५. सञ्चरित्तसिक्खापदवण्णना
२९६. तेन समयेन बुद्धो भगवाति सञ्चरित्तं. तत्थ पण्डिताति पण्डिच्चेन समन्नागता गतिमन्ता. ब्यत्ताति वेय्यत्तियेन समन्नागता, उपायेन समन्नागता उपायञ्ञू विसारदा. मेधाविनीति मेधाय समन्नागता, दिट्ठं दिट्ठं करोति. दक्खाति छेका. अनलसाति उट्ठानवीरियसम्पन्ना. छन्नाति अनुच्छविका.
किस्मिं वियाति किच्छं विय किलेसो विय, हिरि विय अम्हाकं होतीति अधिप्पायो. कुमारिकाय वत्तुन्ति ‘‘इमं तुम्हे गण्हथा’’ति कुमारिकाय कारणा वत्तुं.
आवाहादीसु आवाहोति दारकस्स परकुलतो दारिकाय आहरणं. विवाहोति अत्तनो दारिकाय परकुलपेसनं. वारेय्यन्ति ‘‘देथ नो दारकस्स दारिक’’न्ति याचनं, दिवसनक्खत्तमुहुत्तपरिच्छेदकरणं वा.
२९७. पुराणगणकियाति एकस्स गणकस्स भरियाय, सा तस्मिं जीवमाने गणकीति पञ्ञायित्थ, मते पन पुराणगणकीति सङ्खं गता. तिरोगामोति बहिगामो, अञ्ञो गामोति अधिप्पायो. मनुस्साति उदायिस्स इमं सञ्चरित्तकम्मे युत्तपयुत्तभावं जाननकमनुस्सा.
सुणिसभोगेनाति येन भोगेन सुणिसा भुञ्जितब्बा होति रन्धापनपचापनपअवेसनादिना, तेन भुञ्जिंसु. ततो अपरेन दासिभोगेनाति मासातिक्कमे येन भोगेन दासी भुञ्जितब्बा होति खेत्तकम्मकचवरछड्डनउदकाहरणादिना, तेन भुञ्जिंसु. दुग्गताति दलिद्दा, यत्थ वा गता दुग्गता होति तादिसं कुलं गता. माय्यो इमं कुमारिकन्ति मा अय्यो इमं कुमारिकं. आहारूपहारोति आहारो च उपहारो च गहणञ्च दानञ्च, न अम्हेहि किञ्चि आहटं न उपाहटं तया सद्धिं कयविक्कयो वोहारो अम्हाकं नत्थीति दीपेन्ति. समणेन भवितब्बं अब्यावटेन, समणो अस्स सुसमणोति समणेन नाम ईदिसेसु कम्मेसु अब्यावटेन अब्यापारेन भवितब्बं, एवं भवन्तो हि समणो सुसमणो अस्साति, एवं नं अपसादेत्वा ‘‘गच्छ त्वं न मयं तं जानामा’’ति आहंसु.
२९८. सज्जितोति सब्बूपकरणसम्पन्नो मण्डितपसाधितो वा.
३००. धुत्ताति इत्थिधुत्ता. परिचारेन्ताति मनापियेसु रूपादीसु इतो चितो च समन्ता इन्द्रियानि चारेन्ता, कीळन्ता अभिरमन्ताति वुत्तं होति. अब्भुतमकंसूति यदि करिस्सति त्वं एत्तकं जितो, यदि न करिस्सति अहं एत्तकन्ति पणमकंसु. भिक्खूनं पन अब्भुतं कातुं न वट्टति. यो करोति पराजितेन दातब्बन्ति महापच्चरियं वुत्तं.
कथञ्हि नाम अय्यो उदायी तङ्खणिकन्ति एत्थ तङ्खणोति अचिरकालो वुच्चति. तङ्खणिकन्ति अचिरकालाधिकारिकं.
