१०. पठमसङ्घभेदसिक्खापदवण्णना
४०९. तेन समयेन बुद्धो भगवाति सङ्घभेदसिक्खापदं. तत्थ अथ खो देवदत्तोतिआदीसु यो च देवदत्तो, यथा च पब्बजितो, येन च कारणेन कोकालिकादयो उपसङ्कमित्वा ‘‘एथ मयं आवुसो समणस्स गोतमस्स सङ्घभेदं करिस्साम चक्कभेद’’न्ति आह. तं सब्बं सङ्घभेदक्खन्धके (चूळव. ३४३) आगतमेव. पञ्चवत्थुयाचना पन किञ्चापि तत्थेव आगमिस्सति. अथ खो इधापि आगतत्ता यदेत्थ वत्तब्बं, तं वत्वाव गमिस्साम.
साधु भन्तेति आयाचना. भिक्खू यावजीवं आरञ्ञिका अस्सूति आरञ्ञिकधुतङ्गं समादाय सब्बेपि भिक्खू याव जीवन्ति ताव आरञ्ञिका होन्तु, अरञ्ञेयेव वसन्तु. यो गामन्तं ओसरेय्य वज्जं नं फुसेय्याति यो एकभिक्खुपि अरञ्ञं पहाय निवासत्थाय गामन्तं ओसरेय्य, वज्जं तं फुसेय्य नं भिक्खुं दोसो फुसतु, आपत्तिया नं भगवा कारेतू’’ति अधिप्पायेन वदति. एस नयो सेसवत्थूसुपि.
४१०. जनं सञ्ञापेस्सामाति जनं अम्हाकं अप्पिच्छतादिभावं जानापेस्साम, अथ वा परितोसेस्साम पसादेस्सामाति वुत्तं होति.
इमानि पन पञ्च वत्थूनि याचतो देवदत्तस्स वचनं सुत्वाव अञ्ञासि भगवा ‘‘सङ्घभेदत्थिको हुत्वा अयं याचती’’ति. यस्मा पन तानि अनुजानियमानानि बहूनं कुलपुत्तानं मग्गन्तरायाय संवत्तन्ति, तस्मा भगवा ‘‘अलं देवदत्ता’’ति पटिक्खिपित्वा ‘‘यो इच्छति आरञ्ञिको होतू’’तिआदिमाह.
एत्थ पन भगवतो अधिप्पायं विदित्वा कुलपुत्तेन अत्तनो पतिरूपं वेदितब्बं. अयञ्हेत्थ भगवतो अधिप्पायो – ‘‘एको भिक्खु महज्झासयो होति महुस्साहो, सक्कोति गामन्तसेनासनं पटिक्खिपित्वा अरञ्ञे विहरन्तो दुक्खस्सन्तं कातुं. एको दुब्बलो होति अप्पथामो अरञ्ञे न सक्कोति, गामन्तेयेव सक्कोति. एको महब्बलो समप्पवत्तधातुको अधिवासनखन्तिसम्पन्नो इट्ठानिट्ठेसु समचित्तो अरञ्ञेपि गामन्तेपि सक्कोतियेव. एको नेव गामन्ते न अरञ्ञे सक्कोति पदपरमो होति.
तत्र य्वायं महज्झासयो होति महुस्साहो, सक्कोति गामन्तसेनासनं पटिक्खिपित्वा अरञ्ञे विहरन्तो दुक्खस्सन्तं कातुं, सो अरञ्ञेयेव वसतु, इदमस्स पतिरूपं. सद्धिविहारिकादयोपि चस्स अनुसिक्खमाना अरञ्ञे विहातब्बमेव मञ्ञिस्सन्ति.
यो पन दुब्बलो होति अप्पथामो गामन्तेयेव सक्कोति दुक्खस्सन्तं कातुं, न अरञ्ञे सो गामन्तेयेव वसतु, य्वायं महब्बलो समप्पवत्तधातुको अधिवासनखन्तिसम्पन्नो इट्ठानिट्ठेसु समचित्तो अरञ्ञेपि गामन्तेपि सक्कोतियेव, अयम्पि गामन्तसेनासनं पहाय अरञ्ञे विहरतु, इदमस्स पतिरूपं सद्धिविहारिकापि हिस्स अनुसिक्खमाना अरञ्ञे विहातब्बं मञ्ञिस्सन्ति.
