१. आवसथपिण्डसिक्खापदवण्णना
२०३. भोजनवग्गस्स पठमसिक्खापदे – आवसथपिण्डोति आवसथे पिण्डो. समन्ता परिक्खित्तं अद्धिकगिलानगब्भिनिपब्बजितानं यथानुरूपं पञ्ञत्तमञ्चपीठं अनेकगब्भपमुखपरिच्छेदं आवसथं कत्वा तत्थ पुञ्ञकामताय पिण्डो पञ्ञत्तो होति, यागुभत्तभेसज्जादि सब्बं तेसं तेसं दानत्थाय ठपितं होतीति अत्थो. हिय्योपीति स्वेपि. अपसक्कन्तीति अपगच्छन्ति. मनुस्सा उज्झायन्तीति तित्थिये अपस्सन्ता ‘‘तित्थिया कुहिं गता’’‘‘इमे पस्सित्वा पक्कन्ता’’ति सुत्वा उज्झायन्ति. कुक्कुच्चायन्तोति कुक्कुच्चं करोन्तो, अकप्पियसञ्ञं उप्पादेन्तोति अत्थो.
२०६. सक्कोति तम्हा आवसथा पक्कमितुन्ति अद्धयोजनं वा योजनं वा गन्तुं सक्कोति. न सक्कोतीति एत्तकमेव न सक्कोति. अनोदिस्साति इमेसंयेव वा एत्तकानंयेव वाति एकं पासण्डं अनुद्दिसित्वा सब्बेसं पञ्ञत्तो होति. यावदत्थोति भोजनम्पि एत्तकन्ति अपरिच्छिन्दित्वा यावदत्थो पञ्ञत्तो होति. सकिं भुञ्जितब्बन्ति एकदिवसं भुञ्जितब्बं, दुतियदिवसतो पट्ठाय पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं.
अयं पनेत्थ विनिच्छयो – एककुलेन वा नानाकुलेहि वा एकतो हुत्वा एकस्मिं ठाने वा नानाठानेसु वा ‘‘अज्ज एकस्मिं; स्वे एकस्मि’’न्ति एवं अनियमितट्ठाने वा पञ्ञत्तं एकस्मिं ठाने एकदिवसं भुञ्जित्वा दुतियदिवसे तस्मिं ठाने अञ्ञस्मिं वा भुञ्जितुं न वट्टति. नानाकुलेहि पन नानाठानेसु पञ्ञत्तं एकस्मिं ठाने एकदिवसं भुञ्जित्वा दुतियदिवसे अञ्ञत्थ भुञ्जितुं वट्टति. पटिपाटिं पन खेपेत्वा पुन आदितो पट्ठाय भुञ्जितुं न वट्टतीति महापच्चरियं वुत्तं. एकपूगनानापूगएकगामनानागामेसुपि एसेव नयो. योपि एककुलस्स वा नानाकुलानं वा एकतो पञ्ञत्तो तण्डुलादीनं अभावेन अन्तरन्तरा छिज्जति, सोपि न भुञ्जितब्बो. सचे पन ‘‘न सक्कोम दातु’’न्ति उपच्छिन्दित्वा पुन कल्याणचित्ते उप्पन्ने दातुं आरभन्ति, एतं पुन एकदिवसं भुञ्जितुं वट्टतीति महापच्चरियं वुत्तं.
२०८. अनापत्ति गिलानस्साति गिलानस्स अनुवसित्वा भुञ्जन्तस्स अनापत्ति. गच्छन्तो वाति यो गच्छन्तो अन्तरामग्गे एकदिवसं गतट्ठाने च एकदिवसं भुञ्जति, तस्सापि अनापत्ति. आगच्छन्तेपि एसेव नयो. गन्त्वा पच्चागच्छन्तोपि अन्तरामग्गे एकदिवसं आगतट्ठाने च एकदिवसं भुञ्जितुं लभति. गच्छिस्सामीति भुञ्जित्वा निक्खन्तस्स नदी वा पूरति चोरादिभयं वा होति, सो निवत्तित्वा खेमभावं ञत्वा गच्छन्तो पुन एकदिवसं भुञ्जितुं लभतीति सब्बमिदं महापच्चरियादीसु वुत्तं. ओदिस्स पञ्ञत्तो होतीति भिक्खूनंयेव अत्थाय उद्दिसित्वा पञ्ञत्तो होति. न यावदत्थोति यावदत्थं पञ्ञत्तो न होति, थोकं थोकं लब्भति, तादिसं निच्चम्पि भुञ्जितुं वट्टति. पञ्च भोजनानि ठपेत्वा सब्बत्थाति यागुखज्जकफलाफलादिभेदे सब्बत्थ अनापत्ति. यागुआदीनि हि निच्चम्पि भुञ्जितुं वट्टति. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – कायतो च कायचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं तिचित्तं, तिवेदनन्ति.
आवसथपिण्डसिक्खापदं पठमं.