३०१. सञ्चरित्तं समापज्जेय्याति सञ्चरणभावं समापज्जेय्य. यस्मा पन तं समापज्जन्तेन केनचि पेसितेन कत्थचि गन्तब्बं होति, परतो च ‘‘इत्थिया वा पुरिसमति’’न्ति आदिवचनतो इध इत्थिपुरिसा अधिप्पेता, तस्मा तमत्थं दस्सेतुं ‘‘इत्थिया वा पहितो पुरिसस्स सन्तिके गच्छति, पुरिसेन वा पहितो इत्थिया सन्तिके गच्छती’’ति एवमस्स पदभाजनं वुत्तं. इत्थिया वा पुरिसमतिं पुरिसस्स वा इत्थिमतिन्ति एत्थ आरोचेय्याति पाठसेसो दट्ठब्बो, तेनेवस्स पदभाजने ‘‘पुरिसस्स मतिं इत्थिया आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेती’’ति वुत्तं.
इदानि यदत्थं तं तेसं मतिं अधिप्पायं अज्झासयं छन्दं रुचिं आरोचेति, तं दस्सेन्तो ‘‘जायत्तने वा जारत्तने वा’’तिआदिमाह. तत्थ जायत्तनेति जायाभावे. जारत्तनेति जारभावे. पुरिसस्स हि मतिं इत्थिया आरोचेन्तो जायत्तने आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति; अपिच पुरिसस्सेव मतिं इत्थिया आरोचेन्तो जायत्तने वा आरोचेति निबद्धभरियाभावे, जारत्तने वा मिच्छाचारभावे. यस्मा पनेतं आरोचेन्तेन ‘‘त्वं किरस्स जाया भविस्ससी’’तिआदि वत्तब्बं होति, तस्मा तं वत्तब्बताकारं दस्सेतुं ‘‘जायत्तने वाति जाया भविस्ससि, जारत्तने वाति जारी भविस्ससी’’ति अस्स पदभाजनं वुत्तं. एतेनेव च उपायेन इत्थिया मतिं पुरिसस्स आरोचनेपि पति भविस्ससि, सामिको भविस्ससि, जारो भविस्ससीति वत्तब्बताकारो वेदितब्बो.
अन्तमसो तङ्खणिकायपीति सब्बन्तिमेन परिच्छेदेन या अयं तङ्खणे मुहुत्तमत्ते पटिसंवसितब्बतो तङ्खणिकाति वुच्चति, मुहुत्तिकाति अत्थो. तस्सापि ‘‘मुहुत्तिका भविस्ससी’’ति एवं पुरिसमतिं आरोचेन्तस्स सङ्घादिसेसो. एतेनेवुपायेन ‘‘मुहुत्तिको भविस्ससी’’ति एवं पुरिसस्स इत्थिमतिं आरोचेन्तोपि सङ्घादिसेसं आपज्जतीति वेदितब्बो.
३०३. इदानि ‘‘इत्थिया वा पुरिसमति’’न्ति एत्थ अधिप्पेता इत्थियो पभेदतो दस्सेत्वा तासु सञ्चरित्तवसेन आपत्तिभेदं दस्सेतुं ‘‘दस इत्थियो’’तिआदिमाह. तत्थ मातुरक्खिताति मातरा रक्खिता. यथा पुरिसेन संवासं न कप्पेति, एवं मातरा रक्खिता, तेनस्स पदभाजनेपि वुत्तं – ‘‘माता रक्खति गोपेति इस्सरियं कारेति वसं वत्तेती’’ति. तत्थ रक्खतीति कत्थचि गन्तुं न देति. गोपेतीति यथा अञ्ञे न पस्सन्ति, एवं गुत्तट्ठाने ठपेति. इस्सरियं कारेतीति सेरिविहारमस्सा निसेधेन्ती अभिभवित्वा पवत्तति. वसं वत्तेतीति ‘‘इदं करोहि, इदं मा अकासी’’ति एवं अत्तनो वसं तस्सा उपरि वत्तेति. एतेनुपायेन पितुरक्खितादयोपि ञातब्बा. गोत्तं वा धम्मो वा न रक्खति, सगोत्तेहि पन सहधम्मिकेहि च एकं सत्थारं उद्दिस्स पब्बजितेहि एकगणपरियापन्नेहि च रक्खिता ‘‘गोत्तरक्खिता धम्मरक्खिता’’ति वुच्चति, तस्मा तेसं पदानं ‘‘सगोत्ता रक्खन्ती’’तिआदिना नयेन पदभाजनं वुत्तं.
सह आरक्खेनाति सारक्खा. सह परिदण्डेनाति सपरिदण्डा. तासं निद्देसा पाकटाव. इमासु दससु पच्छिमानं द्विन्नमेव पुरिसन्तरं गच्छन्तीनं मिच्छाचारो होति, न इतरासं.
धनक्कीतादीसु अप्पेन वा बहुना वा धनेन कीता धनक्कीता. यस्मा पन सा न कीतमत्ता एव संवासत्थाय पन कीतत्ता भरिया, तस्मास्स निद्देसे धनेन किणित्वा वासेतीति वुत्तं.
छन्देन अत्तनो रुचिया वसतीति छन्दवासिनी. यस्मा पन सा न अत्तनो छन्दमत्तेनेव भरिया होति पुरिसेन पन सम्पटिच्छितत्ता, तस्मास्स निद्देसे ‘‘पियो पियं वासेती’’ति वुत्तं.
भोगेन वसतीति भोगवासिनी. उदुक्खलमुसलादिघरूपकरणं लभित्वा भरियाभावं गच्छन्तिया जनपदित्थिया एतं अधिवचनं.
पटेन वसतीति पटवासिनी. निवासनमत्तम्पि पावुरणमत्तम्पि लभित्वा भरियाभावं उपगच्छन्तिया दलिद्दित्थिया एतं अधिवचनं.
ओदपत्तकिनीति उभिन्नं एकिस्सा उदकपातिया हत्थे ओतारेत्वा ‘‘इदं उदकं विय संसट्ठा अभेज्जा होथा’’ति वत्वा परिग्गहिताय वोहारनाममेतं, निद्देसेपिस्स ‘‘ताय सह उदकपत्तं आमसित्वा तं वासेती’’ति एवमत्थो वेदितब्बो.
ओभटं ओरोपितं चुम्बटमस्साति ओभटचुम्बटा, कट्ठहारिकादीनं अञ्ञतरा, यस्सा सीसतो चुम्बटं ओरोपेत्वा घरे वासेति, तस्सा एतं अधिवचनं.
दासी चाति अत्तनोयेव दासी च होति भरिया च.
कम्मकारी नाम गेहे भतिया कम्मं करोति, ताय सद्धिं कोचि घरावासं कप्पेति अत्तनो भरियाय अनत्थिको हुत्वा. अयं वुच्चति ‘‘कम्मकारी च भरिया चा’’ति.
धजेन आहटा धजाहटा, उस्सितद्धजाय सेनाय गन्त्वा परविसयं विलुम्पित्वा आनीताति वुत्तं होति, तं कोचि भरियं करोति, अयं धजाहटा नाम. मुहुत्तिका वुत्तनयाएव, एतासं दसन्नम्पि पुरिसन्तरगमने मिच्छाचारो होति. पुरिसानं पन वीसतियापि एतासु मिच्छाचारो होति, भिक्खुनो च सञ्चरित्तं होतीति.