यो पनायं नेव गामन्ते न अरञ्ञे सक्कोति पदपरमो होति. अयम्पि अरञ्ञेयेव वसतु. अयं हिस्स धुतङ्गसेवना कम्मट्ठानभावना च आयतिं मग्गफलानं उपनिस्सयो भविस्सति. सद्धिविहारिकादयो चस्स अनुसिक्खमाना अरञ्ञे विहातब्बं मञ्ञिस्सन्तीति.
एवं य्वायं दुब्बलो होति अप्पथामो गामन्तेयेव विहरन्तो सक्कोति दुक्खस्सन्तं कातुं न अरञ्ञे, इमं पुग्गलं सन्धाय भगवा ‘‘यो इच्छति गामन्ते विहरतू’’ति आह. इमिना च पुग्गलेन अञ्ञेसम्पि द्वारं दिन्नं.
यदि पन भगवा देवदत्तस्स वादं सम्पटिच्छेय्य, य्वायं पुग्गलो पकतिया दुब्बलो होति अप्पथामो, योपि दहरकाले अरञ्ञवासं अभिसम्भुणित्वा जिण्णकाले वा वातपित्तादीहि समुप्पन्नधातुक्खोभकाले वा नाभिसम्भुणाति, गामन्तेयेव पन विहरन्तो सक्कोति दुक्खस्सन्तं कातुं, तेसं अरियमग्गुपच्छेदो भवेय्य, अरहत्तफलाधिगमो न भवेय्य, उद्धम्मं उब्बिनयं विलोमं अनिय्यानिकं सत्थु सासनं भवेय्य, सत्था च तेसं असब्बञ्ञू अस्स ‘‘सकवादं छड्डेत्वा देवदत्तवादे पतिट्ठितो’’ति गारय्हो च भवेय्य. तस्मा भगवा एवरूपे पुग्गले सङ्गण्हन्तो देवदत्तस्स वादं पटिक्खिपि. एतेनेवूपायेन पिण्डपातिकवत्थुस्मिम्पि पंसुकूलिकवत्थुस्मिम्पि अट्ठ मासे रुक्खमूलिकवत्थुस्मिम्पि विनिच्छयो वेदितब्बो. चत्तारो पन मासे रुक्खमूलसेनासनं पटिक्खित्तमेव.
मच्छमंसवत्थुस्मिं तिकोटिपरिसुद्धन्ति तीहि कोटीहि परिसुद्धं, दिट्ठादीहि अपरिसुद्धीहि विरहितन्ति अत्थो. तेनेवाह – ‘‘अदिट्ठं, असुतं, अपरिसङ्कित’’न्ति. तत्थ ‘‘अदिट्ठं’’ नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं अदिट्ठं. ‘‘असुतं’’ नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति असुतं. ‘‘अपरिसङ्कितं’’ पन दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविमुत्तपरिसङ्कितञ्च ञत्वा तब्बिपक्खतो जानितब्बं. कथं? इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो व निक्खमन्ते अरञ्ञे वा विचरन्ते, दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति. ते तेन दिट्ठेन परिसङ्कन्ति ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं दिट्ठपरिसङ्कितं, नाम एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा भन्ते न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं भन्ते भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति कप्पति.
नहेव खो भिक्खू पस्सन्ति; अपिच सुणन्ति, मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति, अरञ्ञे वा विचरन्ती’’ति. दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं ‘‘सुतपरिसङ्कितं’’ नाम. एतं गहेतुं न वट्टति, यं एवं अपरिसङ्कितं तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति कप्पति.
नहेव खो पन भिक्खू पस्सन्ति, न सुणन्ति; अपिच खो तेसं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति, ते परिसङ्कन्ति ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं ‘‘तदुभयविमुत्तपरिसङ्कितं’’ नाम. एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतं पवत्तमंसं वा कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादित’’न्ति वदन्ति कप्पति. मतानं पेतकिच्चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो. यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिको होति, तं सब्बं कप्पति.
सचे पन एकस्मिं विहारे भिक्खू उद्दिस्स कतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्ञे जानन्ति. ये जानन्ति, तेसं न वट्टति, इतरेसं वट्टति. अञ्ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्ञेसं वट्टति. तेपि अम्हाकं अत्थाय कतन्ति जानन्ति, अञ्ञेपि एतेसं अत्थाय कतन्ति जानन्ति, सब्बेसम्पि न वट्टति, सब्बे न जानन्ति, सब्बेसम्पि वट्टति. पञ्चसु हि सहधम्मिकेसु यस्स वा तस्स वा अत्थाय उद्दिस्स कतं, सब्बेसं न कप्पति.
सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो च अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्ञस्स भिक्खुनो देति, सो तस्स सद्धाय परिभुञ्जति, कस्स आपत्तीति? द्विन्नम्पि अनापत्ति. यञ्हि उद्दिस्स कतं तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय. कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि. उद्दिस्स कतञ्च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्चं नाम नत्थि, अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा, उद्दिस्स कतञ्हि ञत्वा भुञ्जतोव आपत्ति. अकप्पियमंसं अजानित्वा भुञ्जन्तस्सापि आपत्तियेव. तस्मा आपत्तिभीरुकेन रूपं सल्लक्खेन्तेनपि पुच्छित्वाव मंसं पटिग्गहेतब्बं. परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्बं. कस्मा? दुविञ्ञेय्यत्ता. अच्छमंसं हि सूकरमंससदिसं होति, दीपिमंसादीनिपि मिगमंसादिसदिसानि, तस्मा पुच्छित्वा गहणमेव वत्तन्ति वदन्ति.
हट्ठो उदग्गोति तुट्ठो चेव उन्नतकायचित्तो च हुत्वा. सो किर ‘‘न भगवा इमानि पञ्च वत्थूनि अनुजानाति, इदानि सक्खिस्सामि सङ्घभेदं कातु’’न्ति कोकालिकस्स इङ्गिताकारं दस्सेत्वा यथा विसं वा खादित्वा रज्जुया वा उब्बन्धित्वा सत्थं वा आहरित्वा मरितुकामो पुरिसो विसादीसु अञ्ञतरं लभित्वा तप्पच्चया आसन्नम्पि मरणदुक्खं अजानन्तो हट्ठो उदग्गो होति; एवमेव सङ्घभेदपच्चया आसन्नम्पि अवीचिम्हि निब्बत्तित्वा पटिसंवेदनीयं दुक्खं अजानन्तो ‘‘लद्धो दानि मे सङ्घभेदस्स उपायो’’ति हट्ठो उदग्गो सपरिसो उट्ठायासना तेनेव हट्ठभावेन भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
ते मयं इमेहि पञ्चहि वत्थूहि समादाय वत्तामाति एत्थ पन ‘‘इमानि पञ्च वत्थूनी’’ति वत्तब्बेपि ते मयं इमेहि पञ्चहि वत्थूहि जनं सञ्ञापेस्सामाति अभिण्हं परिवितक्कवसेन विभत्तिविपल्लासं असल्लक्खेत्वा अभिण्हं परिवितक्कानुरूपमेव ‘‘ते मयं इमेहि पञ्चहि वत्थूही’’ति आह, यथा तं विक्खित्तचित्तो.
धुता सल्लेखवुत्तिनोति या पटिपदा किलेसे धुनाति, ताय समन्नागतत्ता धुता. या च किलेसे सल्लिखति, सा एतेसं वुत्तीति सल्लेखवुत्तिनो.
बाहुलिकोति चीवरादीनं पच्चयानं बहुलभावो बाहुल्लं, तं बाहुल्लमस्स अत्थि, तस्मिं वा बाहुल्ले नियुत्तो ठितोति बाहुलिको. बाहुल्लाय चेतेतीति बाहुलत्ताय चेतेति कप्पेति पकप्पेति. कथञ्हि नाम मय्हञ्च सावकानञ्च चीवरादीनं पच्चयानं बहुलभावो भवेय्याति एवं उस्सुक्कमापन्नोति अधिप्पायो. चक्कभेदायाति आणाभेदाय.
धम्मिं कथं कत्वाति खन्धके वुत्तनयेन ‘‘अलं, देवदत्त, मा ते रुच्चि सङ्घभेदो. गरुको खो, देवदत्त, सङ्घभेदो. यो खो, देवदत्त, समग्गं सङ्घं भिन्दति, कप्पट्ठिकं किब्बिसं पसवति, कप्पं निरयम्हि पच्चति, यो च खो, देवदत्त, भिन्नं सङ्घं समग्गं करोति, ब्रह्मं पुञ्ञं पसवति, कप्पं सग्गम्हि मोदती’’ति (चूळव. ३४३) एवमादिकं अनेकप्पकारं देवदत्तस्स च भिक्खूनञ्च तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा.
४११. समग्गस्साति सहितस्स चित्तेन च सरीरेन च अवियुत्तस्साति अत्थो. पदभाजनेपि हि अयमेव अत्थो दस्सितो. समानसंवासकोति हि वदता चित्तेन अवियोगो दस्सितो होति. समानसीमायं ठितोति वदता सरीरेन. कथं? समानसंवासको हि लद्धिनानासंवासकेन वा कम्मनानासंवासकेन वा विरहितो समचित्तताय चित्तेन अवियुत्तो होति. समानसीमायं ठितो कायसामग्गिदानतो सरीरेन अवियुत्तो.
भेदनसंवत्तनिकं वा अधिकरणन्ति भेदनस्स सङ्घभेदस्स अत्थाय संवत्तनिकं कारणं. इमस्मिञ्हि ओकासे ‘‘कामहेतु कामनिदानं कामाधिकरण’’न्तिआदीसु (म. नि. १.१६८) विय कारणं अधिकरणन्ति अधिप्पेतं. तञ्च यस्मा अट्ठारसविधं होति, तस्मा पदभाजने ‘‘अट्ठारस भेदकरवत्थूनी’’ति वुत्तं. तानि पन ‘‘इधूपालि, भिक्खु अधम्मं धम्मोति दीपेती’’तिआदिना (चूळव. ३५२) नयेन खन्धके आगतानि, तस्मा तत्रेव नेसं अत्थं वण्णयिस्साम. योपि चायं इमानि वत्थूनि निस्साय अपरेहिपि कम्मेन, उद्देसेन, वोहारेन, अनुसावनाय, सलाकग्गाहेनाति पञ्चहि कारणेहि सङ्घभेदो होति, तम्पि आगतट्ठानेयेव पकासयिस्साम. सङ्खेपतो पन भेदनसंवत्तनिकं वा अधिकरणं समादायाति एत्थ सङ्घभेदस्स अत्थाय संवत्तनिकं सङ्घभेदनिप्फत्तिसमत्थं कारणं गहेत्वाति एवमत्थो वेदितब्बो. पग्गय्हाति पग्गहितं अब्भुस्सितं पाकटं कत्वा. तिट्ठेय्याति यथासमादिन्नं यथापग्गहितमेव च कत्वा अच्छेय्य. यस्मा पन एवं पग्गण्हता तिट्ठता च तं दीपितञ्चेव अप्पटिनिस्सट्ठञ्च होति, तस्मा पदभाजने ‘‘दीपेय्या’’ति च ‘‘नप्पटिनिस्सज्जेय्या’’ति च वुत्तं.
भिक्खूहि एवमस्स वचनीयोति अञ्ञेहि लज्जीहि भिक्खूहि एवं वत्तब्बो भवेय्य. पदभाजने चस्स ये पस्सन्तीति ये सम्मुखा पग्गय्ह तिट्ठन्तं पस्सन्ति. ये सुणन्तीति येपि ‘‘असुकस्मिं नाम विहारे भिक्खू भेदनसंवत्तनिकं अधिकरणं समादाय पग्गय्ह तिट्ठन्ती’’ति सुणन्ति.
समेतायस्मा सङ्घेनाति आयस्मा सङ्घेन सद्धिं समेतु समागच्छतु एकलद्धिको होतूति अत्थो. किं कारणा? समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरतीति.
तत्थ सम्मोदमानोति अञ्ञमञ्ञं सम्पत्तिया सट्ठु मोदमानो. अविवदमानोति ‘‘अयं धम्मो, नायं धम्मो’’ति एवं न विवदमानो. एको उद्देसो अस्साति एकुद्देसो, एकतो पवत्तपातिमोक्खुद्देसो, न विसुन्ति अत्थो. फासु विहरतीति सुखं विहरति.
इच्चेतं कुसलन्ति एतं पटिनिस्सज्जनं कुसलं खेमं सोत्थिभावो तस्स भिक्खुनो. नो चे पटिनिस्सज्जति आपत्ति दुक्कटस्साति तिक्खत्तुं वुत्तस्स अप्पटिनिस्सज्जतो दुक्कटं. सुत्वा न वदन्ति आपत्ति दुक्कटस्साति ये सुत्वा न वदन्ति, तेसम्पि दुक्कटं. कीवदूरे सुत्वा अवदन्तानं दुक्कटं? एकविहारे ताव वत्तब्बं नत्थि. अट्ठकथायं पन वुत्तं ‘‘समन्ता अद्धयोजने भिक्खूनं भारो. दूतं वा पण्णं वा पेसेत्वा वदतोपि आपत्तिमोक्खो नत्थि. सयमेव गन्त्वा ‘गरुको खो, आवुसो, सङ्घभेदो, मा सङ्घभेदाय, परक्कमी’ति निवारेतब्बो’’ति. पहोन्तेन पन दूरम्पि गन्तब्बं अगिलानानञ्हि दूरेपि भारोयेव.
इदानि ‘‘एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो’’तिआदीसु अत्थमत्तमेव दस्सेतुं ‘‘सो भिक्खु सङ्घमज्झम्पि आकड्ढित्वा वत्तब्बो’’तिआदिमाह. तत्थ सङ्घमज्झम्पि आकड्ढित्वाति सचे पुरिमनयेन वुच्चमानो न पटिनिस्सज्जति हत्थेसु च पादेसु च गहेत्वापि सङ्घमज्झं आकड्ढित्वा पुनपि ‘‘मा आयस्मा’’तिआदिना नयेन तिक्खत्तुं वत्तब्बो.
यावततियं समनुभासितब्बोति याव ततियं समनुभासनं ताव समनुभासितब्बो. तीहि समनुभासनकम्मवाचाहि कम्मं कातब्बन्ति वुत्तं होति. पदभाजने पनस्स अत्थमेव गहेत्वा समनुभासनविधिं दस्सेतुं ‘‘सो भिक्खु समनुभासितब्बो. एवञ्च पन, भिक्खवे, समनुभासितब्बो’’तिआदि वुत्तं.
४१४. तत्थ ञत्तिया दुक्कटं द्वीहि कम्मवाचाहि थुल्लच्चया पटिप्पस्सम्भन्तीति यञ्च ञत्तिपरियोसाने दुक्कटं आपन्नो, ये च द्वीहि कम्मवाचाहि थुल्लच्चये, ता तिस्सोपि आपत्तियो ‘‘यस्स नक्खमति सो भासेय्या’’ति एवं य्य-कारप्पत्तमत्ताय ततियकम्मवाचाय पटिप्पस्सम्भन्ति सङ्घादिसेसोयेव तिट्ठति. किं पन आपन्नापत्तियो पटिप्पस्सम्भन्ति अनापन्नाति? महासुमत्थेरो ताव वदति ‘‘यो अवसाने पटिनिस्सज्जिस्सति, सो ता आपत्तियो न आपज्जति, तस्मा अनापन्ना पटिप्पस्सम्भन्ती’’ति. महापदुमत्थेरो पन लिङ्गपरिवत्तेन असाधारणापत्तियो विय आपन्ना पटिप्पस्सम्भन्ति, अनापन्नानं किं पटिप्पस्सद्धिया’’ति आह.
