६. कुटिकारसिक्खापदवण्णना
३४२. तेन समयेनाति कुटिकारसिक्खापदं. तत्थ आळवकाति आळविरट्ठे जाता दारका आळवका नाम, ते पब्बजितकालेपि ‘‘आळवका’’त्वेव पञ्ञायिंसु. ते सन्धाय वुत्तं ‘‘आळवका भिक्खू’’ति. सञ्ञाचिकायोति सयं याचित्वा गहितूपकरणायो. कारापेन्तीति करोन्तिपि कारापेन्तिपि, ते किर सासने विपस्सनाधुरञ्च गन्थधुरञ्चाति द्वेपि धुरानि छड्डेत्वा नवकम्ममेव धुरं कत्वा पग्गण्हिंसु. अस्सामिकायोति अनिस्सरायो, कारेता दायकेन विरहितायोति अत्थो. अत्तुद्देसिकायोति अत्तानं उद्दिस्स अत्तनो अत्थाय आरद्धायोति अत्थो. अप्पमाणिकायोति ‘‘एत्तकेन निट्ठं गच्छिस्सन्ती’’ति एवं अपरिच्छिन्नप्पमाणायो, वुद्धिप्पमाणायो वा महन्तप्पमाणायोति अत्थो.
याचना एव बहुला एतेसं मन्दं अञ्ञं कम्मन्ति याचनबहुला. एवं विञ्ञत्तिबहुला वेदितब्बा. अत्थतो पनेत्थ नानाकरणं नत्थि, अनेकक्खत्तुं ‘‘पुरिसं देथ, पुरिसत्थकरं देथा’’ति याचन्तानमेतं अधिवचनं. तत्थ मूलच्छेज्जाय पुरिसं याचितुं न वट्टति, सहायत्थाय कम्मकरणत्थाय ‘‘पुरिसं देथा’’ति याचितुं वट्टति. पुरिसत्थकरन्ति पुरिसेन कातब्बं हत्थकम्मं वुच्चति, तं याचितुं वट्टति. हत्थकम्मं नाम किञ्चि वत्थु न होति, तस्मा ठपेत्वा मिगलुद्दकमच्छबन्धकादीनं सककम्मं अवसेसं सब्बं कप्पियं. ‘‘किं, भन्ते, आगतत्थ केन कम्म’’न्ति पुच्छिते वा अपुच्छिते वा याचितुं वट्टति, विञ्ञत्तिपच्चया दोसो नत्थि. तस्मा मिगलुद्दकादयो सककम्मं न याचितब्बा, ‘‘हत्थकम्मं देथा’’ति अनियमेत्वापि न याचितब्बा; एवं याचिता हि ते ‘‘साधु, भन्ते’’ति भिक्खू उय्योजेत्वा मिगेपि मारेत्वा आहरेय्युं. नियमेत्वा पन ‘‘विहारे किञ्चि कत्तब्बं अत्थि, तत्थ हत्थकम्मं देथा’’ति याचितब्बा. फालनङ्गलादीनि उपकरणानि गहेत्वा कसितुं वा वपितुं वा लायितुं वा गच्छन्तं सकिच्चपसुतम्पि कस्सकं वा अञ्ञं वा किञ्चि हत्थकम्मं याचितुं वट्टतेव. यो पन विघासादो वा अञ्ञो वा कोचि निक्कम्मो निरत्थककथं कथेन्तो निद्दायन्तो वा विहरति, एवरूपं अयाचित्वापि ‘‘एहि रे इदं वा इदं वा करोही’’ति यदिच्छकं कारापेतुं वट्टति.
हत्थकम्मस्स पन सब्बकप्पियभावदीपनत्थं इमं नयं कथेन्ति. सचे हि भिक्खु पासादं कारेतुकामो होति, थम्भत्थाय पासाणकोट्टकानं घरं गन्त्वा वत्तब्बं ‘‘हत्थकम्मं लद्धुं वट्टति उपासका’’ति. किं कातब्बं, भन्ते,ति? पासाणत्थम्भा उद्धरित्वा दातब्बाति. सचे ते उद्धरित्वा वा देन्ति, उद्धरित्वा निक्खित्ते अत्तनो थम्भे वा देन्ति, वट्टति. अथापि वदन्ति – ‘‘अम्हाकं, भन्ते, हत्थकम्मं कातुं खणो नत्थि, अञ्ञं उद्धरापेथ, तस्स मूलं दस्सामा’’ति उद्धरापेत्वा ‘‘पासाणत्थम्भे उद्धटमनुस्सानं मूलं देथा’’ति वत्तुं वट्टति. एतेनेवुपायेन पासाददारूनं अत्थाय वड्ढकीनं सन्तिकं इट्ठकत्थाय इट्ठकवड्ढकीनं छदनत्थाय गेहच्छादकानं चित्तकम्मत्थाय चित्तकारानन्ति येन येन अत्थो होति, तस्स तस्स अत्थाय तेसं तेसं सिप्पकारकानं सन्तिकं गन्त्वा हत्थकम्मं याचितुं वट्टति. हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतुं वट्टति. अरञ्ञतो आहरापेन्तेन च सब्बं अनज्झावुत्थकं आहरापेतब्बं.
