७. दुक्खधम्मसुत्तवण्णना

२४४. सत्तमे दुक्खधम्मानन्ति दुक्खसम्भवधम्मानं. पञ्चसु हि खन्धेसु सति छेदनवधबन्धनादिभेदं दुक्खं सम्भवति, तस्मा ते दुक्खसम्भवधम्मत्ता दुक्खधम्माति वुच्चन्ति. तथा खो पनस्साति तेनाकारेनस्स. यथास्स कामे पस्सतोति येनाकारेनस्स कामे पस्सन्तस्स. यथा चरन्तन्ति येनाकारेन चारञ्च विहारञ्च अनुबन्धित्वा चरन्तं. अङ्गारकासूपमा कामा दिट्ठा होन्तीति परियेट्ठिमूलकस्स चेव पटिसन्धिमूलकस्स च दुक्खस्स वसेन अङ्गारकासु विय महापरिळाहाति दिट्ठा होन्ति. कामे परियेसन्तानञ्हि नावाय महासमुद्दोगाहनअजपथसङ्कुपथपटिपज्जनउभतोब्यूळ्हसङ्गामपक्खन्दनादिवसेन परियेट्ठिमूलकम्पि, कामे परिभुञ्जन्तानं कामपरिभोगचेतनाय चतूसु अपायेसु दिन्नपटिसन्धिमूलकम्पि महापरिळाहदुक्खं उप्पज्जति. एवमेतस्स दुविधस्सापि दुक्खस्स वसेन अङ्गारकासु विय महापरिळाहाति दिट्ठा होन्ति.

दायन्ति अटविं. पुरतोपि कण्टकोति पुरिमपस्से विज्झितुकामो विय आसन्नट्ठानेयेव ठितकण्टको. पच्छतोतिआदीसुपि एसेव नयो. हेट्ठा पन पादेहि अक्कन्तट्ठानस्स सन्तिके, न अक्कन्तट्ठानेयेव. एवं सो कण्टकगब्भं पविट्ठो विय भवेय्य. मा मं कण्टकोति मा मं कण्टको विज्झीति कण्टकवेधं रक्खमानो.

दन्धो, भिक्खवे, सतुप्पादोति सतिया उप्पादोयेव दन्धो, उप्पन्नमत्ताय पन ताय काचि किलेसा निग्गहिताव होन्ति, न सण्ठातुं सक्कोन्ति. चक्खुद्वारस्मिञ्हि रागादीसु उप्पन्नेसु दुतियजवनवारेन ‘‘किलेसा मे उप्पन्ना’’ति ञत्वा ततिये जवनवारे संवरजवनंयेव जवति. अनच्छरियञ्चेतं, यं विपस्सको ततियजवनवारे किलेसे निग्गण्हेय्य. चक्खुद्वारे पन इट्ठारम्मणे आपाथगते भवङ्गं आवट्टेत्वा आवज्जनादीसु उप्पन्नेसु वोट्ठब्बनानन्तरं सम्पत्तकिलेसजवनवारं निवत्तेत्वा कुसलमेव उप्पादेति. आरद्धविपस्सकानञ्हि अयमानिसंसो भावनापटिसङ्खाने पतिट्ठितभावस्स.

अभिहट्ठुं पवारेय्युन्ति सुदिन्नत्थेरस्स विय रट्ठपालकुलपुत्तस्स विय च कायेन वा सत्त रतनानि अभिहरित्वा वाचाय वा ‘‘अम्हाकं धनतो यत्तकं इच्छसि, तत्तकं गण्हा’’ति वदन्ता पवारेय्युं. अनुदहन्तीति सरीरे पलिवेठितत्ता उण्हपरिळाहं जनेत्वा अनुदहन्ति. सञ्जातसेदे वा सरीरे लग्गन्ता अनुसेन्तीतिपि अत्थो. यञ्हि तं, भिक्खवे, चित्तन्ति इदं यस्मा चित्ते अनावट्टन्ते पुग्गलस्स आवट्टनं नाम नत्थि. एवरूपञ्हि चित्तं अनावट्टन्ति, तस्मा वुत्तं. इति इमस्मिं सुत्ते विपस्सनाबलमेव दीपितं.