४१५. धम्मकम्मे धम्मकम्मसञ्ञीति तञ्चे समनुभासनकम्मं धम्मकम्मं होति, तस्मिं धम्मकम्मसञ्ञीति अत्थो. एस नयो सब्बत्थ. इध सञ्ञा न रक्खति, कम्मस्स धम्मिकत्ता एव अप्पटिनिस्सज्जन्तो आपज्जति.
४१६. असमनुभासन्तस्साति असमनुभासियमानस्स अप्पटिनिस्सज्जन्तस्सापि सङ्घादिसेसेन अनापत्ति.
पटिनिस्सज्जन्तस्साति ञत्तितो पुब्बे वा ञत्तिक्खणे वा ञत्तिपरियोसाने वा पठमाय वा अनुसावनाय दुतियाय वा ततियाय वा याव य्य-कारं न सम्पापुणाति, ताव पटिनिस्सज्जन्तस्स सङ्घादिसेसेन अनापत्ति.
आदिकम्मिकस्साति. एत्थ पन ‘‘देवदत्तो समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं वत्थुस्मि’’न्ति परिवारे (परि. १७) आगतत्ता देवदत्तो आदिकम्मिको. सो च खो सङ्घभेदाय परक्कमनस्सेव, न अप्पटिनिस्सज्जनस्स. न हि तस्स तं कम्मं कतं. कथमिदं जानितब्बन्ति चे? सुत्ततो. यथा हि ‘‘अरिट्ठो भिक्खु गद्धबाधिपुब्बो यावततियं समनुभासनाय न पटिनिस्सज्जि, तस्मिं वत्थुस्मि’’न्ति परिवारे (परि. १२१) आगतत्ता अरिट्ठस्स कम्मं कतन्ति पञ्ञायति, न तथा देवदत्तस्स. अथापिस्स कतेन भवितब्बन्ति कोचि अत्तनो रुचिमत्तेन वदेय्य, तथापि अप्पटिनिस्सज्जने आदिकम्मिकस्स अनापत्ति नाम नत्थि. न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्स अञ्ञत्र उद्दिस्स अनुञ्ञाततो अनापत्ति नाम दिस्सति. यम्पि अरिट्ठसिक्खापदस्स अनापत्तियं ‘‘आदिकम्मिकस्सा’’ति पोत्थकेसु लिखितं, तं पमादलिखितं. पमादलिखितभावो चस्स ‘‘पठमं अरिट्ठो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं रोपेतब्बो’’ति (चूळव. ६५) एवं कम्मक्खन्धके आपत्तिरोपनवचनतो वेदितब्बो.
इति भेदाय परक्कमने आदिकम्मिकस्स देवदत्तस्स यस्मा तं कम्मं न कतं, तस्मास्स आपत्तियेव न जाता. सिक्खापदं पन तं आरब्भ पञ्ञत्तन्ति कत्वा ‘‘आदिकम्मिको’’ति वुत्तो. इति आपत्तिया अभावतोयेवस्स अनापत्ति वुत्ता. सा पनेसा किञ्चापि असमनुभासन्तस्साति इमिनाव सिद्धा, यस्मा पन असमनुभासन्तो नाम यस्स केवलं समनुभासनं न करोन्ति, सो वुच्चति, न आदिकम्मिको. अयञ्च देवदत्तो आदिकम्मिकोयेव, तस्मा ‘‘आदिकम्मिकस्सा’’ति वुत्तं. एतेनुपायेन ठपेत्वा अरिट्ठसिक्खापदं सब्बसमनुभासनासु विनिच्छयो वेदितब्बो. सेसं सब्बत्थ उत्तानमेव.
समुट्ठानादीसु तिवङ्गिकं एकसमुट्ठानं, समनुभासनसमुट्ठानं नाममेतं, कायवाचाचित्ततो समुट्ठाति. पटिनिस्सज्जामीति कायविकारं वा वचीभेदं वा अकरोन्तस्सेव पन आपज्जनतो अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता.