१. सञ्चिच्चपाणसिक्खापदवण्णना

३८२. सप्पाणकवग्गस्स पठमसिक्खापदे – इस्सासो होतीति गिहिकाले धनुग्गहाचरियो होति. जीविता वोरोपिताति जीविता वियोजिता.

सिक्खापदेपि वोरोपेय्याति वियोजेय्य. यस्मा पन वोहारमत्तमेवेतं; न हेत्थ किञ्चि वियोजिते सीसालङ्कारे सीसं विय जीविता वोरोपिते पाणेपि जीवितं नाम विसुं तिट्ठति, अञ्ञदत्थु अन्तरधानमेव गच्छति, तस्मा तमत्थं दस्सेतुं पदभाजने ‘‘जीवितिन्द्रियं उपच्छिन्दती’’तिआदि वुत्तं. इमस्मिञ्च सिक्खापदे तिरच्छानगतोयेव ‘‘पाणो’’ति वेदितब्बो. तं खुद्दकम्पि महन्तम्पि मारेन्तस्स आपत्तिनानाकरणं नत्थि. महन्ते पन उपक्कममहन्तत्ता अकुसलमहत्तं होति. पाणे पाणसञ्ञीति अन्तमसो मञ्चपीठं सोधेन्तो मङ्गुलबीजकेपि पाणसञ्ञी निक्कारुणिकताय तं भिन्दन्तो अपनेति, पाचित्तियं. तस्मा एवरूपेसु ठानेसु कारुञ्ञं उपट्ठपेत्वा अप्पमत्तेन वत्तं कातब्बं. सेसं मनुस्सविग्गहे वुत्तनयेनेव वेदितब्बं सद्धिं समुट्ठानादीहीति.

सञ्चिच्चपाणसिक्खापदं पठमं.