न केवलञ्च पासादं कारेतुकामेन मञ्चपीठपत्तपरिस्सावनधमकरकचीवरादीनि कारापेतुकामेनापि दारुलोहसुत्तादीनि लभित्वा ते ते सिप्पकारके उपसङ्कमित्वा वुत्तनयेनेव हत्थकम्मं याचितब्बं. हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतब्बं. सचे पन कातुं न इच्छन्ति, भत्तवेतनं पच्चासीसन्ति, अकप्पियकहापणादि न दातब्बं. भिक्खाचारवत्तेन तण्डुलादीनि परियेसित्वा दातुं वट्टति.
हत्थकम्मवसेन पत्तं कारेत्वा तथेव पाचेत्वा नवपक्कस्स पत्तस्स पुञ्छनतेलत्थाय अन्तोगामं पविट्ठेन ‘‘भिक्खाय आगतो’’ति सल्लक्खेत्वा यागुया वा भत्ते वा आनीते हत्थेन पत्तो पिधातब्बो. सचे उपासिका ‘‘किं, भन्ते’’ति पुच्छति, ‘‘नवपक्को पत्तो पुञ्छनतेलेन अत्थो’’ति वत्तब्बं. सचे सा ‘‘देहि, भन्ते’’ति पत्तं गहेत्वा तेलेन पुञ्छित्वा यागुया वा भत्तस्स वा पूरेत्वा देति, विञ्ञत्ति नाम न होति, गहेतुं वट्टतीति.
भिक्खू पगेव पिण्डाय चरित्वा आसनसालं गन्त्वा आसनं अपस्सन्ता तिट्ठन्ति. तत्र चे उपासका भिक्खू ठिते दिस्वा सयमेव आसनानि आहरापेन्ति, निसीदित्वा गच्छन्तेहि आपुच्छित्वा गन्तब्बं. अनापुच्छा गतानम्पि नट्ठं गीवा न होति, आपुच्छित्वा गमनं पन वत्तं. सचे भिक्खूहि ‘‘आसनानि आहरथा’’ति वुत्तेहि आहटानि होन्ति, आपुच्छित्वाव गन्तब्बं. अनापुच्छा गतानं वत्तभेदो च नट्ठञ्च गीवाति. अत्थरणकोजवादीसुपि एसेव नयो.
मक्खिकायो बहुका होन्ति, ‘‘मक्खिकाबीजनिं आहरथा’’ति वत्तब्बं. पुचिमन्दसाखादीनि आहरन्ति, कप्पियं कारापेत्वा पटिग्गहेतब्बानि. आसनसालाय उदकभाजनं रित्तं होति, ‘‘धमकरणं गण्हा’’ति न वत्तब्बं. धमकरकञ्हि रित्तभाजने पक्खिपन्तो भिन्देय्य ‘‘नदिं वा तळाकं वा गन्त्वा पन उदकं आहरा’’ति वत्तुं वट्टति. ‘‘गेहतो आहरा’’ति नेव वत्तुं वट्टति, न आहटं परिभुञ्जितब्बं. आसनसालायं वा अरञ्ञके वा भत्तकिच्चं करोन्तेहि तत्थजातकं अनज्झावुत्थकं यंकिञ्चि उत्तरिभङ्गारहं पत्तं वा फलं वा सचे किञ्चि कम्मं करोन्तं आहरापेति, हत्थकम्मवसेन आहरापेत्वा परिभुञ्जितुं वट्टति. अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्बं. अयं ताव पुरिसत्थकरे नयो.
गोणं पन अञ्ञातकअप्पवारितट्ठानतो आहरापेतुं न वट्टति, आहरापेन्तस्स दुक्कटं. ञातिपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टति, तावकालिकनयेन सब्बत्थ वट्टति. एवं आहरापितञ्च गोणं रक्खित्वा जग्गित्वा सामिका पटिच्छापेतब्बा. सचस्स पादो वा सिङ्गं वा भिज्जति वा नस्सति वा सामिका चे सम्पटिच्छन्ति, इच्चेतं कुसलं. नो चे सम्पटिच्छन्ति, गीवा होति. सचे ‘‘तुम्हाकंयेव देमा’’ति वदन्ति न सम्पटिच्छितब्बं. ‘‘विहारस्स देमा’’ति वुत्ते पन ‘‘आरामिकानं आचिक्खथ जग्गनत्थाया’’ति वत्तब्बं.
‘‘सकटं देथा’’तिपि अञ्ञातकअप्पवारिते वत्तुं न वट्टति, विञ्ञत्तिएव होति दुक्कटं आपज्जति. ञातिपवारितट्ठाने पन वट्टति, तावकालिकं वट्टति कम्मं कत्वा पुन दातब्बं. सचे नेमियादीनि भिज्जन्ति पाकतिकानि कत्वा दातब्बं. नट्ठे गीवा होति. ‘‘तुम्हाकमेव देमा’’ति वुत्ते दारुभण्डं नाम सम्पटिच्छितुं वट्टति. एस नयो वासिफरसुकुठारीकुदालनिखादनेसु. वल्लिआदीसु च परपरिग्गहितेसु. गरुभण्डप्पहोनकेसुयेव च वल्लिआदीसु विञ्ञत्ति होति, न ततो ओरं.
अनज्झावुत्थकं पन यंकिञ्चि आहरापेतुं वट्टति. रक्खितगोपितट्ठानेयेव हि विञ्ञत्ति नाम वुच्चति. सा द्वीसु पच्चयेसु सब्बेन सब्बं न वट्टति, सेनासनपच्चये पन ‘‘आहर देही’’ति विञ्ञत्तिमत्तमेव न वट्टति, परिकथोभासनिमित्तकम्मानि वट्टन्ति. तत्थ उपोसथागारं वा भोजनसालं वा अञ्ञं वा यंकिञ्चि सेनासनं इच्छतो ‘‘इमस्मिं वत ओकासे एवरूपं सेनासनं कातुं वट्टती’’ति वा ‘‘युत्त’’न्ति वा ‘‘अनुरूप’’न्ति वातिआदिना नयेन वचनं परिकथा नाम. ‘‘उपासका तुम्हे कुहिं वसथा’’ति? ‘‘पासादे, भन्ते’’ति. ‘‘किं भिक्खूनं पन उपासका पासादो न वट्टती’’ति एवमादिवचनं ओभासो नाम. मनुस्से दिस्वा रज्जुं पसारेति, खीले आकोटापेति. ‘‘किं इदं, भन्ते’’ति वुत्ते ‘‘इध आवासं करिस्सामा’’ति एवमादिकरणं पन निमित्तकम्मं नाम. गिलानपच्चये पन विञ्ञत्तिपि वट्टति, पगेव परिकथादीनि.
मनुस्सा उपद्दुता याचनाय उपद्दुता विञ्ञत्तियाति तेसं भिक्खूनं ताय याचनाय च विञ्ञत्तिया च पीळिता. उब्बिज्जन्तिपीति ‘‘किं नु आहरापेस्सन्ती’’ति उब्बेगं इञ्जनं चलनं पटिलभन्ति. उत्तसन्तिपीति अहिं विय दिस्वा सहसा तसित्वा उक्कमन्ति. पलायन्तिपीति दूरतोव येन वा तेन वा पलायन्ति. अञ्ञेनपि गच्छन्तीति यं मग्गं पटिपन्ना तं पहाय निवत्तित्वा वामं वा दक्खिणं वा गहेत्वा गच्छन्ति, द्वारम्पि थकेन्ति.
३४४. भूतपुब्बं भिक्खवेति इति भगवा ते भिक्खू गरहित्वा तदनुरूपञ्च धम्मिं कथं कत्वा पुनपि विञ्ञत्तिया दोसं पाकटं कुरुमानो इमिना ‘‘भूतपुब्बं भिक्खवे’’तिआदिना नयेन तीणि वत्थूनि दस्सेसि. तत्थ मणिकण्ठोति सो किर नागराजा सब्बकामददं महग्घं मणिं कण्ठे पिलन्धित्वा चरति, तस्मा ‘‘मणिकण्ठो’’ त्वेव पञ्ञायित्थ. उपरिमुद्धनि महन्तं फणं करित्वा अट्ठासीति सो किर तेसं द्विन्नं इसीनं कनिट्ठो इसि मेत्ताविहारी अहोसि, तस्मा नागराजा नदितो उत्तरित्वा देववण्णं निम्मिनित्वा तस्स सन्तिके निसीदित्वा सम्मोदनीयं कथं कत्वा तं देववण्णं पहाय सकवण्णमेव उपगन्त्वा तं इसिं परिक्खिपित्वा पसन्नाकारं करोन्तो उपरिमुद्धनि महन्तं फणं करित्वा छत्तं विय धारयमानो मुहुत्तं ठत्वा पक्कमति, तेन वुत्तं ‘‘उपरिमुद्धनि महन्तं फणं करित्वा अट्ठासी’’ति. मणिमस्स कण्ठे पिलन्धनन्ति मणिं अस्स कण्ठे पिलन्धितं, आमुक्कन्ति अत्थो. एकमन्तं अट्ठासीति तेन देववण्णेन आगन्त्वा तापसेन सद्धिं सम्मोदमानो एकस्मिं पदेसे अट्ठासि.
ममन्नपानन्ति मम अन्नञ्च पानञ्च. विपुलन्ति बहुलं. उळारन्ति पणीतं. अतियाचकोसीति अतिविय याचको, असि पुनप्पुनं याचसीति वुत्तं होति. सुसूति तरुणो, थामसम्पन्नो योब्बनप्पत्तपुरिसो. सक्खरा वुच्चति काळसिला, तत्थ धोतो असि ‘‘सक्खरधोतो नामा’’ति वुच्चति, सक्खरधोतो पाणिम्हि अस्साति सक्खरधोतपाणि, पासाणे धोतनिसितखग्गहत्थोति अत्थो. यथा सो असिहत्थो पुरिसो तासेय्य, एवं तासेसि मं सेलं याचमानो, मणिं याचन्तोति अत्थो.
न तं याचेति तं न याचेय्य. कतरं? यस्स पियं जिगीसेति यं अस्स सत्तस्स पियन्ति जानेय्य.
किमङ्गं पन मनुस्सभूतानन्ति मनुस्सभूतानं अमनापाति किमेवेत्थ वत्तब्बं.
३४५. सकुणसङ्घस्स सद्देन उब्बाळ्होति सो किर सकुणसङ्घो पठमयामञ्च पच्छिमयामञ्च निरन्तरं सद्दमेव करोति, सो भिक्खु तेन सद्देन पीळितो हुत्वा भगवतो सन्तिकं अगमासि. तेनाह – ‘‘येनाहं तेनुपसङ्कमी’’ति.
कुतो च त्वं भिक्खु आगच्छसीति एत्थ निसिन्नो सो भिक्खु न आगच्छति वत्तमानसमीपे पन एवं वत्तुं लब्भति. तेनाह – ‘‘कुतो च त्वं भिक्खु आगच्छसी’’ति, कुतो आगतोसीति अत्थो. ततो अहं भगवा आगच्छामीति एत्थापि सो एव नयो. उब्बाळ्होति पीळितो, उक्कण्ठापितो हुत्वाति अत्थो.
सो सकुणसङ्घो ‘‘भिक्खु पत्तं याचती’’ति एत्थ न ते सकुणा भिक्खुनो वचनं जानन्ति, भगवा पन अत्तनो आनुभावेन यथा जानन्ति तथा अकासि.
३४६. अपाहं ते न जानामीति अपि अहं ते जने ‘‘के वा इमे, कस्स वा इमे’’ति न जानामि. सङ्गम्म याचन्तीति समागन्त्वा वग्गवग्गा हुत्वा याचन्ति. याचको अप्पियो होतीति यो याचति सो अप्पियो होति. याचं अददमप्पियोति याचन्ति याचितं वुच्चति, याचितमत्थं अददन्तोपि अप्पियो होति. अथ वा याचन्ति याचन्तस्स, अददमप्पियोति अदेन्तो अप्पियो होति. मा मे विदेस्सना अहूति मा मे अप्पियभावो अहु, अहं वा तव, त्वं वा मम विदेस्सो अप्पियो मा अहोसीति अत्थो.
३४७. दुस्संहरानीति कसिगोरक्खादीहि उपायेहि दुक्खेन संहरणीयानि.
३४८-९. सञ्ञाचिकाय पन भिक्खुनाति एत्थ सञ्ञाचिका नाम सयं पवत्तितयाचना वुच्चति, तस्मा ‘‘सञ्ञाचिकाया’’ति अत्तनो याचनायाति वुत्तं होति, सयं याचितकेहि उपकरणेहीति अत्थो. यस्मा पन सा सयंयाचितकेहि कयिरमाना सयं याचित्वा कयिरमाना होति, तस्मा तं अत्थपरियायं दस्सेतुं ‘‘सयं याचित्वा पुरिसम्पी’’ति एवमस्स पदभाजनं वुत्तं.
उल्लित्ताति अन्तोलित्ता. अवलित्ताति बहिलित्ता. उल्लित्तावलित्ताति अन्तरबाहिरलित्ताति वुत्तं होति.
कारयमानेनाति इमस्स पदभाजने ‘‘कारापेन्तेना’’ति एत्तकमेव वत्तब्बं सिया, एवञ्हि ब्यञ्जनं समेति. यस्मा पन सञ्ञाचिकाय कुटिं करोन्तेनापि इध वुत्तनयेनेव पटिपज्जितब्बं, तस्मा करोन्तो वा होतु कारापेन्तो वा उभोपेते ‘‘कारयमानेना’’ति इमिनाव पदेन सङ्गहिताति एतमत्थं दस्सेतुं ‘‘करोन्तो वा कारापेन्तो वा’’ति वुत्तं. यदि पन करोन्तेन वा कारापेन्तेन वाति वदेय्य, ब्यञ्जनं विलोमितं भवेय्य, न हि कारापेन्तो करोन्तो नाम होति, तस्मा अत्थमत्तमेवेत्थ दस्सितन्ति वेदितब्बं.
अत्तुद्देसन्ति ‘‘मय्हं एसा’’ति एवं अत्ता उद्देसो अस्साति अत्तुद्देसा, तं अत्तुद्देसं. यस्मा पन यस्सा अत्ता उद्देसो सा अत्तनो अत्थाय होति, तस्मा अत्थपरियायं दस्सेन्तो ‘‘अत्तुद्देसन्ति अत्तनो अत्थाया’’ति आह. पमाणिका कारेतब्बाति पमाणयुत्ता कारेतब्बा. तत्रिदं पमाणन्ति तस्सा कुटिया इदं पमाणं. सुगतविदत्थियाति सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो वड्ढकीहत्थेन दियड्ढो हत्थो होति. बाहिरिमेन मानेनाति कुटिया बहिकुट्टमानेन द्वादस विदत्थियो, मिनन्तेन पन सब्बपठमं दिन्नो महामत्तिकपरियन्तो न गहेतब्बो. थुसपिण्डपरियन्तेन मिनितब्बं. थुसपिण्डस्सउपरि सेतकम्मं अब्बोहारिकं. सचे थुसपिण्डेन अनत्थिको महामत्तिकाय एव निट्ठापेति, महामत्तिकाव परिच्छेदो.
तिरियन्ति वित्थारतो. सत्ताति सत्त सुगतविदत्थियो. अन्तराति इमस्स पन अयं निद्देसो, ‘‘अब्भन्तरिमेन मानेना’’ति, कुट्टस्स बहि अन्तं अग्गहेत्वा अब्भन्तरिमेन अन्तेन मिनियमाने तिरियं सत्त सुगतविदत्थियो पमाणन्ति वुत्तं होति.
यो पन लेसं ओड्डेन्तो यथावुत्तप्पमाणमेव करिस्सामीति दीघतो एकादस विदत्थियो तिरियं अट्ठ विदत्थियो, दीघतो वा तेरस विदत्थियो तिरियं छ विदत्थियो करेय्य, न वट्टति. एकतोभागेन अतिक्कन्तम्पि हि पमाणं अतिक्कन्तमेव होति. तिट्ठतु विदत्थि, केसग्गमत्तम्पि दीघतो वा हापेत्वा तिरियं तिरियतो वा हापेत्वा दीघं वड्ढेतुं न वट्टति, को पन वादो उभतो वड्ढने? वुत्तञ्हेतं – ‘‘आयामतो वा वित्थारतो वा अन्तमसो केसग्गमत्तम्पि अतिक्कमित्वा करोति वा कारापेति वा पयोगे दुक्कट’’न्तिआदि (पारा. ३५३). यथावुत्तप्पमाणा एव पन वट्टति. या पन दीघतो सट्ठिहत्थापि होति तिरियं तिहत्था वा ऊनकचतुहत्था वा यत्थ पमाणयुत्तो मञ्चो इतो चितो च न परिवत्तति, अयं कुटीति सङ्ख्यं न गच्छति, तस्मा अयम्पि वट्टति. महापच्चरियं पन पच्छिमकोटिया चतुहत्थवित्थारा वुत्ता, ततो हेट्ठा अकुटि. पमाणिकापि पन अदेसितवत्थुका वा सारम्भा वा अपरिक्कमना वा न वट्टति. पमाणिका देसितवत्थुका अनारम्भा सपरिक्कमनाव वट्टति. पमाणतो ऊनतरम्पि चतुहत्थं पञ्चहत्थम्पि करोन्तेन देसितवत्थुकाव कारेतब्बा. पमाणातिक्कन्तञ्च पन करोन्तो लेपपरियोसाने गरुकं आपत्तिं आपज्जति.
तत्थ लेपो च अलेपो च लेपोकासो च अलेपोकासो च वेदितब्बो. सेय्यथिदं – लेपोति द्वे लेपा – मत्तिकालेपो च सुधालेपो च. ठपेत्वा पन इमे द्वे लेपे अवसेसो भस्मगोमयादिभेदो लेपो, अलेपो. सचेपि कलललेपो होति, अलपो एव. लेपोकासोति भित्तियो चेव छदनञ्च, ठपेत्वा पन भित्तिच्छदने अवसेसो थम्भतुलापिट्ठसङ्घाटवातपानधूमच्छिद्दादि अलेपारहो ओकासो सब्बोपि अलेपोकासोति वेदितब्बो.
भिक्खू अभिनेतब्बा वत्थुदेसनायाति यस्मिं ठाने कुटिं कारेतुकामो होति, तत्थ वत्थुदेसनत्थाय भिक्खू नेतब्बा. तेन कुटिकारकेनातिआदि पन येन विधिना ते भिक्खू अभिनेतब्बा, तस्स दस्सनत्थं वुत्तं. तत्थ कुटिवत्थुं सोधेत्वाति न विसमं अरञ्ञं भिक्खू गहेत्वा गन्तब्बं, कुटिवत्थुं पन पठममेव सोधेत्वा समतलं सीममण्डलसदिसं कत्वा पच्छा सङ्घं उपसङ्कमित्वा याचित्वा नेतब्बाति दस्सेति. एवमस्स वचनीयोति सङ्घो एवं वत्तब्बो अस्स. परतो पन ‘‘दुतियम्पि याचितब्बा’’ति भिक्खू सन्धाय बहुवचनं वुत्तं. नो चे सब्बो सङ्घो उस्सहतीति सचे सब्बो सङ्घो न इच्छति, सज्झायमनसिकारादीसु उय्युत्ता ते ते भिक्खू होन्ति. सारम्भं अनारम्भन्ति सउपद्दवं अनुपद्दवं. सपरिक्कमनं अपरिक्कमनन्ति सउपचारं अनुपचारं.