३०५. इदानि पुरिसो भिक्खुं पहिणतीतिआदीसु पटिग्गण्हातीति सो भिक्खु तस्स पुरिसस्स ‘‘गच्छ, भन्ते, इत्थन्नामं मातुरक्खितं ब्रूहि, होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति एवं वुत्तवचनं ‘‘साधु उपासका’’ति वा ‘‘होतू’’ति वा ‘‘आरोचेस्सामी’’ति वा येन केनचि आकारेन वचीभेदं कत्वा वा सीसकम्पनादीहि वा सम्पटिच्छति. वीमंसतीति एवं पटिग्गण्हित्वा तस्सा इत्थिया सन्तिकं गन्त्वा तं सासनं आरोचेति. पच्चाहरतीति तेन आरोचिते सा इत्थी ‘‘साधू’’ति सम्पटिच्छतु वा पटिक्खिपतु वा लज्जाय वा तुण्ही होतु, पुन आगन्त्वा तस्स पुरिसस्स तं पवत्तिं आरोचेति.
एत्तावता इमाय पटिग्गहणारोचनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होति. सा पन तस्स भरिया होतु वा मा वा, अकारणमेतं. सचे पन सो मातुरक्खिताय सन्तिकं पेसितो तं अदिस्वा तस्सा मातुया तं सासनं आरोचेति, बहिद्धा विमट्ठं नाम होति, तस्मा विसङ्केतन्ति महापदुमत्थेरो आह. महासुमत्थेरो पन माता वा होतु पिता वा अन्तमसो गेहदासीपि अञ्ञो वापि यो कोचि तं किरियं सम्पादेस्सति, तस्स वुत्तेपि विमट्ठं नाम न होति, तिवङ्गसम्पत्तिकाले आपत्तियेव.
ननु यथा ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो विरज्झित्वा ‘‘धम्मं पच्चक्खामी’’ति वदेय्य पच्चक्खातावस्स सिक्खा. यथा वा ‘‘पठमं झानं समापज्जामी’’ति वत्तुकामो विरज्झित्वा ‘‘दुतियं झानं समापज्जामी’’ति वदेय्य आपन्नोवस्स पाराजिकं. एवंसम्पदमिदन्ति आह. तं पनेतं ‘‘पटिग्गण्हाति, अन्तेवासिं वीमंसापेत्वा अत्तना पच्चाहरति, आपत्ति सङ्घादिसेसस्सा’’ति इमिना समेति, तस्मा सुभासितं.
यथा च ‘‘मातुरक्खितं ब्रूही’’ति वुत्तस्स गन्त्वा तस्सा आरोचेतुं समत्थानं मातादीनम्पि वदतो विसङ्केतो नत्थि, एवमेव ‘‘होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति वत्तब्बे ‘‘होहि किर इत्थन्नामस्स भरिया छन्दवासिनी’’ति एवं पाळियं वुत्तेसु छन्दवासिनिआदीसु वचनेसु अञ्ञतरवसेन वा अवुत्तेसुपि ‘‘होहि किर इत्थन्नामस्स भरिया जाया पजापति पुत्तमाता घरणी घरसामिनी भत्तरन्धिका सुस्सूसिका परिचारिका’’तिएवमादीसु संवासपरिदीपकेसु वचनेसु अञ्ञतरवसेन वा वदन्तस्सापि विसङ्केतो नत्थि तिवङ्गसम्पत्तिया आपत्तियेव. ‘‘मातुरक्खितं ब्रूही’’ति पेसितस्स पन गन्त्वा अञ्ञासु पितुरक्खितादीसु अञ्ञतरं वदन्तस्स विसङ्केतं. एस नयो ‘‘पितुरक्खितं ब्रूही’’तिआदीसुपि.
केवलञ्हेत्थ एकमूलकदुमूलकादिवसेन ‘‘पुरिसस्स माता भिक्खुं पहिणति, मातुरक्खिताय माता भिक्खुं पहिणती’’ति एवमादीनं मूलट्ठानञ्च वसेन पेय्यालभेदोयेव विसेसो. सोपि पुब्बे वुत्तनयत्ता पाळिअनुसारेनेव सक्का जानितुन्ति नास्स विभागं दस्सेतुं आदरं करिम्ह.
३३८. पटिग्गण्हातीतिआदीसु पन द्वीसु चतुक्केसु पठमचतुक्के आदिपदेन तिवङ्गसम्पत्तिया सङ्घादिसेसो, मज्झे द्वीहि दुवङ्गसम्पत्तिया थुल्लच्चयं, अन्ते एकेन एकङ्गसम्पत्तिया दुक्कटं. दुतियचतुक्के आदिपदेन दुवङ्गसम्पत्तिया थुल्लच्चयं, मज्झे द्वीहि एकङ्गसम्पत्तिया दुक्कटं, अन्ते एकेन अङ्गाभावतो अनापत्ति. तत्थ पटिग्गण्हातीति आणापकस्स सासनं पटिग्गण्हाति. वीमंसतीति पहितट्ठानं गन्त्वा तं आरोचेति. पच्चाहरतीति पुन आगन्त्वा मूलट्ठस्स आरोचेति.
न पच्चाहरतीति आरोचेत्वा एत्तोव पक्कमति. पटिग्गण्हाति न वीमंसतीति पुरिसेन ‘‘इत्थन्नामं गन्त्वा ब्रूही’’ति वुच्चमानो ‘‘साधू’’ति तस्स सासनं पटिग्गण्हित्वा तं पमुस्सित्वा वा अप्पमुस्सित्वा वा अञ्ञेन करणीयेन तस्सा सन्तिकं गन्त्वा किञ्चिदेव कथं कथेन्तो निसीदति, एत्तावता ‘‘पटिग्गण्हाति न वीमंसति नामा’’ति वुच्चति. अथ नं सा इत्थी सयमेव वदति ‘‘तुम्हाकं किर उपट्ठाको मं गेहे कातुकामो’’ति एवं वत्वा च ‘‘अहं तस्स भरिया भविस्सामी’’ति वा ‘‘न भविस्सामी’’ति वा वदति. सो तस्सा वचनं अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्हीभूतोव उट्ठायासना तस्स पुरिसस्स सन्तिकं आगन्त्वा तं पवत्तिं आरोचेति, एत्तावता ‘‘न वीमंसति पच्चाहरति नामा’’ति वुच्चति. न वीमंसति न पच्चाहरतीति केवलं सासनारोचनकाले पटिग्गण्हातियेव, इतरं पन द्वयं न करोति.
न पटिग्गण्हाति वीमंसति पच्चाहरतीति कोचि पुरिसो भिक्खुस्स ठितट्ठाने वा निसिन्नट्ठाने वा तथारूपिं कथं कथेति, भिक्खु तेन अप्पहितोपि पहितो विय हुत्वा इत्थिया सन्तिकं गन्त्वा ‘‘होहि किर इत्थन्नामस्स भरिया’’तिआदिना नयेन वीमंसित्वा तस्सा रुचिं वा अरुचिं वा पुन आगन्त्वा इमस्स आरोचेति. तेनेव नयेन वीमंसित्वा अपच्चाहरन्तो ‘‘न पटिग्गण्हाति वीमंसति न पच्चाहरती’’ति वुच्चति. तेनेव नयेन गतो अवीमंसित्वा ताय समुट्ठापितं कथं सुत्वा पठमचतुक्कस्स ततियपदे वुत्तनयेन आगन्त्वा इमस्स आरोचेन्तो ‘‘न पटिग्गण्हाति न वीमंसति पच्चाहरती’’ति वुच्चति. चतुत्थपदं पाकटमेव.
