३. उज्झापनकसिक्खापदवण्णना
१०३. ततियसिक्खापदे – दब्बं मल्लपुत्तं भिक्खू उज्झापेन्तीति ‘‘छन्दाय दब्बो मल्लपुत्तो’’तिआदीनि वदन्ता तं आयस्मन्तं तेहि भिक्खूहि अवजानापेन्ति, अवञ्ञाय ओलोकापेन्ति, लामकतो वा चिन्तापेन्ती’’ति अत्थो. लक्खणं पनेत्थ सद्दसत्थानुसारेन वेदितब्बं. ओज्झापेन्तीतिपि पाठो. अयमेवत्थो. छन्दायाति छन्देन पक्खपातेन; अत्तनो अत्तनो सन्दिट्ठसम्भत्तानं पणीतानि पञ्ञपेतीति अधिप्पायो. खिय्यन्तीति ‘‘छन्दाय दब्बो मल्लपुत्तो’’तिआदीनि वदन्ता पकासेन्ति.
१०५. उज्झापनके खिय्यनके पाचित्तियन्ति एत्थ येन वचनेन उज्झापेन्ति, तं उज्झापनकं. येन च खिय्यन्ति तं खिय्यनकं. तस्मिं उज्झापनके खिय्यनके. पाचित्तियन्ति वत्थुद्वये पाचित्तियद्वयं वुत्तं.
१०६. उज्झापनकं नाम उपसम्पन्नं सङ्घेन सम्मतं सेनासनपञ्ञापकं वा…पे… अप्पमत्तकविस्सज्जनकं वाति एतेसं पदानं ‘‘मङ्कुकत्तुकामो’’ति इमिना सम्बन्धो. अवण्णं कत्तुकामो अयसं कत्तुकामोति इमेसं पन वसेन उपसम्पन्नन्तिआदीसु ‘‘उपसम्पन्नस्सा’’ति एवं विभत्तिविपरिणामो कातब्बो. उज्झापेति वा खिय्यति वा आपत्ति पाचित्तियस्साति एत्थ पन यस्मा ‘‘खिय्यनकं नामा’’ति एवं मातिकापदं उद्धरित्वापि ‘‘उज्झापनकं नामा’’ति इमस्स पदस्स वुत्तविभङ्गोयेव वत्तब्बो होति, अञ्ञवादकसिक्खापदे विय अञ्ञो विसेसो नत्थि, तस्मा तं विसुं अनुद्धरित्वा अविभजित्वा निगमनमेव एकतो कतन्ति वेदितब्बं. धम्मकम्मे धम्मकम्मसञ्ञीतिआदीसु यं तस्स उपसम्पन्नस्स सम्मुतिकम्मं कतं तञ्चे धम्मकम्मं होति, सो च भिक्खु तस्मिं धम्मकम्मसञ्ञी उज्झापनकञ्च खिय्यनकञ्च करोति, अथस्स तस्मिं उज्झापनके च खिय्यनके च आपत्ति पाचित्तियस्साति इमिना नयेन अत्थो वेदितब्बो.
अनुपसम्पन्नं उज्झापेति वा खिय्यति वाति एत्थ उपसम्पन्नं सङ्घेन सम्मतं अञ्ञं अनुपसम्पन्नं उज्झापेति अवजानापेति, तस्स वा तं सन्तिके खिय्यतीति अत्थो. उपसम्पन्नं सङ्घेन असम्मतन्ति कम्मवाचाय असम्मतं केवलं ‘‘तवेसो भारो’’ति सङ्घेन आरोपितभारं भिक्खूनं वा फासुविहारत्थाय सयमेव तं भारं वहन्तं, यत्र वा द्वे तयो भिक्खू विहरन्ति, तत्र वा तादिसं कम्मं करोन्तन्ति अधिप्पायो. अनुपसम्पन्नं सङ्घेन सम्मतं वा असम्मतं वाति एत्थ पन किञ्चापि अनुपसम्पन्नस्स तेरस सम्मुतियो दातुं न वट्टन्ति. अथ खो उपसम्पन्नकाले लद्धसम्मुतिको पच्छा अनुपसम्पन्नभावे ठितो, तं सन्धाय ‘‘सङ्घेन सम्मतं वा’’ति वुत्तं. यस्स पन ब्यत्तस्स सामणेरस्स केवलं सङ्घेन वा सम्मतेन वा भिक्खुना ‘‘त्वं इदं कम्मं करोही’’ति भारो कतो, तादिसं सन्धाय ‘‘असम्मतं वा’’ति वुत्तं. सेसमेत्थ उत्तानमेवाति.
तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
उज्झापनकसिक्खापदं ततियं.