२. कायसंसग्गसिक्खापदवण्णना

२६९. तेन समयेन बुद्धो भगवाति कायसंसग्गसिक्खापदं. तत्रायं अनुत्तानपदवण्णना – अरञ्ञे विहरतीति न आवेणिके अरञ्ञे, जेतवनविहारस्सेव पच्चन्ते एकपस्से. मज्झे गब्भोति तस्स च विहारस्स मज्झे गब्भो होति. समन्ता परियागारोति समन्ता पनस्स मण्डलमाळपरिक्खेपो होति. सो किर मज्झे चतुरस्सं गब्भं कत्वा बहि मण्डलमाळपरिक्खेपेन कतो, यथा सक्का होति अन्तोयेव आविञ्छन्तेहि विचरितुं.

सुपञ्ञत्तन्ति सुट्ठ ठपितं, यथा यथा यस्मिं यस्मिञ्च ओकासे ठपितं पासादिकं होति लोकरञ्जकं तथा तथा तस्मिं तस्मिं ओकासे ठपितं, वत्तसीसेन हि सों एककिच्चम्पि न करोति. एकच्चे वातपाने विवरन्तोति येसु विवटेसु अन्धकारो होति तानि विवरन्तो येसु विवटेसु आलोको होति तानि थकेन्तो.

एवं वुत्ते सा ब्राह्मणी तं ब्राह्मणं एतदवोचाति एवं तेन ब्राह्मणेन पसंसित्वा वुत्ते सा ब्राह्मणी ‘‘पसन्नो अयं ब्राह्मणो पब्बजितुकामो मञ्ञे’’ति सल्लक्खेत्वा निगूहितब्बम्पि तं अत्तनो विप्पकारं पकासेन्ती केवलं तस्स सद्धाविघातापेक्खा हुत्वा एतं ‘‘कुतो तस्स उळारत्तता’’तिआदिवचनमवोच. तत्थ उळारो अत्ता अस्साति उळारत्ता, उळारत्तनो भावो उट्ठारत्तता. कुलित्थीहीतिआदीसु कुलित्थियो नाम घरस्सामिनियो. कुलधीतरो नाम पुरिसन्तरगता कुलधीतरो. कुलकुमारियो नाम अनिविट्ठा वुच्चन्ति. कुलसुण्हा नाम परकुलतो आनीता कुलदारकानं वधुयो.

२७०. ओतिण्णोति यक्खादीहि विय सत्ता अन्तो उप्पज्जन्तेन रागेन ओतिण्णो, कूपादीनि विय सत्ता असमपेक्खित्वा रजनीये ठाने रज्जन्तो सयं वा रागं ओतिण्णो, यस्मा पन उभयथापि रागसमङ्गिस्सेवेतं अधिवचनं, तस्मा ‘‘ओतिण्णो नाम सारत्तो अपेक्खवा पटिबद्धचित्तो’’ति एवमस्स पदभाजनं वुत्तं.

तत्थ सारत्तोति कायसंसग्गरागेन सुट्ठु रत्तो. अपेक्खवाति कायसंसग्गापेक्खाय अपेक्खवा. पटिबद्धचित्तोति कायसंसग्गरागेनेव तस्मिं वत्थुस्मिं पटिबद्धचित्तो. विपरिणतेनाति परिसुद्धभवङ्गसन्ततिसङ्खातं पकतिं विजहित्वा अञ्ञथा पवत्तेन, विरूपं वा परिणतेन विरूपं परिवत्तेन, यथा परिवत्तमानं विरूपं होति एवं परिवत्तित्वा ठितेनाति अधिप्पायो.

२७१. यस्मा पनेतं रागादीहि सम्पयोगं नातिवत्तति, तस्मा ‘‘विपरिणतन्ति रत्तम्पि चित्त’’न्तिआदिना नयेनस्स पदभाजनं वत्वा अन्ते इधाधिप्पेतमत्थं दस्सेन्तो ‘‘अपिच रत्तं चित्तं इमस्मिं अत्थे अधिप्पेतं विपरिणत’’न्ति आह.

तदहुजाताति तंदिवसं जाता जातमत्ता अल्लमंसपेसिवण्णा, एवरूपायपि हि सद्धिं कायसंसग्गे सङ्घादिसेसो, मेथुनवीतिक्कमे पाराजिकं, रहो निसज्जस्सादे पाचित्तियञ्च होति. पगेवाति पठममेव.

कायसंसग्गं समापज्जेय्याति हत्थग्गहणादिकायसम्पयोगं कायमिस्सीभावं समापज्जेय्य, यस्मा पनेतं समापज्जन्तस्स यो सो कायसंसग्गो नाम सो अत्थतो अज्झाचारो होति, रागवसेन अभिभवित्वा सञ्ञमवेलं आचारो, तस्मास्स सङ्खेपन अत्थं दस्सेन्तो ‘‘अज्झाचारो वुच्चती’’ति पदभाजनमाह.

हत्थग्गाहं वातिआदिभेदं पनस्स वित्थारेन अत्थदस्सनं. तत्थ हत्थादीनं विभागदस्सनत्थं ‘‘हत्थो नाम कप्परं उपादाया’’तिआदिमाह तत्थ कप्परं उपादायाति दुतियं. महासन्धिं उपादाय. अञ्ञत्थ पन मणिबन्धतो पट्ठाय याव अग्गनखा हत्थो इध सद्धिं अग्गबाहाय कप्परतो पट्ठाय अधिप्पेतो.

सुद्धकेसा वाति सुत्तादीहि अमिस्सा सुद्धा केसायेव. वेणीति तीहि केसवट्टीहि विनन्धित्वा कतकेसकलापस्सेतं नामं. सुत्तमिस्साति पञ्चवण्णेन सुत्तेन केसे मिस्सेत्वा कता. मालामिस्साति वस्सिकपुप्फादीहि मिस्सेत्वा तीहि केसवट्टीहि विनन्धित्वा कता, अविनद्धोपि वा केवलं पुप्फमिस्सको केसकलापो इध ‘‘वेणी’’ति वेदितब्बो. हिरञ्ञमिस्साति कहापणमालाय मिस्सेत्वा कता. सुवण्णमिस्साति सुवण्णचीरकेहि वा पामङ्गादीहि वा मिस्सेत्वा कता. मुत्तामिस्साति मुत्तावलीहि मिस्सेत्वा कता. मणिमिस्साति सुत्तारूळ्हेहि मणीहि मिस्सेत्वा कता. एतासु हि यंकिञ्चि वेणिं गण्हन्तस्स सङ्घादिसेसोयेव. ‘‘अहं मिस्सकवेणिं अग्गहेसि’’न्ति वदन्तस्स मोक्खो नत्थि. वेणिग्गहणेन चेत्थ केसापि गहिताव होन्ति, तस्मा यो एकम्पि केसं गण्हाति तस्सपि आपत्तियेव.

हत्थञ्च वेणिञ्च ठपेत्वाति इध वुत्तलक्खणं हत्थञ्च सब्बप्पकारञ्च वेणिं ठपेत्वा अवसेसं सरीरं ‘‘अङ्ग’’न्ति वेदितब्बं. एवं परिच्छिन्नेसु हत्थादीसु हत्थस्स गहणं हत्थग्गाहो, वेणिया गहणं वेणिग्गाहो, अवसेसससरीरस्स परामसनं अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं, यो तं हत्थग्गाहं वा वेणिग्गाहं वा अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं समापज्जेय्य, तस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति. अयं सिक्खापदस्स अत्थो.

२७२. यस्मा पन यो च हत्थग्गाहो यो च वेणिग्गाहो यञ्च अवसेसस्स अङ्गस्स परामसनं तं सब्बम्पि भेदतो द्वादसविधं होति, तस्मा तं भेदं दस्सेतुं ‘‘आमसना परामसना’’तिआदिना नयेनस्स पदभाजनं वुत्तं. तत्थ यञ्च वुत्तं ‘‘आमसना नाम आमट्ठमत्ता’’ति यञ्च ‘‘छुपनं नाम फुट्ठमत्त’’न्ति, इमेसं अयं विसेसो – आमसनाति आमज्जना फुट्ठोकासं अनतिक्कमित्वापि तत्थेव सङ्घट्टना. अयञ्हि ‘‘आमट्ठमत्ता’’ति वुच्चति. छुपनन्ति असङ्घट्टेत्वा फुट्ठमत्तं.

यम्पि उम्मसनाय च उल्लङ्घनाय च निद्देसे ‘‘उद्धं उच्चारणा’’ति एकमेव पदं वुत्तं. तत्रापि अयं विसेसो – पठमं अत्तनो कायस्स इत्थिया काये उद्धं पेसनवसेन वुत्तं, दुतियं इत्थिया कायं उक्खिपनवसेन, सेसं पाकटमेव.

२७३. इदानि य्वायं ओतिण्णो विपरिणतेन चित्तेन कायसंसग्गं समापज्जति, तस्स एतेसं पदानं वसेन वित्थारतो आपत्तिभेदं दस्सेन्तो ‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च भिक्खु च नं इत्थिया कायेन काय’’न्तिआदिमाह. तत्थ भिक्खु च नं इत्थिया कायेन कायन्ति सो सारत्तो च इत्थिसञ्ञी च भिक्खु अत्तनो कायेन. नन्ति निपातमत्तं. अथ वा एतं तस्सा इत्थिया हत्थादिभेदं कायं. आमसति परामसतीति एतेसु चे एकेनापि आकारेन अज्झाचरति, आपत्ति सङ्घादिसेसस्स. तत्थ सकिं आमसतो एका आपत्ति, पुनप्पुनं आमसतो पयोगे पयोगे सङ्घादिसेसो.

परामसन्तोपि सचे कायतो अमोचेत्वाव इतो चितो च अत्तनो हत्थं वा कायं वा सञ्चोपेति हरति पेसेति दिवसम्पि परामसतो एकाव आपत्ति. सचे कायतो मोचेत्वा मोचेत्वा परामसति पयोगे पयोगे आपत्ति.

ओमसन्तोपि सचे कायतो अमोचेत्वाव इत्थिया मत्थकतो पट्ठाय याव पादपिट्ठिं ओमसति एकाव आपत्ति. सचे पन उदरादीसु तं तं ठानं पत्वा मुञ्चित्वा मुञ्चित्वा ओमसति पयोगे पयोगे आपत्ति. उम्मसनायपि पादतो पट्ठाय याव सीसं उम्मसन्तस्स एसेव नयो.

ओलङ्घनाय मातुगामं केसेसु गहेत्वा नामेत्वा चुम्बनादीसु यं अज्झाचारं इच्छति तं कत्वा मुञ्चतो एकाव आपत्ति. उट्ठितं पुनप्पुनं नामयतो पयोगे पयोगे आपत्ति. उल्लङ्घनायपि केसेसु वा हत्थेसु वा गहेत्वा वुट्ठापयतो एसेव नयो.

आकड्ढनाय अत्तनो अभिमुखं आकड्ढन्तो याव न मुञ्चति ताव एकाव आपत्ति. मुञ्चित्वा मुञ्चित्वा आकड्ढन्तस्स पयोगे पयोगे आपत्ति. पतिकड्ढनायपि परम्मुखं पिट्ठियं गहेत्वा पटिप्पणामयतो एसेव नयो.

अभिनिग्गण्हनाय हत्थे वा बाहाय वा दळ्हं गहेत्वा योजनम्पि गच्छतो एकाव आपत्ति. मुञ्चित्वा पुनप्पुनं गण्हतो पयोगे पयोगे आपत्ति. अमुञ्चित्वा पुनप्पुनं फुसतो च आलिङ्गतो च पयोगे पयोगे आपत्तीति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘मूलग्गहणमेव पमाणं, तस्मा याव न मुञ्चति ताव एका एव आपत्ती’’ति.

अभिनिप्पीळनाय वत्थेन वा आभरणेन वा सद्धिं पीळयतो अङ्गं अफुसन्तस्स थुल्लच्चयं, फुसन्तस्स सङ्घादिसेसो, एकपयोगेन एका आपत्ति, नानापयोगेन नाना.

गहणछुपनेसु अञ्ञं किञ्चि विकारं अकरोन्तोपि गहितमत्तफुट्ठमत्तेनापि आपत्तिं आपज्जति.

एवमेतेसु आमसनादीसु एकेनापि आकारेन अज्झाचारतो इत्थिया इत्थिसञ्ञिस्स सङ्घादिसेसो, वेमतिकस्स थुल्लच्चयं, पण्डकपुरिसतिरच्छानगतसञ्ञिस्सापि थुल्लच्चयमेव. पण्डके पण्डकसञ्ञिस्स थुल्लच्चयं, वेमतिकस्स दुक्कटं. पुरिसतिरच्छानगतइत्थिसञ्ञिस्सापि दुक्कटमेव. पुरिसे पुरिससञ्ञिस्सापि वेमतिकस्सापि इत्थिपण्डकतिरच्छानगतसञ्ञिस्सापि दुक्कटमेव. तिरच्छानगतेपि सब्बाकारेन दुक्कटमेवाति. इमा एकमूलकनये वुत्ता आपत्तियो सल्लक्खेत्वा इमिनाव उपायेन ‘‘द्वे इत्थियो द्विन्नं इत्थीन’’न्तिआदिवसेन वुत्ते दुमूलकनयेपि दिगुणा आपत्तियो वेदितब्बा. यथा च द्वीसु इत्थीसु द्वे सङ्घादिसेसा; एवं सम्बहुलासु सम्बहुला वेदितब्बा.

यो हि एकतो ठिता सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हाति सो यत्तका इत्थियो फुट्ठा तासं गणनाय सङ्घादिसेसे आपज्जति, मज्झगतानं गणनाय थुल्लच्चये. ता हि तेन कायप्पटिबद्धेन आमट्ठा होन्ति. यो पन सम्बहुलानं अङ्गुलियो वा केसे वा एकतो कत्वा गण्हाति, सो अङ्गुलियो च केसे च अगणेत्वा इत्थियो गणेत्वा सङ्घादिसेसेहि कारेतब्बो. यासञ्च इत्थीनं अङ्गुलियो वा केसा वा मज्झगता होन्ति, तासं गणनाय थुल्लच्चये आपज्जति. ता हि तेन कायप्पटिबद्धेन आमट्ठा होन्ति, सम्बहुला पन इत्थियो कायप्पटिबद्धेहि रज्जुवत्थादीहि परिक्खिपित्वा गण्हन्तो सब्बासंयेव अन्तोपरिक्खेपगतानं गणनाय थुल्लच्चये आपज्जति. महापच्चरियं अफुट्ठासु दुक्कटं वुत्तं. तत्थ यस्मा पाळियं कायप्पटिबद्धप्पटिबद्धेन आमसनं नाम नत्थि, तस्मा सब्बम्पि कायप्पटिबद्धप्पटिबद्धं कायप्पटिबद्धेनेव सङ्गहेत्वा महाअट्ठकथायञ्च कुरुन्दियञ्च वुत्तो पुरिमनयोयेवेत्थ युत्ततरो दिस्सति.

यो हि हत्थेन हत्थं गहेत्वा पटिपाटिया ठितासु इत्थीसु समसारागो एकं हत्थे गण्हाति, सो गहितित्थिया वसेन एकं सङ्घादिसेसं आपज्जति, इतरासं गणनाय पुरिमनयेनेव थुल्लच्चये. सचे सो तं कायप्पटिबद्धे वत्थे वा पुप्फे वा गण्हाति, सब्बासं गणनाय थुल्लच्चये आपज्जति. यथेव हि रज्जुवत्थादीहि परिक्खिपन्तेन सब्बापि कायप्पटिबद्धेन आमट्ठा होन्ति, तथा इधापि सब्बापि कायप्पटिबद्धेन आमट्ठा होन्ति. सचे पन ता इत्थियो अञ्ञमञ्ञं वत्थकोटियं गहेत्वा ठिता होन्ति, तत्र चेसो पुरिमनयेनेव पठमं इत्थिं हत्थे गण्हाति गहिताय वसेन सङ्घादिसेसं आपज्जति, इतरासं गणनाय दुक्कटानि. सब्बासञ्हि तासं तेन पुरिमनयेनेव कायपटिबद्धेन कायप्पटिबद्धं आमट्ठं होति. सचे पन सोपि तं कायप्पटिबद्धेयेव गण्हाति तस्सा वसेन थुल्लच्चयं आपज्जति, इतरासं गणनाय अनन्तरनयेनेव दुक्कटानि.

यो पन घनवत्थनिवत्थं इत्थिं कायसंसग्गरागेन वत्थे घट्टेति, थुल्लच्चयं. विरळवत्थनिवत्थं घट्टेति, तत्र चे वत्थन्तरेहि इत्थिया वा निक्खन्तलोमानि भिक्खुं भिक्खुनो वा पविट्ठलोमानि इत्थिं फुसन्ति, उभिन्नं लोमानियेव वा लोमानि फुसन्ति, सङ्घादिसेसो. उपादिन्नकेन हि कम्मजरूपेन उपादिन्नकं वा अनुपादिन्नकं वा अनुपादिन्नकेनपि केनचि केसादिना उपादिन्नकं वा अनुपादिन्नकं वा फुसन्तोपि सङ्घादिसेसं आपज्जतियेव.

तत्थ कुरुन्दियं ‘‘लोमानि गणेत्वा सङ्घादिसेसो’’ति वुत्तं. महाअट्ठकथायं पन ‘‘लोमानि गणेत्वा आपत्तिया न कारेतब्बो, एकमेव सङ्घादिसेसं आपज्जति. सङ्घिकमञ्चे पन अपच्चत्थरित्वा निपन्नो लोमानि गणेत्वा कारेतब्बो’’ति वुत्तं, तदेव युत्तं. इत्थिवसेन हि अयं आपत्ति, न कोट्ठासवसेनाति.

एत्थाह ‘‘यो पन ‘कायप्पटिबद्धं गण्हिस्सामी’ति कायं गण्हाति, ‘कायं गण्हिस्सामी’ति कायप्पटिबद्धं गण्हाति, सो किं आपज्जती’’ति. महासुमत्थेरो ताव ‘‘यथावत्थुकमेवा’’ति वदति. अयं किरस्स लद्धि –

‘‘वत्थु सञ्ञा च रागो च, फस्सप्पटिविजानना;

यथानिद्दिट्ठनिद्देसे, गरुकं तेन कारये’’ति.

एत्थ ‘‘वत्थू’’ति इत्थी. ‘‘सञ्ञा’’ति इत्थिसञ्ञा. ‘‘रागो’’ति कायसंसग्गरागो. ‘‘फस्सप्पटिविजानना’’ति कायसंसग्गफस्सजानना. तस्मा यो इत्थिया इत्थिसञ्ञी कायसंसग्गरागेन ‘‘कायप्पटिबद्धं गहेस्सामी’’ति पवत्तोपि कायं फुसति, गरुकं सङ्घादिसेसंयेव आपज्जति. इतरोपि थुल्लच्चयन्ति महापदुमत्थेरो पनाह –

‘‘सञ्ञाय विरागितम्हि, गहणे च विरागिते;

यथानिद्दिट्ठनिद्देसे, गरुकं तत्थ न दिस्सती’’ति.

अस्सापायं लद्धि इत्थिया इत्थिसञ्ञिनो हि सङ्घादिसेसो वुत्तो. इमिना च इत्थिसञ्ञा विरागिता कायप्पटिबद्धे कायप्पटिबद्धसञ्ञा उप्पादिता, तं गण्हन्तस्स पन थुल्लच्चयं वुत्तं. इमिना च गहणम्पि विरागितं तं अग्गहेत्वा इत्थी गहिता, तस्मा एत्थ इत्थिसञ्ञाय अभावतो सङ्घादिसेसो न दिस्सति, कायप्पटिबद्धस्स अग्गहितत्ता थुल्लच्चयं न दिस्सति, कायसंसग्गरागेन फुट्ठत्ता पन दुक्कटं. कायसंसग्गरागेन हि इमं नाम वत्थुं फुसतो अनापत्तीति नत्थि, तस्मा दुक्कटमेवाति.

इदञ्च पन वत्वा इदं चतुक्कमाह. ‘‘सारत्तं गण्हिस्सामी’ति सारत्तं गण्हि सङ्घादिसेसो, ‘विरत्तं गण्हिस्सामी’ति विरत्तं गण्हि दुक्कटं, ‘सारत्तं गण्हिस्सामी’ति विरत्तं गण्हि दुक्कटं, ‘विरत्तं गण्हिस्सामी’ति सारत्तं गण्हि दुक्कटमेवा’’ति. किञ्चापि एवमाह? अथ खो महासुमत्थेरवादोयेवेत्थ ‘‘इत्थि च होति इत्थिसञ्ञी सारत्तो च भिक्खु च नं इत्थिया कायेन कायप्पटिबद्धं आमसति परामसति…पे… गण्हाति छुपति आपत्ति थुल्लच्चयस्सा’’ति इमाय पाळिया ‘‘यो हि एकतो ठिता सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हाति, सो यत्तका इत्थियो फुट्ठा तासं गणनाय सङ्घादिसेसे आपज्जति, मज्झगतानं गणनाय थुल्लच्चये’’तिआदीहि अट्ठकथाविनिच्छयेहि च समेति. यदि हि सञ्ञादिविरागेन विरागितं नाम भवेय्य ‘‘पण्डको च होति इत्थिसञ्ञी’’तिआदीसु विय ‘‘कायप्पटिबद्धञ्च होति कायसञ्ञी चा’’तिआदिनापि नयेन पाळियं विसेसं वदेय्य. यस्मा पन सो न वुत्तो, तस्मा इत्थिया इत्थिसञ्ञाय सति इत्थिं आमसन्तस्स सङ्घादिसेसो, कायप्पटिबद्धं आमसन्तस्स थुल्लच्चयन्ति यथावत्थुकमेव युज्जति.

महापच्चरियम्पि चेतं वुत्तं – ‘‘नीलं पारुपित्वा सयिताय काळित्थिया कायं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो; ‘कायं घट्टेस्सामी’ति नीलं घट्टेति, थुल्लच्चयं; ‘नीलं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो; ‘नीलं घट्टेस्सामी’ति नीलं घट्टेति, थुल्लच्चय’’न्ति. योपायं ‘‘इत्थी च पण्डको चा’’तिआदिना नयेन वत्थुमिस्सकनयो वुत्तो, तस्मिम्पि वत्थु सञ्ञाविमतिवसेन वुत्ता आपत्तियो पाळियं असम्मुय्हन्तेन वेदितब्बा.

कायेनकायप्पटिबद्धवारे पन इत्थिया इत्थिसञ्ञिस्स कायप्पटिबद्धं गण्हतो थुल्लच्चयं, सेसे सब्बत्थ दुक्कटं. कायप्पटिबद्धेनकायवारेपि एसेव नयो. कायप्पटिबद्धेनकआयप्पटिबद्धवारे च निस्सग्गियेनकायवारादीसु चस्स सब्बत्थ दुक्कटमेव.

‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च इत्थी च नं भिक्खुस्स कायेन काय’’न्तिआदिवारो पन भिक्खुम्हि मातुगामस्स रागवसेन वुत्तो. तत्थ इत्थी च नं भिक्खुस्स कायेन कायन्ति भिक्खुम्हि सारत्ता इत्थी तस्स निसिन्नोकासं वा निपन्नोकासं वा गन्त्वा अत्तनो कायेन तं भिक्खुस्स कायं आमसति…पे… छुपति. सेवनाधिप्पायो कायेन वायमति, फस्सं पटिविजानातीति एवं ताय आमट्ठो वा छुपितो वा सेवनाधिप्पायो हुत्वा सचे फस्सप्पटिविजाननत्थं ईसकम्पि कायं चालेति फन्देति, सङ्घादिसेसं आपज्जति.

द्वे इत्थियोति एत्थ द्वे सङ्घादिसेसे आपज्जति, इत्थिया च पण्डके च सङ्घादिसेसेन सह दुक्कटं. एतेन उपायेन याव ‘‘निस्सग्गियेन निस्सग्गियं आमसति, सेवनाधिप्पायो कायेन वायमति न च फस्सं पटिविजानाति, आपत्ति दुक्कटस्सा’’ति ताव पुरिमनयेनेव आपत्तिभेदो वेदितब्बो.

एत्थ च कायेन वायमति न च फस्सं पटिविजानातीति अत्तना निस्सट्ठं पुप्फं वा फलं वा इत्थिं अत्तनो निस्सग्गियेन पुप्फेन वा फलेन वा पहरन्तिं दिस्वा कायेन विकारं करोति, अङ्गुलिं वा चालेति, भमुकं वा उक्खिपति, अक्खिं वा निखणति, अञ्ञं वा एवरूपं विकारं करोति, अयं वुच्चति ‘‘कायेन वायमति न च फस्सं पटिविजानाती’’ति. अयम्पि कायेन वायमितत्ता दुक्कटं आपज्जति, द्वीसु इत्थीसु द्वे, इत्थीपण्डकेसुपि द्वे एव दुक्कटे आपज्जति.

२७९. एवं वत्थुवसेन वित्थारतो आपत्तिभेदं दस्सेत्वा इदानि लक्खणवसेन सङ्खेपतो आपत्तिभेदञ्च अनापत्तिभेदञ्च दस्सेन्तो ‘‘सेवनाधिप्पायो’’तिआदिमाह. तत्थ पुरिमनये इत्थिया फुट्ठो समानो सेवनाधिप्पायो कायेन वायमति, फस्सं पटिविजानातीति तिवङ्गसम्पत्तिया सङ्घादिसेसो. दुतिये नये निस्सग्गियेन निस्सग्गियामसने विय वायमित्वा अछुपने विय च फस्सस्स अप्पटिविजाननतो दुवङ्गसम्पत्तिया दुक्कटं. ततिये कायेन अवायमतो अनापत्ति. यो हि सेवनाधिप्पायोपि निच्चलेन कायेन केवलं फस्सं पटिविजानाति सादियति अनुभोति, तस्स चित्तुप्पादमत्ते आपत्तिया अभावतो अनापत्ति. चतुत्थे पन निस्सग्गियेन निस्सग्गियामसने विय फस्सप्पटिविजाननापि नत्थि, केवलं चित्तुप्पादमत्तमेव, तस्मा अनापत्ति. मोक्खाधिप्पायस्स सब्बाकारेसु अनापत्तियेव.

एत्थ पन यो इत्थिया गहितो तं अत्तनो सरीरा मोचेतुकामो पटिप्पणामेति वा पहरति वा अयं कायेन वायमति फस्सं पटिविजानाति. यो आगच्छन्तिं दिस्वा ततो मुञ्चितुकामो उत्तासेत्वा पलापेति, अयं कायेन वायमति न च फस्सं पटिविजानाति. यो तादिसं दीघजातिं काये आरूळ्हं दिस्वा ‘‘सणिकं गच्छतु घट्टियमाना अनत्थाय संवत्तेय्या’’ति न घट्टेति, इत्थिमेव वा अङ्गं फुसमानं ञत्वा ‘‘एसा ‘अनत्थिको अयं मया’ति सयमेव पक्कमिस्सती’’ति अजानन्तो विय निच्चलो होति, बलवित्थिया वा गाळ्हं आलिङ्गित्वा गहितो दहरभिक्खु पलायितुकामोपि सुट्ठु गहितत्ता निच्चलो होति, अयं न च कायेन वायमति, फस्सं पटिविजानाति. यो पन आगच्छन्तिं दिस्वा ‘‘आगच्छतु ताव ततो नं पहरित्वा वा पणामेत्वा वा पक्कमिस्सामी’’ति निच्चलो होति, अयं मोक्खाधिप्पायो न च कायेन वायमति, न च फस्सं पटिविजानातीति वेदितब्बो.

२८०. असञ्चिच्चाति इमिना उपायेन इमं फुसिस्सामीति अचेतेत्वा, एवञ्हि अचेतेत्वा पत्तप्पटिग्गहणादीसु मातुगामस्स अङ्गे फुट्ठेपि अनापत्ति.

असतियाति अञ्ञविहितो होति मातुगामं फुसामीति सति नत्थि, एवं असतिया हत्थपादपसारणादिकाले फुसन्तस्स अनापत्ति.

अजानन्तस्साति दारकवेसेन ठितं दारिकं ‘‘इत्थी’’ति अजानन्तो केनचिदेव करणीयेन फुसति, एवं ‘‘इत्थी’’ति अजानन्तस्स फुसतो अनापत्ति.

असादियन्तस्साति कायसंसग्गं असादियन्तस्स, तस्स बाहापरम्पराय नीतभिक्खुस्स विय अनापत्ति. उम्मत्तकादयो वुत्तनयाएव. इध पन उदायित्थेरो आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु इदं सिक्खापदं पठमपाराजिकसमुट्ठानं कायचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनं, सुखमज्झत्तद्वयेनाति.

२८१. विनीतवत्थूसु – मातुया मातुपेमेनाति मातुपेमेन मातुया कायं आमसि. एस नयो धीतुभगिनिवत्थूसु. तत्थ यस्मा माता वा होतु धीता वा इत्थी नाम सब्बापि ब्रह्मचरियस्स पारिपन्थिकाव. तस्मा ‘‘अयं मे माता अयं धीता अयं मे भगिनी’’ति गेहस्सितपेमेन आमसतोपि दुक्कटमेव वुत्तं.

इमं पन भगवतो आणं अनुस्सरन्तेन सचेपि नदीसोतेन वुय्हमानं मातरं पस्सति नेव हत्थेन परामसितब्बा. पण्डितेन पन भिक्खुना नावा वा फलकं वा कदलिक्खन्धो वा दारुक्खन्धो वा उपसंहरितब्बो. तस्मिं असति कासावम्पि उपसंहरित्वा पुरतो ठपेतब्बं, ‘‘एत्थ गण्हाही’’ति पन न वत्तब्बा. गहिते परिक्खारं कड्ढामीति कड्ढन्तेन गन्तब्बं. सचे भायति पुरतो पुरतो गन्त्वा ‘‘मा भायी’’ति समस्सासेतब्बा. सचे भायमाना पुत्तस्स सहसा खन्धे वा अभिरुहति, हत्थे वा गण्हाति, न ‘‘अपेहि महल्लिके’’ति निद्धुनितब्बा, थलं पापेतब्बा. कद्दमे लग्गायपि कूपे पतितायपि एसेव नयो.

तत्रपि हि योत्तं वा वत्थं वा पक्खिपित्वा हत्थेन गहितभावं ञत्वा उद्धरितब्बा, नत्वेव आमसितब्बा. न केवलञ्च मातुगामस्स सरीरमेव अनामासं, निवासनपावुरणम्पि आभरणभण्डम्पि तिणण्डुपकं वा ताळपण्णमुद्दिकं वा उपादाय अनामासमेव, तञ्च खो निवासनपारुपनं पिळन्धनत्थाय ठपितमेव. सचे पन निवासनं वा पारुपनं वा परिवत्तेत्वा चीवरत्थाय पादमूले ठपेति वट्टति. आभरणभण्डेसु पन सीसपसाधनकदन्तसूचिआदिकप्पियभण्डं ‘‘इमं भन्ते तुम्हाकं गण्हथा’’ति दिय्यमानं सिपाटिकासूचिआदिउपकरणत्थाय गहेतब्बं. सुवण्णरजतमुत्तादिमयं पन अनामासमेव दीय्यमानम्पि न गहेतब्बं. न केवलञ्च एतासं सरीरूपगमेव अनामासं, इत्थिसण्ठानेन कतं कट्ठरूपम्पि दन्तरूपम्पि अयरूपम्पि लोहरूपम्पि तिपुरूपम्पि पोत्थकरूपम्पि सब्बरतनरूपम्पि अन्तमसो पिट्ठमयरूपम्पि अनामासमेव. परिभोगत्थाय पन ‘‘इदं तुम्हाकं होतू’’ति लभित्वा ठपेत्वा सब्बरतनमयं अवसेसं भिन्दित्वा उपकरणारहं उपकरणे परिभोगारहं परिभोगे उपनेतुं वट्टति.

यथा च इत्थिरूपकं; एवं सत्तविधम्पि धञ्ञं अनामासं. तस्मा खेत्तमज्झेन गच्छता तत्थजातकम्पि धञ्ञफलं न आमसन्तेन गन्तब्बं. सचे घरद्वारे वा अन्तरामग्गे वा धञ्ञं पसारितं होति पस्सेन च मग्गो अत्थि न मद्दन्तेन गन्तब्बं. गमनमग्गे असति मग्गं अधिट्ठाय गन्तब्बं. अन्तरघरे धञ्ञस्स उपरि आसनं पञ्ञापेत्वा देन्ति निसीदितुं वट्टति. केचि आसनसालायं धञ्ञं आकिरन्ति, सचे सक्का होति हरापेतुं हरापेतब्बं, नो चे एकमन्तं धञ्ञं अमद्दन्तेन पीठकं पञ्ञपेत्वा निसीदितब्बं. सचे ओकासो न होति, मनुस्सा धञ्ञमज्झेयेव आसनं पञ्ञपेत्वा देन्ति, निसीदितब्बं. तत्थजातकानि मुग्गमासादीनि अपरण्णानिपि तालपनसादीनि वा फलानि कीळन्तेन न आमसितब्बानि. मनुस्सेहि रासिकतेसुपि एसेव नयो. अरञ्ञे पन रुक्खतो पतितानि फलानि ‘‘अनुपसम्पन्नानं दस्सामी’’ति गण्हितुं वट्टति.

मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, रजतं, जातरूपं, लोहितङ्को, मसारगल्लन्ति इमेसु दससु रतनेसु मुत्ता अधोता अनिविद्धा यथाजाताव आमसितुं वट्टति. सेसा अनामासाति वदन्ति. महापच्चरियं पन ‘‘मुत्ता धोतापि अधोतापि अनामासा भण्डमूलत्थाय च सम्पटिच्छितुं न वट्टति, कुट्ठरोगस्स भेसज्जत्थाय पन वट्टती’’ति वुत्तं. अन्तमसो जातिफलिकं उपादाय सब्बोपि नीलपीतादिवण्णभेदो मणि धोतविद्धवट्टितो अनामासो, यथाजातो पन आकरमुत्तो पत्तादिभण्डमूलत्थं सम्पटिच्छितुं वट्टतीति वुत्तो. सोपि महापच्चरियं पटिक्खित्तो, पचित्वा कतो काचमणियेवेको वट्टतीति वुत्तो. वेळुरियेपि मणिसदिसोव विनिच्छयो.

सङ्खो धमनसङ्खो च धोतविद्धो च रतनमिस्सो अनामासो. पानीयसङ्खो धोतोपि अधोतोपि आमासोव सेसञ्च अञ्जनादिभेसज्जत्थायपि भण्डमूलत्थायपि सम्पटिच्छितुं वट्टति. सिला धोतविद्धा रतनसंयुत्ता मुग्गवण्णाव अनामासा. सेसा सत्थकनिसानादिअत्थाय गण्हितुं वट्टति. एत्थ च रतनसंयुत्ताति सुवण्णेन सद्धिं योजेत्वा पचित्वा कताति वदन्ति. पवाळं धोतविद्धं अनामासं. सेसं आमासं भण्डमूलत्थञ्च सम्पटिच्छितुं वट्टति. महापच्चरियं पन ‘‘धोतम्पि अधोतम्पि सब्बं अनामासं, न च सम्पटिच्छितुं वट्टती’’ति वुत्तं.

रजतं जातरूपञ्च कतभण्डम्पि अकतभण्डम्पि सब्बेन सब्बं बीजतो पट्ठाय अनामासञ्च असम्पटिच्छियञ्च, उत्तरराजपुत्तो किर सुवण्णचेतियं कारेत्वा महापदुमत्थेरस्स पेसेसि. थेरो ‘‘न कप्पती’’ति पटिक्खिपि. चेतियघरे सुवण्णपदुमसुवण्णबुब्बुळकादीनि होन्ति, एतानिपि अनामासानि. चेतियघरगोपका पन रूपियछड्डकट्ठाने ठिता, तस्मा तेसं केळापयितुं वट्टतीति वुत्तं. कुरुन्दियं पन तं पटिक्खित्तं. सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातं. आरकूटलोहम्पि जातरूपगतिकमेव अनामासन्ति सब्बअट्ठकथासु वुत्तं. सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा. भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपतिमण्डिते, तत्थ सब्बूपकरणानि भिक्खूनं पटिजग्गितुं वट्टति.

लोहितङ्कमसारगल्ला धोतविद्धा अनामासा, इतरे आमासा, भण्डमूलत्थाय वट्टन्तीति वुत्ता. महापच्चरियं पन ‘‘धोतापि अधोतापि सब्बसो अनामासा न च सम्पटिच्छितुं वट्टन्ती’’ति वुत्तं.

सब्बं आवुधभण्डं अनामासं, भण्डमूलत्थाय दीय्यमानम्पि न सम्पटिच्छितब्बं. सत्थवणिज्जा नाम न वट्टति. सुद्धधनुदण्डोपि धनुजियापि पतोदोपि अङ्कुसोपि अन्तमसो वासिफरसुआदीनिपि आवुधसङ्खेपेन कतानि अनामासानि. सचे केनचि विहारे सत्ति वा तोमरो वा ठपितो होति, विहारं जग्गन्तेन ‘‘हरन्तू’’ति सामिकानं पेसेतब्बं. सचे न हरन्ति, तं अचालेन्तेन विहारो पटिजग्गितब्बो. युद्धभूमियं पतितं असिं वा सत्तिं वा तोमरं वा दिस्वा पासाणेन वा केनचि वा असिं भिन्दित्वा सत्थकत्थाय गहेतुं वट्टति, इतरानिपि वियोजेत्वा किञ्चि सत्थकत्थाय गहेतुं वट्टति किञ्चि कत्तरदण्डादिअत्थाय. ‘‘इदं गण्हथा’’ति दीय्यमानं पन ‘‘विनासेत्वा कप्पियभण्डं करिस्सामी’’ति सब्बम्पि सम्पटिच्छितुं वट्टति.

मच्छजालपक्खिजालादीनिपि फलकजालिकादीनि सरपरित्तानानीपि सब्बानि अनामासानि. परिभोगत्थाय लब्भमानेसु पन जालं ताव ‘‘आसनस्स वा चेतियस्स वा उपरि बन्धिस्सामि, छत्तं वा वेठेस्सामी’’ति गहेतुं वट्टति. सरपरित्तानं सब्बम्पि भण्डमूलत्थाय सम्पटिच्छितुं वट्टति. परूपरोधनिवारणञ्हि एतं न उपरोधकरन्ति फलकं दन्तकट्ठभाजनं करिस्सामीति गहेतुं वट्टति.

चम्मविनद्धानि वीणाभेरिआदीनि अनामासानि. कुरुन्दियं पन ‘‘भेरिसङ्घाटोपि वीणासङ्घाटोपि तुच्छपोक्खरम्पि मुखवट्टियं आरोपितचम्मम्पि वीणादण्डकोपि सब्बं अनामास’’न्ति वुत्तं. ओनहितुं वा ओनहापेतुं वा वादेतुं वा वादापेतुं वा न लब्भतियेव. चेतियङ्गणे पूजं कत्वा मनुस्सेहि छड्डितं दिस्वापि अचालेत्वाव अन्तरन्तरे सम्मज्जितब्बं, कचवरछड्डनकाले पन कचवरनियामेनेव हरित्वा एकमन्तं निक्खिपितुं वट्टतीति महापच्चरियं वुत्तं. भण्डमूलत्थाय सम्पटिच्छितुम्पि वट्टति. परिभोगत्थाय लब्भमानेसु पन वीणादोणिकञ्च भेरिपोक्खरञ्च दन्तकट्ठभाजनं करिस्साम चम्मं सत्थककोसकन्ति एवं तस्स तस्स परिक्खारस्स उपकरणत्थाय गहेत्वा तथा तथा कातुं वट्टति.

पुराणदुतियिकावत्थु उत्तानमेव. यक्खिवत्थुस्मिं सचेपि परनिम्मितवसवत्तिदेविया कायसंसग्गं समापज्जति थुल्लच्चयमेव. पण्डकवत्थु च सुत्तित्थिवत्थु च पाकटमेव. मतित्थिवत्थुस्मिं पाराजिकप्पहोनककाले थुल्लच्चयं, ततो परं दुक्कटं. तिरच्छानगतवत्थुस्मिं नागमाणविकायपि सुपण्णमाणविकायपि किन्नरियापि गावियापि दुक्कटमेव. दारुधीतलिकावत्थुस्मिं न केवलं दारुना एव, अन्तमसो चित्तकम्मलिखितेपि इत्थिरूपे दुक्कटमेव.

२८२. सम्पीळनवत्थु उत्तानत्थमेव. सङ्कमवत्थुस्मिं एकपदिकसङ्कमो वा होतु सकटमग्गसङ्कमो वा, चालेस्सामीति पयोगे कतमत्तेव चालेतु वा मा वा, दुक्कटं. मग्गवत्थु पाकटमेव. रुक्खवत्थुस्मिं रुक्खो महन्तो वा होतु महाजम्बुप्पमाणो खुद्दको वा, तं चालेतुं सक्कोतु वा मा वा, पयोगमत्तेन दुक्कटं. नावावत्थुस्मिम्पि एसेव नयो. रज्जवत्थुस्मिं यं रज्जुं आविञ्छन्तो ठाना चालेतुं सक्कोति, तत्थ थुल्लच्चयं. या महारज्जु होति, ईसकम्पि ठाना न चलति, तत्थ दुक्कटं. दण्डेपि एसेव नयो. भूमियं पतितमहारुक्खोपि हि दण्डग्गहणेनेव इध गहितो. पत्तवत्थु पाकटमेव. वन्दनवत्थुस्मिं इत्थी पादे सम्बाहित्वा वन्दितुकामा वारेतब्बा पादा वा पटिच्छादेतब्बा, निच्चलेन वा भवितब्बं. निच्चलस्स हि चित्तेन सादियतोपि अनापत्ति. अवसाने गहणवत्थुपाकटमेवाति.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.