पत्तकल्लन्ति पत्तो कालो इमस्स ओलोकनस्साति पत्तकालं, पत्तकालमेव पत्तकल्लं. इदञ्च वत्थुंओलोकनत्थाय सम्मुतिकम्मं अनुसावनानयेन ओलोकेत्वापि कातुं वट्टति. परतो पन वत्थुदेसनाकम्मं यथावुत्ताय एव ञत्तिया च अनुसावनाय च कातब्बं, ओलोकेत्वा कातुं न वट्टति.
३५३. किपिल्लिकानन्ति रत्तकाळपिङ्गलादिभेदानं यासं कासञ्चि किपिल्लिकानं. किपील्लकानन्तिपि पाठो. आसयोति निबद्धवसनट्ठानं, यथा च किपिल्लिकानं एवं उपचिकादीनम्पि निबद्धवसनट्ठानंयेव आसयो वेदितब्बो. यत्थ पन ते गोचरत्थाय आगन्त्वा गच्छन्ति, सब्बेसम्पि तादिसो सञ्चरणप्पदेसो अवारितो, तस्मा तत्थ अपनेत्वा सोधेत्वा कातुं वट्टति. इमानि ताव छ ठानानिसत्तानुद्दयाय पटिक्खित्तानि.
हत्थीनं वाति हत्थीनं पन निबद्धवसनट्ठानम्पि निबद्धगोचरट्ठानम्पि न वट्टति, सीहादीनं आसयो च गोचराय पक्कमन्तानं निबद्धगमनमग्गो च न वट्टति. एतेसं गोचरभूमि न गहिता. येसं केसञ्चीति अञ्ञेसम्पि वाळानं तिरच्छानगतानं. इमानि सत्त ठानानि सप्पटिभयानि भिक्खूनं आरोग्यत्थाय पटिक्खित्तानि. सेसानि नानाउपद्दवेहि सउपद्दवानि. तत्थ पुब्बण्णनिस्सितन्ति पुब्बण्णं निस्सितं सत्तन्नं धञ्ञानं विरुहनकखेत्तसामन्ता ठितं. एसेव नयो अपरण्णनिस्सितादीसुपि. एत्थ पन अब्भाघातन्ति कारणाघरं वेरिघरं, चोरानं मारणत्थाय कतन्ति कुरुन्दिआदीसु.
आघातनन्ति धम्मगन्धिका वुच्चति. सुसानन्ति महासुसानं. संसरणन्ति अनिब्बिज्झगमनीयो गतपच्चागतमग्गो वुच्चति. सेसं उत्तानमेव.
न सक्का होति यथायुत्तेन सकटेनाति द्वीहि बलिबद्देहि युत्तेन सकटेन एकं चक्कं निब्बोदकपतनट्ठाने एकं बहि कत्वा आविज्जितुं न सक्का होति. कुरुन्दियं पन ‘‘चतूहि युत्तेना’’ति वुत्तं. समन्ता निस्सेणिया अनुपरिगन्तुन्ति निस्सेणियं ठत्वा गेहं छादेन्तेहि न सक्का होति समन्ता निस्सेणिया आविज्जितुं. इति एवरूपे सारम्भे च अपरिक्कमने च ठाने न कारेतब्बा. अनारम्भे पन सपरिक्कमने कारेतब्बा, तं वुत्तपटिपक्खनयेन पाळियं आगतमेव.
पुन सञ्ञाचिका नामाति एवमादि ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने सञ्ञाचिकाय कुटिं कारेय्या’’ति एवं वुत्तसंयाचिकादीनं अत्थप्पकासनत्थं वुत्तं.
पयोगे दुक्कटन्ति एवं अदेसितवत्थुकं वा पमाणातिक्कन्तं वा कुटिं कारेस्सामीति अरञ्ञतो रुक्खा हरणत्थाय वासिं वा फरसुं वा निसेति दुक्कटं, अरञ्ञं पविसति दुक्कटं, तत्थ अल्लतिणानि छिन्दति दुक्कटेन सद्धिं पाचित्तियं, सुक्खानि छिन्दति दुक्कटं. रुक्खेसुपि एसेव नयो. भूमिं सोधेति खणति, पंसुं उद्धरति, चिनाति; एवं याव पाचीरं बन्धति ताव पुब्बपयोगो नाम होति. तस्मिं पुब्बपयोगे सब्बत्थ पाचित्तियट्ठाने दुक्कटेन सद्धिं पाचित्तियं, दुक्कटट्ठाने दुक्कटं, ततो पट्ठाय सहपयोगो नाम. तत्थ थम्भेहि कातब्बाय थम्भं उस्सापेति, दुक्कटं. इट्ठकाहि चिनितब्बाय इट्ठकं आचिनाति, दुक्कटं. एवं यं यं उपकरणं योजेति, सब्बत्थ पयोगे पयोगे दुक्कटं. तच्छन्तस्स हत्थवारे हत्थवारे तदत्थाय गच्छन्तस्स पदे पदे दुक्कटं. एवं कतं पन दारुकुट्टिकं वा इट्ठककुट्टिकं वा सिलाकुट्टिकं वा अन्तमसो पण्णसालम्पि सभित्तिच्छदनं लिम्पिस्सामीति सुधाय वा मत्तिकाय वा लिम्पन्तस्स पयोगे पयोगे याव थुल्लच्चयं न होति, ताव दुक्कटं. एतं पन दुक्कटं महालेपेनेव वट्टति, सेतरत्तवण्णकरणे वा चित्तकम्मे वा अनापत्ति.
एकं पिण्डं अनागतेति यो सब्बपच्छिमो एको लेपपिण्डो, तं एकं पिण्डं असम्पत्ते कुटिकम्मे. इदं वुत्तं होति, इदानि द्वीहि पिण्डेहि निट्ठानं गमिस्सतीति तेसु पठमपिण्डदाने थुल्लच्चयन्ति.
तस्मिं पिण्डे आगतेति यं एकं पिण्डं अनागते कुटिकम्मे थुल्लच्चयं होति, तस्मिं अवसानपिण्डे आगते दिन्ने ठपिते लेपस्स घटितत्ता आपत्ति सङ्घादिसेसस्स. एवं लेम्पन्तस्स च अन्तोलेपे वा अन्तोलेपेन सद्धिं भित्तिञ्च छदनञ्च एकाबद्धं कत्वा घटिते बहिलेपे वा बहिलेपेन सद्धिं घटिते सङ्घादिसेसो. सचे पन द्वारबद्धं वा वातपानं वा अट्ठपेत्वाव मत्तिकाय लिम्पति, तस्मिञ्च तस्सोकासं पुन वड्ढेत्वा वा अवड्ढेत्वा वा ठपिते लेपो न घटीयति रक्खति ताव, पुन लिम्पन्तस्स पन घटितमत्ते सङ्घादिसेसो. सचे तं ठपियमानं पठमं दिन्नलेपेन सद्धिं निरन्तरमेव हुत्वा तिट्ठति, पठममेव सङ्घादिसेसो. उपचिकामोचनत्थं अट्ठङ्गुलमत्तेन अप्पत्तच्छदनं कत्वा भित्तिं लिम्पति, अनापत्ति. उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटियति नाम, अनापत्तियेव.
इट्ठककुट्टिकाय इट्ठकाहियेव वातपाने च धूमनेत्तानि च करोति, लेपघटनेनेव आपत्ति. पण्णसालं लिम्पति, लेपघटनेनेव आपत्ति. तत्थ आलोकत्थाय अट्ठङ्गुलमत्तं ठपेत्वा लिम्पति, लेपो न घटीयति नाम, अनापत्तियेव. सचे ‘‘वातपानं लद्धा एत्थ ठपेस्सामी’’ति करोति, वातपाने ठपिते लेपघटनेन आपत्ति. सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ति. एको एकपिण्डावसेसं कत्वा ठपेति, अञ्ञो तं दिस्वा ‘‘दुक्कतं इद’’न्ति वत्तसीसेन लिम्पति उभिन्नम्पि अनापत्ति.
३५४. भिक्खु कुटिं करोतीति एवमादीनि छत्तिंस चतुक्कानि आपत्तिभेददस्सनत्थं वुत्तानि, तत्थ सारम्भाय दुक्कटं, अपरिक्कमनाय दुक्कटं, पमाणातिक्कन्ताय सङ्घादिसेसो, अदेसितवत्थुकाय सङ्घादिसेसो, एतेसं वसेन वोमिस्सकापत्तियो वेदितब्बा.
३५५. आपत्ति द्विन्नं सङ्घादिसेसेन द्विन्नं दुक्कटानन्तिआदीसु च द्वीहि सङ्घादिसेसेहि सद्धिं द्विन्नं दुक्कटानन्तिआदिना नयेन अत्थो वेदितब्बो.
३६१. सो चे विप्पकते आगच्छतीतिआदीसु पन अयं अत्थविनिच्छयो. सोति समादिसित्वा पक्कन्तभिक्खु. विप्पकतेति अनिट्ठिते कुटिकम्मे. अञ्ञस्स वा दातब्बाति अञ्ञस्स पुग्गलस्स वा सङ्घस्स वा चजित्वा दातब्बा. भिन्दित्वा वा पुन कातब्बाति कित्तकेन भिन्ना होति, सचे थम्भा भूमियं निखाता, उद्धरितब्बा. सचे पासाणानं उपरि ठपिता, अपनेतब्बा. इट्ठकचिताय याव मङ्गलिट्ठका ताव कुट्टा अपचिनितब्बा. सङ्खेपतो भूमिसमं कत्वा विनासिता भिन्ना होति, भूमितो उपरि चतुरङ्गुलमत्तेपि ठिते अभिन्नाव. सेसं सब्बचतुक्केसु पाकटमेव. न हेत्थ अञ्ञं किञ्चि अत्थि, यं पाळिअनुसारेनेव दुब्बिञ्ञेय्यं सिया.
३६३. अत्तना विप्पकतन्तिआदीसु पन अत्तना आरद्धं कुटिं. अत्तना परियोसापेतीति महामत्तिकाय वा थुसमत्तिकाय वा याय कतं परियोसितभावं पापेतुकामो होति, ताय अवसानपिण्डं देन्तो परियोसापेति.
परेहि परियोसापेतीति अत्तनोव अत्थाय परेहि परियोसापेति. अत्तना वा हि विप्पकता होतु परेहि वा उभयेहि वा, तं चे अत्तनो अत्थाय अत्तना वा परियोसापेति, परेहि वा परियोसापेति, अत्तना च परेहि चाति युगनद्धं वा परियोसापेति, सङ्घादिसेसोयेवाति अयमेत्थ विनिच्छयो.
कुरुन्दियंपन वुत्तं – ‘‘द्वे तयो भिक्खू ‘एकतो वसिस्सामा’ति करोन्ति, रक्खति ताव, अविभत्तत्ता अनापत्ति. ‘इदं ठानं तव, इदं ममा’ति विभजित्वा करोन्ति आपत्ति. सामणेरो च भिक्खु च एकतो करोन्ति, याव अविभत्ता ताव रक्खति. पुरिमनयेन विभजित्वा करोन्ति, भिक्खुस्स आपत्ती’’ति.
३६४. अनापत्ति लेणेतिआदीसु लेणं महन्तम्पि करोन्तस्स अनापत्ति. न हेत्थ लेपो घटीयति. गुहम्पि इट्ठकागुहं वा सिलागुहं वा दारुगुहं वा भूमिगुहं वा महन्तम्पि करोन्तस्स अनापत्ति.
तिणकुटिकायाति सत्तभूमिकोपि पासादो तिणपण्णच्छदनो ‘‘तिणकुटिका’’ति वुच्चति. अट्ठकथासु पन कुक्कुटच्छिकगेहन्ति छदनं दण्डकेहि जालबद्धं कत्वा तिणेहि वा पण्णेहि वा छादितकुटिकाव वुत्ता, तत्थ अनापत्ति. महन्तम्पि तिणच्छदनगेहं कातुं वट्टति, उल्लित्तादिभावो एव हि कुटिया लक्खणं, सो च छदनमेव सन्धाय वुत्तोति वेदितब्बो. चङ्कमनसालायं तिणचुण्णं परिपतति ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातु’’न्तिआदीनि (चूळव. २६०) चेत्थ साधकानि, तस्मा उभतो पक्खं वा कूटबद्धं वा वट्टं वा चतुरस्सं वा यं ‘‘इमं एतस्स गेहस्स छदन’’न्ति छदनसङ्खेपेन कतं होति, तस्स भित्तिलेपेन सद्धिं लेपे घटिते आपत्ति. सचे पन उल्लित्तावलित्तच्छदनस्स गेहस्स लेपरक्खणत्थं उपरि तिणेन छादेन्ति, एत्तावता तिणकुटि नाम न होति. किं पनेत्थ अदेसितवत्थुकप्पमाणातिक्कन्तपच्चयाव अनापत्ति, उदाहु सारम्भअपरिक्कमनपच्चयापीति सब्बत्थापि अनापत्ति. तथा हि तादिसं कुटिं सन्धाय परिवारे वुत्तं –
‘‘भिक्खु सञ्ञाचिकाय कुटिं करोति;
अदेसितवत्थुकं पमाणातिक्कन्तं;
सारम्भं अपरिक्कमनं अनापत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४७९);
अञ्ञस्सत्थायाति कुटिलक्खणप्पत्तम्पि कुटिं अञ्ञस्स उपज्झायस्स वा आचरियस्स वा सङ्घस्स वा अत्थाय करोन्तस्स अनापत्ति. यं पन ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्तिआदि पाळियं वुत्तं, तं यथासमादिट्ठाय अकरणपच्चया वुत्तं.
वासागारं ठपेत्वा सब्बत्थाति अत्तनो वसनत्थाय अगारं ठपेत्वा अञ्ञं उपोसथागारं वा जन्ताघरं वा भोजनसाला वा अग्गिसाला वा भविस्सतीति कारेति, सब्बत्थ अनापत्ति. सचेपिस्स होति ‘‘उपोसथागारञ्च भविस्सति, अहञ्च वसिस्सामि जन्ताघरञ्च भोजनसाला च अग्गिसाला च भविस्सति, अहञ्च वसिस्सामी’’ति कारितेपि आनापत्तियेव. महापच्चरियं पन ‘‘अनापत्ती’’ति वत्वा ‘‘अत्तनो वासागारत्थाय करोन्तस्सेव आपत्ती’’ति वुत्तं. उम्मत्तकस्स आदिकम्मिकानञ्च आळवकानं भिक्खूनं अनापत्ति.
समुट्ठानादीसु छसमुट्ठानं किरियञ्च किरियाकिरियञ्च, इदञ्हि वत्थुं देसापेत्वा पमाणातिक्कन्तं करोतो किरियतो समुट्ठाति, वत्थुं अदेसापेत्वा करोतो किरियाकिरियतो, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
कुटिकारसिक्खापदवण्णना निट्ठिता.