्मानमेवेतं अधिवचनन्ति? सङ्घकम्मानमेवेतं अधिवचनं. एवं सन्तेपि सङ्घकम्मं नाम ‘‘इदञ्चिदञ्च एवं कत्तब्ब’’न्ति यं कम्मलक्खणं मनसिकरोति तं निस्साय उप्पज्जनतो पुरिमं पुरिमं सङ्घकम्मं निस्साय उप्पज्जनतो च सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणं किच्चाधिकरणन्ति वुत्तं.
३९४. किञ्चि देसं लेसमत्तं उपादायाति एत्थ पन यस्मा देसोति वा लेसमत्तोति वा पुब्बे वुत्तनयेनेव ब्यञ्जनतो नानं अत्थतो एकं, तस्मा ‘‘लेसो नाम दस लेसा जातिलेसो नामलेसो’’तिआदिमाह. तत्थ जातियेव जातिलेसो. एस नयो सेसेसु.
३९५. इदानि तमेव लेसं वित्थारतो दस्सेतुं यथा तं उपादाय अनुद्धंसना होति तथा सवत्थुकं कत्वा दस्सेन्तो ‘‘जातिलेसो नाम खत्तियो दिट्ठो होती’’तिआदिमाह. तत्थ खत्तियो दिट्ठो होतीति अञ्ञो कोचि खत्तियजातियो इमिना चोदकेन दिट्ठो होति. पाराजिकं धम्मं अज्झापज्जन्तोति मेथुनधम्मादीसु अञ्ञतरं आपज्जन्तो. अञ्ञं खत्तियं पस्सित्वा चोदेतीति अथ सो अञ्ञं अत्तनो वेरिं खत्तियजातियं भिक्खुं पस्सित्वा तं खत्तियजातिलेसं गहेत्वा एवं चोदेति ‘‘खत्तियो मया दिट्ठो पाराजिकं धम्मं अज्झापज्जन्तो, त्वं खत्तियो, पाराजिकं धम्मं अज्झापन्नोसी’’ अथ वा ‘‘त्वं सो खत्तियो, न अञ्ञो, पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि असक्यपुत्तियोसि नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्स. एत्थ च तेसं खत्तियानं अञ्ञमञ्ञं असदिसस्स तस्स तस्स दीघादिनो वा दिट्ठादिनो वा वसेन अञ्ञभागियता खत्तियजातिपञ्ञत्तिया आधारवसेन अधिकरणता च वेदितब्बा, एतेनुपायेन सब्बपदेसु योजना वेदितब्बा.
४००. पत्तलेसनिद्देसे च साटकपत्तोति लोहपत्तसदिसो सुसण्ठानो सुच्छवि सिनिद्धो भमरवण्णो मत्तिकापत्तो वुच्चति. सुम्भकपत्तोति पकतिमत्तिकापत्तो.
४०६. यस्मा पन आपत्तिलेसस्स एकपदेनेव सङ्खेपतो निद्देसो वुत्तो, तस्मा वित्थारतोपि तं दस्सेतुं ‘‘भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होती’’तिआदि वुत्तं. कस्मा पनस्स तत्थेव निद्देसं अवत्वा इध विसुं वुत्तोति? सेसनिद्देसेहि असभागत्ता. सेसनिद्देसा हि अञ्ञं दिस्वा अञ्ञस्स चोदनावसेन वुत्ता. अयं पन एकमेव अञ्ञं आपत्तिं आपज्जन्तं दिस्वा अञ्ञाय आपत्तिया चोदनावसेन वुत्तो. यदि एवं कथं अञ्ञभागियं अधिकरणं होतीति? आपत्तिया. तेनेव वुत्तं – ‘‘एवम्पि आपत्तञ्ञभागियञ्च होति लेसो च उपादिन्नो’’ति. यञ्हि सो सङ्घादिसेसं आपन्नो तं पाराजिकस्स अञ्ञभागियं अधिकरणं. तस्स पन अञ्ञभागियस्स अधिकरणस्स लेसो नाम यो सो सब्बखत्तियानं साधारणो खत्तियभावो विय सब्बापत्तीनं साधारणो आपत्तिभावो. एतेनुपायेन सेसापत्तिमूलकनयो चोदापकवारो च वेदितब्बो.
४०८. अनापत्ति तथासञ्ञी चोदेति वा चोदापेति वाति ‘‘पाराजिकंयेव अयं आपन्नो’’ति यो एवं तथासञ्ञी चोदेति वा चोदापेति वा तस्स अनापत्ति. सेसं सब्बत्थ उत्तानमेव. समुट्ठानादीनिपि पठमदुट्ठदोससदिसानेवाति.
दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता.