३. दुट्ठुल्लवाचासिक्खापदवण्णना
२८३. तेन समयेन बुद्धो भगवाति दुट्ठुल्लवाचासिक्खापदं. तत्थ आदिस्साति अपदिसित्वा. वण्णम्पि भणतीतिआदीनि परतो आवि भविस्सन्ति. छिन्निकाति छिन्नओत्तप्पा. धुत्तिकाति सठा. अहिरिकायोति निल्लज्जा. उहसन्तीति सितं कत्वा मन्दहसितं हसन्ति. उल्लपन्तीति ‘‘अहो अय्यो’’तिआदिना नयेन उच्चकरणिं नानाविधं पलोभनकथं कथेन्ति. उज्जग्घन्तीति महाहसितं हसन्ति. उप्पण्डेन्तीति ‘‘पण्डको अयं, नायं पुरिसो’’तिआदिना नयेन परिहासं करोन्ति.
२८५. सारत्तोति दुट्ठुल्लवाचस्सादरागेन सारत्तो. अपेक्खवा पटिबद्धचित्तोति वुत्तनयमेव, केवलं इध वाचस्सादरागो योजेतब्बो. मातुगामं दुट्ठुल्लाहि वाचाहीति एत्थ अधिप्पेतं मातुगामं दस्सेन्तो ‘‘मातुगामो’’तिआदिमाह. तत्थ विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितुन्ति या पण्डिता सात्थकनिरत्थककथं असद्धम्मसद्धम्मपटिसंयुत्तकथञ्च जानितुं पटिबला, अयं इध अधिप्पेता. या पन महल्लिकापि बाला एलमूगा अयं इध अनधिप्पेताति दस्सेति.
ओभासेय्याति अवभासेय्य नानाप्पकारकं असद्धम्मवचनं वदेय्य. यस्मा पनेवं ओभासन्तस्स यो सो ओभासो नाम, सो अत्थतो अज्झाचारो होति रागवसेन अभिभवित्वा सञ्ञमवेलं आचारो, तस्मा तमत्थं दस्सेन्तो ‘‘ओभासेय्याति अज्झाचारो वुच्चती’’ति आह. यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा युवा युवतिन्ति अत्थो.
द्वे मग्गे आदिस्सातिआदि येनाकारेन ओभासतो सङ्घादिसेसो होति, तं दस्सेतुं वुत्तं. तत्थ द्वे मग्गेति वच्चमग्गञ्च पस्सावमग्गञ्च. सेसं उद्देसे ताव पाकटमेव. निद्देसे पन थोमेतीति ‘‘इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, न ताव सीसं एति. ‘‘तव वच्चमग्गो च पस्सावमग्गो च ईदिसो तेन नाम ईदिसेन इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, सीसं एति, सङ्घादिसेसो. वण्णेति पसंसतीति इमानि पन थोमनपदस्सेव वेवचनानि.
खुंसेतीति वाचापतोदेन घट्टेति. वम्भेतीति अपसादेति. गरहतीति दोसं देति. परतो पन पाळिया आगतेहि ‘‘अनिमित्तासी’’तिआदीहि एकादसहि पदेहि अघटिते सीसं न एति, घटितेपि तेसु सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासीति इमेहि तीहि घटितेयेव सङ्घादिसेसो.
देहि मेति याचनायपि एत्तकेनेव सीसं न एति, ‘‘मेथुनं धम्मं देही’’ति एवं मेथुनधम्मेन घटिते एव सङ्घादिसेसो.
कदा ते माता पसीदिस्सतीतिआदीसु आयाचनवचनेसुपि एत्तकेनेव सीसं न एति, ‘‘कदा ते माता पसीदिस्सति, कदा ते मेथुनं धम्मं लभिस्सामी’’ति वा ‘‘तव मातरि पसन्नाय मेथुनं धम्मं लभिस्सामी’’ति वा आदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो.
कथं त्वं सामिकस्स देसीतिआदीसु पुच्छावचनेसुपि मेथुनधम्मन्ति वुत्तेयेव सङ्घादिसेसो, न इतरथा. एवं किर त्वं सामिकस्स देसीति पटिपुच्छावचनेसुपि एसेव नयो.
आचिक्खनाय पुट्ठो भणतीति ‘‘कथं ददमाना सामिकस्स पिया होती’’ति एवं पुट्ठो आचिक्खति. एत्थ च ‘‘एवं देहि एवं ददमाना’’ति वुत्तेपि सीसं न एति. ‘‘मेथुनधम्मं एवं देहि एवं उपनेहि एवं मेथुनधम्मं ददमाना उपनयमाना पिया होती’’तिआदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो. अनुसासनीवचनेसुपि एसेव नयो.
अक्कोसनिद्देसे – अनिमित्तासीति निमित्तरहितासि, कुञ्चिकपणालिमत्तमेव तव दकसोतन्ति वुत्तं होति.
निमित्तमत्तासीति तव इत्थिनिमित्तं अपरिपुण्णं सञ्ञामत्तमेवाति वुत्तं होति. अलोहिताति सुक्खसोता. धुवलोहिताति निच्चलोहिता किलिन्नदकसोता. धुवचोळाति निच्चपक्खित्ताणिचोळा, सदा आणिचोळकं सेवसीति वुत्तं होति. पग्घरन्तीति सवन्ती; सदा ते मुत्तं सवतीति वुत्तं होति. सिखरणीति बहिनिक्खन्तआणिमंसा. इत्थिपण्डकाति अनिमित्ताव वुच्चति. वेपुरिसिकाति समस्सुदाठिका पुरिसरूपा इत्थी. सम्भिन्नाति सम्भिन्नवच्चमग्गपस्सावमग्गा. उभतोब्यञ्जनाति इत्थिनिमित्तेन च पुरिसनिमित्तेन चाति उभोहि ब्यञ्जनेहि समन्नागता.
इमेसु च पन एकादससु पदेसु सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासीति इमानियेव तीणि पदानि सुद्धानि सीसं एन्ति. इति इमानि च तीणि पुरिमानि च वच्चमग्गपस्सावमग्गमेथुनधम्मपदानि तीणीति छ पदानि सुद्धानि आपत्तिकरानि. सेसानि अनिमित्तातिआदीनि ‘‘अनिमित्ते मेथुनधम्मं मे देही’’ति वा ‘‘अनिमित्तासि मेथुनधम्मं मे देही’’ति वा आदिना नयेन मेथुनधम्मेन घटितानेव आपत्तिकरानि होन्तीति वेदितब्बानि.
२८६. इदानि य्वायं ओतिण्णो विपरिणतेन चित्तेन ओभासति, तस्स वच्चमग्गपस्सावमग्गे आदिस्स एतेसं वण्णभणनादीनं वसेन वित्थारतो आपत्तिभेदं दस्सेन्तो ‘‘इत्थी च होति इत्थिसञ्ञी’’तिआदिमाह. तेसं अत्थो कायसंसग्गे वुत्तनयेनेव वेदितब्बो.
अयं पन विसेसो – अधक्खकन्ति अक्खकतो पट्ठाय अधो. उब्भजाणुमण्डल जाणुमण्डलतो पट्ठाय उद्धं. उब्भक्खकन्ति अक्खकतो पट्ठाय उद्धं. अधो जाणुमण्डलन्ति जाणुमण्डलतो पट्ठाय अधो. अक्खकं पन जाणुमण्डलञ्च एत्थेव दुक्कटक्खेत्ते सङ्गहं गच्छन्ति भिक्खुनिया कायसंसग्गे विय. न हि बुद्धा गरुकापत्तिं सावसेसं पञ्ञपेन्तीति. कायप्पटिबद्धन्ति वत्थं वा पुप्फं वा आभरणं वा.
२८७. अत्थपुरेक्खारस्साति अनिमित्तातिआदीनं पदानं अत्थं कथेन्तस्स, अट्ठकथं वा सज्झायं करोन्तस्स.
धम्मपुरेक्खारस्साति पाळिं वाचेन्तस्स वा सज्झायन्तस्स वा. एवं अत्थञ्च धम्मञ्च पुरक्खत्वा भणन्तस्स अत्थपुरेक्खारस्स च धम्मपुरेक्खारस्स च अनापत्ति.
अनुसासनिपुरेक्खारस्साति ‘‘इदानिपि अनिमित्तासि उभत्तोब्यञ्जनासि अप्पमादं इदानि करेय्यासि, यथा आयतिम्पि एवरूपा न होहिसी’’ति एवं अनुसिट्ठिं पुरक्खत्वा भणन्तस्स अनुसासनिपुरेक्खारस्स अनापत्ति. यो पन भिक्खुनीनं पाळिं वाचेन्तो पकतिवाचनामग्गं पहाय हसन्तो हसन्तो ‘‘सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासी’’ति पुनप्पुनं भणति, तस्स आपत्तियेव. उम्मत्तकस्स अनापत्ति. इध आदिकम्मिको उदायित्थेरो, तस्स अनापत्ति आदिकम्मिकस्साति.
पदभाजनीयवण्णना निट्ठिता.
समुट्ठानादीसु इदं सिक्खापदं तिसमुट्ठानं कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति.
२८८. विनीतवत्थूसु लोहितवत्थुस्मिं सो भिक्खु इत्थिया लोहितकं निमित्तं सन्धायाह – इतरा न अञ्ञासि, तस्मा दुक्कटं.
कक्कसलोमन्ति रस्सलोमेहि बहुलोमं. आकिण्णलोमन्ति जटितलोमं. खरलोमन्ति थद्धलोमं. दीघलोमन्ति अरस्सलोमं. सब्बं इत्थिनिमित्तमेव सन्धाय वुत्तं.
२८९. वापितं खो तेति असद्धम्मं सन्धायाह, सा असल्लक्खेत्वा नो च खो पटिवुत्तन्ति आह. पटिवुत्तं नाम उदकवप्पे बीजेहि अप्पतिट्ठितोकासे पाणकेहि विनासितबीजे वा ओकासे पुन बीजं पतिट्ठापेत्वा उदकेन आसित्तं, थलवप्पे विसमपतितानं वा बीजानं समकरणत्थाय पुन अट्ठदन्तकेन समीकतं, तेसु अञ्ञतरं सन्धाय एसा आह.
मग्गवत्थुस्मिं मग्गो संसीदतीति अङ्गजातमग्गं सन्धायाह. सेसं उत्तानमेवाति.
दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.