२. गणभोजनसिक्खापदवण्णना
२०९. दुतियसिक्खापदे – परिहीनलाभसक्कारोति सो किर अजातसत्तुना राजानं मारापेत्वापि अभिमारे योजेत्वापि रुहिरुप्पादं कत्वापि गुळ्हपटिच्छन्नो अहोसि. यदा पन दिवायेव धनपालकं पयोजेसि, तदा पाकटो जातो. ‘‘कथं देवदत्तो हत्थिं पयोजेसी’’ति परिकथाय उप्पन्नाय ‘‘न केवलं हत्थिं पयोजेसि, राजानम्पि मारापेसि, अभिमारेपि पेसेसि, सिलम्पि पविज्झि, पापो देवदत्तो’’ति पाकटो अहोसि. ‘‘केन सद्धिं इदं कम्ममकासी’’ति च वुत्ते ‘‘रञ्ञा अजातसत्तुना’’ति आहंसु. ततो नागरा ‘‘कथञ्हि नाम राजा एवरूपं चोरं सासनकण्टकं गहेत्वा विचरिस्सती’’ति उट्ठहिंसु. राजा नगरसङ्खोभं ञत्वा देवदत्तं नीहरि. ततो पट्ठाय चस्स पञ्चथालिपाकसतानि उपच्छिन्दि, उपट्ठानम्पिस्स न अगमासि, अञ्ञेपिस्स मनुस्सा न किञ्चि दातब्बं वा कातब्बं वा मञ्ञिंसु. तेन वुत्तं – ‘‘परिहीनलाभसक्कारो’’ति. कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जतीति ‘‘मा मे गणो भिज्जी’’ति परिसं पोसेन्तो ‘‘त्वं एकस्स भिक्खुनो भत्तं देहि, त्वं द्विन्न’’न्ति एवं विञ्ञापेत्वा सपरिसो कुलेसु भुञ्जति.
२११. चीवरं परित्तं उप्पज्जतीति भत्तं अगण्हन्तानं चीवरं न देन्ति, तस्मा परित्तं उप्पज्जति.
२१२. चीवरकारके भिक्खू भत्तेन निमन्तेन्तीति गामे पिण्डाय चरित्वा चिरेन चीवरं निट्ठापेन्ते दिस्वा ‘‘एवं लहुं निट्ठापेत्वा चीवरं परिभुञ्जिस्सन्ती’’ति पुञ्ञकामताय निमन्तेन्ति.
२१५. नानावेरज्जकेति नानाविधेहि अञ्ञरज्जेहि आगते. ‘‘नानाविरज्जके’’तिपि पाठो, अयमेवत्थो.
२१७-८. गणभोजनेति गणस्स भोजने. इध च गणो नाम चत्तारो भिक्खू आदिं कत्वा ततुत्तरिं भिक्खू अधिप्पेता, तेनेव सब्बन्तिमं परिच्छेदं दस्सेन्तो आह ‘‘यत्थ चत्तारो भिक्खू…पे… एतं गणभोजनं नामा’’ति. तं पनेतं गणभोजनं द्वीहाकारेहि पसवति निमन्तनतो वा विञ्ञत्तितो वा. कथं निमन्तनतो पसवति? चत्तारो भिक्खू उपसङ्कमित्वा ‘‘तुम्हे, भन्ते, ओदनेन निमन्तेमि, ओदनं मे गण्हथ आकङ्खथ ओलोकेथ अधिवासेथ पटिमानेथा’’ति एवं येन केनचि वेवचनेन वा भासन्तरेन वा पञ्चन्नं भोजनानं नामं गहेत्वा निमन्तेति. एवं एकतो निमन्तिता परिच्छिन्नकालवसेन अज्जतनाय वा स्वातनाय वा एकतो गच्छन्ति, एकतो गण्हन्ति, एकतो भुञ्जन्ति, गणभोजनं होति, सब्बेसं आपत्ति. एकतो निमन्तिता एकतो वा नानतो वा गच्छन्ति, एकतो गण्हन्ति, नानतो भुञ्जन्ति, आपत्तियेव. पटिग्गहणमेव हि एत्थ पमाणं. एकतो निमन्तिता एकतो वा नानतो वा गच्छन्ति, नानतो गण्हन्ति, एकतो वा नानतो वा भुञ्जन्ति, अनापत्ति. चत्तारि परिवेणानि वा विहारे वा गन्त्वा नानतो निमन्तिता एकट्ठाने ठितेसुयेव वा एको पुत्तेन एको पितराति एवम्पि नानतो निमन्तिता एकतो वा नानतो वा गच्छन्तु, एकतो वा नानतो वा भुञ्जन्तु, सचे एकतो गण्हन्ति, गणभोजनं होति, सब्बेसं आपत्ति. एवं ताव निमन्तनतो पसवति.
कथं विञ्ञत्तितो? चत्तारो भिक्खू एकतो ठिता वा निसिन्ना वा उपासकं दिस्वा ‘‘अम्हाकं चतुन्नम्पि भत्तं देही’’ति वा विञ्ञापेय्युं, पाटेक्कं वा पस्सित्वा ‘‘मय्हं देहि, मय्हं देही’’ति एवं एकतो वा नानतो वा विञ्ञापेत्वा एकतो वा गच्छन्तु नानतो वा, भत्तं गहेत्वापि एकतो वा भुञ्जन्तु नानतो वा, सचे एकतो गण्हन्ति, गणभोजनं होति, सब्बेसं आपत्ति. एवं विञ्ञत्तितो पसवति.
पादापि फलिताति यथा महाचम्मस्स परतो मंसं दिस्सति; एवं फालिता, वालिकाय वा सक्खराय वा पहटमत्ते दुक्खं उप्पादेन्ति, न सक्का होति अन्तोगामे पिण्डाय चरितुं. ईदिसे गेलञ्ञे गिलानसमयोति भुञ्जितब्बं, न लेसकप्पियं कातब्बं.
चीवरे कयिरमानेति यदा साटकञ्च सुत्तञ्च लभित्वा चीवरं करोन्ति तदा; विसुञ्हि चीवरकारसमयो नाम नत्थि. तस्मा यो तत्थ चीवरे कत्तब्बं यंकिञ्चि कम्मं करोति, महापच्चरियञ्हि ‘‘अन्तमसो सूचिवेधनको’’तिपि वुत्तं, तेन चीवरकारसमयोति भुञ्जितब्बं. कुरुन्दियं पन वित्थारेनेव वुत्तं. यो चीवरं विचारेति, छिन्दति, मोघसुत्तं ठपेति, आगन्तुकपट्टं ठपेति, पच्चागतं सिब्बति, आगन्तुकपट्टं बन्धति, अनुवातं छिन्दति घट्टेति आरोपेति, तत्थ पच्चागतं सिब्बति, सुत्तं करोति वलेति, पिप्फलिकं निसेति, परिवत्तनं करोति, सब्बोपि चीवरं करोतियेवाति वुच्चति. यो पन समीपे निसिन्नो जातकं वा धम्मपदं वा कथेति, अयं न चीवरकारको. एतं ठपेत्वा सेसानं गणभोजने अनापत्तीति.
अद्धयोजनन्ति एत्तकम्पि अद्धानं गन्तुकामेन. यो पन दूरं गन्तुकामो, तत्थ वत्तब्बमेव नत्थि. गच्छन्तेनाति अद्धानं गच्छन्तेन, अद्धयोजनब्भन्तरे गावुतेपि भुञ्जितुं वट्टति. गतेन भुञ्जितब्बन्ति गतेन एकदिवसं भुञ्जितब्बं. नावाभिरुहनेपि एसेव नयो. अयं पन विसेसो – अभिरुळ्हेन इच्छितट्ठानं गन्त्वापि याव न ओरोहति ताव भुञ्जितब्बन्ति महापच्चरियं वुत्तं. चतुत्थे आगतेति अयं अन्तिमपरिच्छेदो, चतुत्थेपि आगते यत्थ न यापेन्ति; सो महासमयो. यत्थ पन सतं वा सहस्सं वा सन्निपतन्ति, तत्थ वत्तब्बमेव नत्थि. तस्मा तादिसे काले ‘‘महासमयो’’ति अधिट्ठहित्वा भुञ्जितब्बं. यो कोचि परिब्बाजकसमापन्नोति सहधम्मिकेसु वा तित्थियेसु वा अञ्ञतरो, एतेसञ्हि येन केनचि कते भत्ते ‘‘समणभत्तसमयो’’ति भुञ्जितब्बं.
२२०. अनापत्ति समयेति सत्तसु समयेसु अञ्ञतरस्मिं अनापत्ति. द्वे तयो एकतोति येपि अकप्पियनिमन्तनं सादियित्वा द्वे वा तयो वा एकतो गहेत्वा भुञ्जन्ति, तेसम्पि अनापत्ति.
तत्थ अनिमन्तितचतुत्थं, पिण्डपातिकचतुत्थं, अनुपसम्पन्नचतुत्थं, पत्तचतुत्थं, गिलानचतुत्थन्ति पञ्चन्नं चतुक्कानं वसेन विनिच्छयो वेदितब्बो. कथं? इधेकच्चो चत्तारो भिक्खू ‘‘भत्तं गण्हथा’’ति निमन्तेति. तेसु तयो गता, एको न गतो. उपासको ‘‘एको भन्ते थेरो कुहि’’न्ति पुच्छति. नागतो उपासकाति. सो अञ्ञं तङ्खणप्पत्तं कञ्चि ‘‘एहि भन्ते’’ति पवेसेत्वा चतुन्नम्पि भत्तं देति, सब्बेसं अनापत्ति. कस्मा? गणपूरकस्स अनिमन्तितत्ता. तयो एव हि तत्थ निमन्तिता गण्हिंसु, तेहि गणो न पूरति, गणपूरको च अनिमन्तितो, तेन गणो भिज्जतीति इदं अनिमन्तितचतुत्थं.
पिण्डपातिकचतुत्थे – निमन्तनकाले एको पिण्डपातिको होति, सो नाधिवासेति. गमनवेलाय पन ‘‘एहि भन्ते’’ति वुत्ते अनधिवासितत्ता अनागच्छन्तम्पि ‘‘एथ भिक्खं लच्छथा’’ति गहेत्वा गच्छन्ति, सो तं गणं भिन्दति. तस्मा सब्बेसं अनापत्ति.
अनुपसम्पन्नचतुत्थे – सामणेरेन सद्धिं निमन्तिता होन्ति, सोपि गणं भिन्दति.
पत्तचतुत्थे – एको सयं अगन्त्वा पत्तं पेसेति; एवम्पि गणो भिज्जति. तस्मा सब्बेसं अनापत्ति.
गिलानचतुत्थे – गिलानेन सद्धिं निमन्तिता होन्ति, तत्थ गिलानस्सेव अनापत्ति, इतरेसं पन गणपूरको होति. न हि गिलानेन गणो भिज्जति. तस्मा तेसं आपत्तियेव. महापच्चरियं पन अविसेसेन वुत्तं.
समयलद्धको सयमेव मुच्चति, सेसानं गणपूरकत्ता आपत्तिकरो होति. तस्मा चीवरदानसमयलद्धकादीनम्पि वसेन चतुक्कानि वेदितब्बानि. सचे पन अधिवासेत्वा गतेसुपि चतूसु जनेसु एको पण्डितो भिक्खु ‘‘अहं तुम्हाकं गणं भिन्दिस्सामि, निमन्तनं सादियथा’’ति वत्वा यागुखज्जकावसाने भत्तत्थाय पत्तं गण्हन्तानं अदत्वा ‘‘इमे ताव भिक्खू भोजेत्वा विस्सज्जेथ, अहं पच्छा अनुमोदनं कत्वा गमिस्सामी’’ति निसिन्नो. तेसु भुत्वा गतेसु ‘‘देथ भन्ते पत्त’’न्ति उपासकेन पत्तं गहेत्वा भत्ते दिन्ने भुञ्जित्वा अनुमोदनं कत्वा गच्छति, सब्बेसं अनापत्ति. पञ्चन्नञ्हि भोजनानंयेव वसेन गणभोजने विसङ्केतं नत्थि. ओदनेन निमन्तिता कुम्मासं गण्हन्तापि आपत्तिं आपज्जन्ति. तानि च तेहि एकतो न गहितानि. यागुआदीसु पन विसङ्केतं होति, तानि तेहि एकतो गहितानीति. एवं एको पण्डितो अञ्ञेसम्पि अनापत्तिं करोति.
तस्मा सचे कोचि सङ्घभत्तं कत्तुकामेन निमन्तनत्थाय पेसितो विहारं आगम्म ‘‘भन्ते, स्वे अम्हाकं घरे भिक्खं गण्हथा’’ति अवत्वा ‘‘भत्तं गण्हथा’’ति वा ‘‘सङ्घभत्तं गण्हथा’’ति वा ‘‘सङ्घो भत्तं गण्हातू’’ति वा वदति, भत्तुद्देसकेन पण्डितेन भवितब्बं, नेमन्तनिका गणभोजनतो पिण्डपातिका च धुतङ्गभेदतो मोचेतब्बा. कथं? एवं ताव वत्तब्बं – ‘‘स्वे न सक्का उपासका’’ति. ‘‘पुनदिवसे, भन्ते’’ति. ‘‘पुनदिवसेपि न सक्का’’ति. एवं याव अद्धमासम्पि हरित्वा पुन वत्तब्बो – ‘‘त्वं किं अवचा’’ति? सचे पुनपि ‘‘सङ्घभत्तं गण्हथा’’ति वदति, ततो ‘‘इमं ताव उपासक पुप्फं कप्पियं करोहि, इमं तिण’’न्ति एवं विक्खेपं कत्वा पुन ‘‘किं कथयित्था’’ति पुच्छितब्बो. सचे पुनपि तथेव वदति, ‘‘आवुसो, त्वं पिण्डपातिके वा महाथेरे वा न लच्छसि, सामणेरे लच्छसी’’ति वत्तब्बो. ‘‘ननु, भन्ते असुकस्मिञ्च असुकस्मिञ्च गामे भदन्ते भोजेसुं, अहं कस्मा न लभामी’’ति च वुत्ते ‘‘ते निमन्तेतुं जानन्ति, त्वं न जानासी’’ति. ते कथं निमन्तेसुं भन्तेति? ते एवमाहंसु – ‘‘अम्हाकं, भन्ते, भिक्खं गण्हथा’’ति. सचे सोपि तथेव वदति, वट्टति. अथ पुनपि ‘‘भत्तं गण्हथा’’ति वदति, ‘‘न दानि त्वं, आवुसो, बहू भिक्खू लच्छसि, तयो एव लच्छसी’’ति वत्तब्बो. ‘‘ननु, भन्ते, असुकस्मिञ्च असुकस्मिञ्च गामे सकलं भिक्खुसङ्घं भोजेसुं, अहं कस्मा न लभामी’’ति? ‘‘त्वं निमन्तेतुं न जानासी’’ति. ‘‘ते कथं निमन्तेसु’’न्ति? ते ‘‘भिक्खं गण्हथा’’ति आहंसूति. सचे सोपि ‘‘भिक्खं गण्हथा’’ति वदति, वट्टति. अथ पुनपि ‘‘भत्तमेवा’’ति वदति, ततो वत्तब्बो – ‘‘गच्छ त्वं, नत्थम्हाकं तव भत्तेनत्थो, निबद्धगोचरो एस अम्हाकं, मयमेत्थ पिण्डाय चरिस्सामा’’ति. तं ‘‘चरथ, भन्ते’’ति वत्वा आगतं पुच्छन्ति – ‘‘किं भो लद्धा भिक्खू’’ति. ‘‘किं एतेन बहु एत्थ वत्तब्बं, ‘थेरा स्वे पिण्डाय चरिस्सामा’ति आहंसु. मा दानि तुम्हे पमज्जित्था’’ति. दुतियदिवसे चेतियवत्तं कत्वा ठिता भिक्खू सङ्घत्थेरेन वत्तब्बा – ‘‘आवुसो, धुरगामे सङ्घभत्तं अपण्डितमनुस्सो पन अगमासि, गच्छाम धुरगामे पिण्डाय चरिस्सामा’’ति. भिक्खूहि थेरस्स वचनं कातब्बं, न दुब्बचेहि भवितब्बं, गामद्वारे अट्ठत्वाव पिण्डाय चरितब्बं. तेसु पत्तानि गहेत्वा निसीदापेत्वा भोजेन्तेसु भुञ्जितब्बं. सचे आसनसालाय भत्तं ठपेत्वा रथिकासु आहिण्डन्ता आरोचेन्ति – ‘‘आसनसालाय, भन्ते, भत्तं गण्हथा’’ति न वट्टति.
अथ पन भत्तं आदाय तत्थ तत्थ गन्त्वा ‘‘भत्तं गण्हथा’’ति वदन्ति, पटिकच्चेव वा विहारं अभिहरित्वा पतिरूपे ठाने ठपेत्वा आगतागतानं देन्ति, अयं अभिहटभिक्खा नाम वट्टति. सचे पन भत्तसालाय दानं सज्जेत्वा तं तं परिवेणं पहिणन्ति ‘‘भत्तसालाय भत्तं गण्हथा’’ति, न वट्टति. ये पन मनुस्सा पिण्डचारिके भिक्खू दिस्वा आसनसालं सम्मज्जित्वा तत्थ निसीदापेत्वा भोजेन्ति, न ते पटिक्खिपितब्बा. ये पन गामे भिक्खं अलभित्वा गामतो निक्खमन्ते भिक्खू दिस्वा ‘‘भन्ते भत्तं गण्हथा’’ति वदन्ति, ते पटिक्खिपितब्बा, न वा निवत्तितब्बं. सचे ‘‘निवत्तथ, भन्ते, भत्तं गण्हथा’’ति वदन्ति, ‘‘निवत्तथा’’ति वुत्तपदे निवत्तितुं वट्टति. ‘‘निवत्तथ भन्ते, घरे भत्तं कतं, गामे भत्तं कत’’न्ति वदन्ति, गेहे च गामे च भत्तं नाम यस्स कस्सचि होतीति निवत्तितुं वट्टति. ‘‘निवत्तथ, भत्तं गण्हथा’’ति सम्बन्धं कत्वा वदन्ति, निवत्तितुं न वट्टति. आसनसालतो पिण्डाय चरितुं निक्खमन्ते दिस्वा ‘‘निसीदथ भन्ते भत्तं गण्हथा’’ति वुत्तेपि एसेव नयो. निच्चभत्तन्ति धुवभत्तं वुच्चति. ‘‘निच्चभत्तं गण्हथा’’ति वदन्ति, बहूनम्पि एकतो गहेतुं वट्टति. सलाकभत्तादीसुपि एसेव नयो. सेसमेत्थ उत्तानमेव.
एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.
गणभोजनसिक्खापदं दुतियं.