सम्बहुले भिक्खू आणापेतीतिआदिनया पाकटायेव. यथा पन सम्बहुलापि एकवत्थुम्हि आपज्जन्ति, एवं एकस्सपि सम्बहुलवत्थूसु सम्बहुला आपत्तियो वेदितब्बा. कथं? पुरिसो भिक्खुं आणापेति ‘‘गच्छ, भन्ते, असुकस्मिं नाम पासादे सट्ठिमत्ता वा सत्ततिमत्ता वा इत्थियो ठिता ता वदेहि, होथ किर इत्थन्नामस्स भरियायो’’ति. सो सम्पटिच्छित्वा तत्थ गन्त्वा आरोचेत्वा पुन तं सासनं पच्चाहरति. यत्तका इत्थियो तत्तका आपत्तियो आपज्जति. वुत्तञ्हेतं परिवारेपि –
‘‘पदवीतिहारमत्तेन, वाचाय भणितेन च;
सब्बानि गरुकानि सप्पटिकम्मानि;
चतुसट्ठि आपत्तियो आपज्जेय्य एकतो;
पञ्हामेसा कुसलेहि चिन्तिता’’ति. (परि. ४८०);
इमं किर अत्थवसं पटिच्च अयं पञ्हो वुत्तो. वचनसिलिट्ठताय चेत्थ ‘‘चतुसट्ठि आपत्तियो’’ति वुत्तं. एवं करोन्तो पन सतम्पि सहस्सम्पि आपज्जतीति. यथा च एकेन पेसितस्स एकस्स सम्बहुलासु इत्थीसु सम्बहुला आपत्तियो, एवं एको पुरिसो सम्बहुले भिक्खू एकिस्सा सन्तिकं पेसेति, सब्बेसं सङ्घादिसेसो. एको सम्बहुले भिक्खू सम्बहुलानं इत्थीनं सन्तिकं पेसेति, इत्थिगणनाय सङ्घादिसेसा. सम्बहुला पुरिसा एकं भिक्खुं एकिस्सा सन्तिकं पेसेन्ति, पुरिसगणनाय सङ्घादिसेसा. सम्बहुला एकं सम्बहुलानं इत्थीनं सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा. सम्बहुला सम्बहुले एकिस्सा सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा. सम्बहुला पुरिसा सम्बहुले भिक्खू सम्बहुलानं इत्थीनं सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा. एस नयो ‘‘एका इत्थी एकं भिक्खु’’न्तिआदीसुपि. एत्थ च सभागविभागता नाम अप्पमाणं, मातापितुनम्पि पञ्चसहधम्मिकानम्पि सञ्चरित्तकम्मं करोन्तस्स आपत्तियेव.
पुरिसो भिक्खुं आणापेति गच्छ भन्तेति चतुक्कं अङ्गवसेन आपत्तिभेद दस्सनत्थं वुत्तं. तस्स पच्छिमपदे अन्तेवासी वीमंसित्वा बहिद्धा पच्चाहरतीति आगन्त्वा आचरियस्स अनारोचेत्वा एत्तोव गन्त्वा तस्स पुरिसस्स आरोचेति. आपत्ति उभिन्नं थुल्लच्चयस्साति आचरियस्स पटिग्गहितत्ता च वीमंसापितत्ता च द्वीहङ्गेहि थुल्लच्चयं, अन्तेवासिकस्स वीमंसितत्ता च पच्चाहटत्ता च द्वीहङ्गेहि थुल्लच्चयं. सेसं पाकटमेव.
३३९. गच्छन्तो सम्पादेतीति पटिग्गण्हाति चेव वीमंसति च. आगच्छन्तो विसंवादेतीति न पच्चाहरति. गच्छन्तो विसंवादेतीति न पटिग्गण्हाति. आगच्छन्तो सम्पादेतीति वीमंसति चेव पच्चाहरति च. एवं उभयत्थ द्वीहङ्गेहि थुल्लच्चयं. ततियपदे आपत्ति, चतुत्थे अनापत्ति.
३४०. अनापत्ति सङ्घस्स वा चेतियस्स वा गिलानस्स वा करणीयेन गच्छति उम्मत्तकस्स आदिकम्मिकस्साति एत्थ भिक्खुसङ्घस्स उपोसथागारं वा किञ्चि वा विप्पकतं होति. तत्थ कारुकानं भत्तवेतनत्थाय उपासको वा उपासिकाय सन्तिकं भिक्खुं पहिणेय्य, उंपासिका वा उपासकस्स, एवरूपेन सङ्घस्स करणीयेन गच्छन्तस्स अनापत्ति. चेतियकम्मे कयिरमानेपि एसेव नयो. गिलानस्स भेसज्जत्थायपि उपासकेन वा उपासिकाय सन्तिकं उपासिकाय वा उपासकस्स सन्तिकं पहितस्स गच्छतो अनापत्ति. उम्मत्तकआदिकम्मिका वुत्तनया एव.
पदभाजनीयवण्णना निट्ठिता.
समुट्ठानादीसु इदं सिक्खापदं छसमुट्ठानं, सीसुक्खिपनादिना कायविकारेन सासनं गहेत्वा गन्त्वा हत्थमुद्दाय वीमंसित्वा पुन आगन्त्वा हत्थमुद्दाय एव आरोचेन्तस्स कायतो समुट्ठाति. आसनसालाय निसिन्नस्स ‘‘इत्थन्नामा आगमिस्सति, तस्सा चित्तं जानेय्याथा’’ति केनचि वुत्ते ‘‘साधू’’ति सम्पटिच्छित्वा तं आगतं वत्वा तस्सा गताय पुन तस्मिं पुरिसे आगते आरोचेन्तस्स वाचतो समुट्ठाति. वाचाय ‘‘साधू’’ति सासनं गहेत्वा अञ्ञेन करणीयेन तस्सा घरं गन्त्वा अञ्ञत्थ वा गमनकाले तं दिस्वा वचीभेदेनेव वीमंसित्वा पुन अञ्ञेनेव करणीयेन ततो अपक्कम्म कदाचिदेव तं पुरिसं दिस्वा आरोचेन्तस्सापि वाचतोव समुट्ठाति. पण्णत्तिं अजानन्तस्स पन खीणासवस्सापि कायवाचतो समुट्ठाति. कथं? सचे हिस्स मातापितरो कुज्झित्वा अलंवचनीया होन्ति, तञ्च भिक्खुं घरं उपगतं थेरपिता वदति ‘‘माता ते तात मं महल्लकं छड्डेत्वा ञातिकुलं गता, गच्छ तं मं उपट्ठातुं पेसेही’’ति. सो चे गन्त्वा तं वत्वा पुन पितुनो तस्सा आगमनं वा अनागमनं वा आरोचेति, सङ्घादिसेसो. इमानि तीणि अचित्तकसमुट्ठानानि.
पण्णत्तिं पन जानित्वा एतेहेव तीहि नयेहि सञ्चरित्तं समापज्जतो कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति. इमानि तीणि पण्णत्तिजाननचित्तेन सचित्तकसमुट्ठानानि. किरियं, नोसञ्ञाविमोक्खं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, कुसलादिवसेन चेत्थ तीणि चित्तानि, सुखादिवसेन तिस्सो वेदनाति.
३४१. विनीतवत्थूसु आदितो वत्थुपञ्चके पटिग्गहितमत्तत्ता दुक्कटं.
कलहवत्थुस्मिं सम्मोदनीयं अकासीति तं सञ्ञापेत्वा पुन गेहगमनीयं
अकासि. नालंवचनीयाति न परिच्चत्ताति अत्थो. या हि यथा यथा येसु येसु जनपदेसु परिच्चत्ता परिच्चत्ताव होति, भरियाभावं अतिक्कमति, अयं ‘‘अलंवचनीया’’ति वुच्चति. एसा पन न अलंवचनीया केनचिदेव कारणेन कलहं कत्वा गता, तेनेवेत्थ भगवा ‘‘अनापत्ती’’ति आह. यस्मा पन कायसंसग्गे यक्खिया थुल्लच्चयं वुत्तं, तस्मा दुट्ठुल्लादीसुपि यक्खिपेतियो थुल्लच्चयवत्थुमेवाति वेदितब्बा. अट्ठकथासु पनेतं न विचारितं. सेसं सब्बत्थ उत्तानत्थमेवाति.
सञ्चरित्तसिक्खापदवण्णना निट्ठिता.