११. दुतियसङ्घभेदसिक्खापदवण्णना
४१७-८. तेन समयेन बुद्धो भगवाति दुतियसङ्घभेदसिक्खापदं. तत्थ अनुवत्तकाति तस्स दिट्ठिखन्तिरुचिग्गहणेन अनुपटिपज्जनका. वग्गं असामग्गिपक्खियवचनं वदन्तीति वग्गवादका. पदभाजने पन ‘‘तस्स वण्णाय पक्खाय ठिता होन्ती’’ति वुत्तं, तस्स सङ्घभेदाय परक्कमन्तस्स वण्णत्थाय च पक्खवुड्ढिअत्थाय च ठिताति अत्थो. ये हि वग्गवादका, ते नियमेन ईदिसा होन्ति, तस्मा एवं वुत्तं. यस्मा पन तिण्णं उद्धं कम्मारहा न होन्ति, न हि सङ्घो सङ्घस्स कम्मं करोति, तस्मा एको वा द्वे वा तयो वाति वुत्तं.
जानाति नोति अम्हाकं छन्दादीनि जानाति. भासतीति ‘‘एवं करोमा’’ति अम्हेहि सद्धिं भासति. अम्हाकम्पेतं खमतीति यं सो करोति, एतं अम्हाकम्पि रुच्चति.
समेतायस्मन्तानं सङ्घेनाति आयस्मन्तानं चित्तं सङ्घेन सद्धिं समेतु समागच्छतु, एकीभावं यातूति वुत्तं होति. सेसमेत्थ पठमसिक्खापदे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेव.
समुट्ठानादीनिपि पठमसिक्खापदसदिसानेवाति.
दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता.