६. अवस्सुतपरियायसुत्तवण्णना

२४३. छट्ठे नवं सन्थागारन्ति अधुना कारितं सन्थागारं, एका महासालाति अत्थो. उय्योगकालादीसु हि राजानो तत्थ ठत्वा, ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छा, एत्तका उभोहि पस्सेहि, एत्तका हत्थी अभिरुहन्तु, एत्तका अस्से, एत्तका रथेसु तिट्ठन्तू’’ति एवं सन्थं करोन्ति, मरियादं बन्धन्ति, तस्मा तं ठानं सन्थागारन्ति वुच्चति. उय्योगट्ठानतो च आगन्त्वा याव गेहेसु अल्लगोमयपरिभण्डादीनि कारेन्ति, ताव द्वे तीणि दिवसानि ते राजानो तत्थ सन्थरन्तीतिपि सन्थागारं. तेसं राजूनं सह अत्थानुसासनं अगारन्तिपि सन्थागारं. गणराजानो हि ते, तस्मा उप्पन्नं किच्चं एकस्स वसेन न छिज्जति, सब्बेसं छन्दोपि लद्धुं वट्टति, तस्मा सब्बे तत्थ सन्निपतित्वा अनुसासन्ति. तेन वुत्तं ‘‘सह अत्थानुसासनं अगारन्तिपि सन्थागार’’न्ति. यस्मा पन ते तत्थ सन्निपतित्वा, ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितु’’न्ति एवमादिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिद्दावछिद्दं घरावासं तत्थ सन्थरन्तीतिपि, सन्थागारं. अचिरकारितं होतीति इट्ठककम्मसुधाकम्मचित्तकम्मादिवसेन सुसज्जितं देवविमानं विय अधुना निट्ठापितं. समणेन वाति एत्थ यस्मा घरवत्थुपरिग्गहणकालेयेव देवता अत्तनो वसनट्ठानं गण्हन्ति, तस्मा ‘‘देवेन वा’’ति अवत्वा, ‘‘समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेना’’ति वुत्तं.

येन भगवा तेनुपसङ्कमिंसूति सन्थागारं निट्ठितन्ति सुत्वा ‘‘गच्छाम नं पस्सिस्सामा’’ति गन्त्वा द्वारकोट्ठकतो पट्ठाय सब्बं ओलोकेत्वा ‘‘इदं सन्थागारं अतिविय मनोरमं सस्सिरिकं. केन पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेत्वा – ‘‘अम्हाकं ञातिसेट्ठस्स पठमं दिय्यमानेपि सत्थुनोव अनुच्छविकं, दक्खिणेय्यवसेन दिय्यमानेपि सत्थुनोव अनुच्छविकं, तस्मा सत्थारं पठमं परिभुञ्जापेस्साम, भिक्खुसङ्घस्स च आगमनं करिस्साम, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं तियामरत्तिं अम्हाकं धम्मकथं कथापेस्साम, इति तीहि रतनेहि परिभुत्तं पच्छा मयं परिभुञ्जिस्साम, एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा उपसङ्कमिंसु.

येन नवं सन्थागारं तेनुपसङ्कमिंसूति तंदिवसं किर सन्थागारं किञ्चापि राजकुलानं दस्सनत्थाय देवविमानं विय सुसज्जितं होति सुपटिजग्गितं, बुद्धारहं पन कत्वा अपञ्ञत्तं. बुद्धा हि नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसेय्युं वा नो वा, तस्मा ‘‘भगवतो मनं जानित्वाव, पञ्ञापेस्सामा’’ति चिन्तेत्वा, ते भगवन्तं उपसङ्कमिंसु, इदानि पन मनं लभित्वा पञ्ञापेतुकामा येन सन्थागारं तेनुपसङ्कमिंसु.

सब्बसन्थरिं सन्थागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरापेत्वा. सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वट्टती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्जापेत्वा, परिसुक्खभावं ञत्वा, यथा अक्कन्तट्ठाने पदं पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पापेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवे आदिं कत्वा हत्थत्थरअस्सत्थरसीहत्थरब्यग्घत्थरचन्दत्थरकसूरियत्थरकचित्तत्थरकादीहि नानावण्णेहि अत्थरकेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुं. तेन वुत्तं ‘‘सब्बसन्थरिं सन्थागारं सन्थरित्वा’’ति.

आसनानि पञ्ञापेत्वाति मज्झट्ठाने ताव मङ्गलथम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा, तत्थ तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं पच्चत्थरित्वा उभतोलोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकविचित्तवितानं बन्धित्वा गन्धदामपुप्फदामपत्तदामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा, तिंसहत्थमत्तं ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कपीठअपस्सयपीठमुण्डपीठानि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा पाचीनभित्तिं निस्साय अत्तनो अत्तनो महापिट्ठिककोजवे पञ्ञापेत्वा मनोरमानि हंसलोमादिपूरितानि उपधानानि ठपापेसुं ‘‘एवं अकिलममाना सब्बरत्तिं धम्मं सुणिस्सामा’’ति. इदं सन्धाय वुत्तं ‘‘आसनानि पञ्ञापेत्वा’’ति.

उदकमणिकं पतिट्ठापेत्वाति महाकुच्छिकं उदकचाटिं पतिट्ठापेत्वा ‘‘एवं भगवा च भिक्खुसङ्घो च यथारुचिया हत्थे वा धोविस्सन्ति पादे वा, मुखं वा विक्खालेस्सन्ती’’ति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरापेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठापेसुं. इदं सन्धाय वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति.

तेलप्पदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डदीपिकासु योनकरूपकिरातरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लिकासु च तेलप्पदीपं जालापेत्वाति अत्थो. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते सक्यराजानो न केवलं सन्थागारमेव, अथ खो योजनावट्टे कपिलवत्थुस्मिं नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलियो च ठपापेतेवा सकलनगरं दीपमालादीहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरूपगे दारके खीरं पायेथ, दहरे कुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.

अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर काले आरोचिते भगवा लाखारसतिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवण्णवलाहकेन पटिच्छादयमानो विय, कञ्चनपब्बतमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय, चित्तकूटपब्बतमत्थकं विज्जुलताय परिक्खिपन्तो विय च सचक्कवाळसिनेरुयुगन्धरं महापथविं सञ्चालेत्वा गहितं निग्रोधपल्लवसमानवण्णं रत्तवरपंसुकूलं पारुपित्वा, गन्धकुटिद्वारतो निक्खमि कञ्चनगुहतो सीहो विय उदयपब्बतकूटतो पुण्णचन्दो विय च. निक्खमित्वा पन गन्धकुटिपमुखे अट्ठासि.

अथस्स कायतो मेघमुखेहि विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्जरपत्तपुप्फफलविटपे विय आरामरुक्खे करिंसु. तावदेव च अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते पन परिवारेत्वा ठिता भिक्खू एवरूपा अहेसुं – अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना पञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना. तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, रत्तपदुमसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. सारिपुत्तमोग्गल्लानादयो महाथेरापि नं मेघवण्णं पंसुकूलं पारुपित्वा मणिवम्मवम्मिका विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.

इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो बहुस्सुतबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन कपिलवत्थुगामिमग्गं पटिपज्जि.

अथस्स पुरत्थिमकायतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि पच्छिम-कायतो, दक्खिणहत्थतो, वामहत्थतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि. उपरि केसन्ततो पट्ठाय सब्बकेसावट्टेहि मोरगीववण्णा रस्मि उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसि. हेट्ठा पादतलेहि पवाळवण्णा रस्मि उट्ठहित्वा घनपथविं असीतिहत्थट्ठानं अग्गहेसि. एवं समन्ता असीतिहत्थट्ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना कञ्चनदण्डदीपिकाहि निच्छरित्वा आकासं पक्खन्दजाला विय चातुद्दीपिकमहामेघतो निक्खन्तविज्जुलता विय विधाविंसु. सब्बदिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातसमुट्ठितकिंसुककणिकारपुप्फचुण्णसमोकिण्णा विय विप्पभासिंसु.

भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभाद्वत्तिंसवरलक्खणसमुज्जलसरीरं समुग्गततारकं विय गगनतलं, विकसितमिव पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहि सम्मदेव पूरिताहि समतिंसपारमिताहि अलङ्कतं. कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नदानं रक्खितसीलं कतकल्याणकम्मं एकस्मिं अत्तभावे ओतरित्वा विपाकं दातुं ठानं अलभमानं सम्बाधपत्तं विय अहोसि. नावासहस्सभण्डं एकनावं आरोपनकालो विय, सकटसहस्सभण्डं एकसकटं आरोपनकालो विय, पञ्चवीसतिया गङ्गानं ओघस्स सम्भिज्ज मुखद्वारे एकतो रासिभूतकालो विय अहोसि.

इमाय बुद्धसिरिया ओभासमानस्सापि च भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु, तथा पच्छतो, वामपस्से, दक्खिणपस्से. जातिसुमनचम्पकवनमल्लिकारत्तुप्पल-नीलुप्पल-बकुलसिन्दुवारपुप्फानि चेव नीलपीतादिवण्णसुगन्धगन्धचुण्णानि च चातुद्दीपिकमेघविस्सट्ठा उदकवुट्ठियो विय विप्पकिरियिंसु. पञ्चङ्गिकतूरियनिग्घोसा चेव बुद्धधम्मसङ्घगुणपटिसंयुत्ता थुतिघोसा च सब्बा दिसा पूरयिंसु. देवमनुस्सनागसुपण्णगन्धब्बयक्खादीनं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेन गमनवण्णं वत्तुं वट्टति. तत्रिदं मुखमत्तं –

‘‘एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;

अहेठयन्तो पाणानि, याति लोकविनायको.

‘‘दक्खिणं पठमं पादं, उद्धरन्तो नरासभो

गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो.

‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठापादतलं मुदु;

समं सम्फुसते भूमिं, रजसा नुपलिप्पति.

‘‘निन्नट्ठानं उन्नमति, गच्छन्ते लोकनायके;

उन्नतञ्च समं होति, पथवी च अचेतना.

‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका;

सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.

‘‘नातिदूरे उद्धरति, नच्चासन्ने च निक्खिपं;

अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके.

‘‘नातिसीघं पक्कमति, सम्पन्नचरणो मुनि;

न चापि सणिकं याति, गच्छमानो समाहितो.

‘‘उद्धं अधो च तिरियञ्च, दिसञ्च विदिसं तथा;

न पेक्खमानो सो याति, युगमत्तञ्हि पेक्खति.

‘‘नागविक्कन्तचारो सो, गमने सोभते जिनो;

चारुं गच्छति लोकग्गो, हासयन्तो सदेवके.

‘‘उळुराजाव सोभन्तो, चतुचारीव केसरी;

तोसयन्तो बहू सत्ते, पुरं सेट्ठं उपागमी’’ति.

वण्णकालो नाम किरेस, एवंविधेसु कालेसु बुद्धस्स सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं. चुण्णियपदेहि वा गाथाबन्धेन वा यत्तकं सक्कोति, तत्तकं वत्तब्बं. दुक्कथितन्ति न वत्तब्बं. अप्पमाणवण्णा हि बुद्धा. तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था, पगेव इतरा पजाति. इमिना सिरिविलासेन अलङ्कतपटियत्तं सक्यराजकुलं पविसित्वा भगवा पसन्नचित्तेन जनेन गन्धधूमवासचुण्णादीहि पूजियमानो सन्थागारं पाविसि. तेन वुत्तं ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमी’’ति.

भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन न्हापेत्वा दुकूलचुम्बटकेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलपलिवेठिते पीठे ठपितरत्तसुवण्णघनपटिमा विय अतिविरोचित्थ. अयं पनेत्थ पोराणानं वण्णभणनमग्गो –

‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचारणो;

ओभासयन्तो लोकग्गो, निसीदि वरमासने.

‘‘तहिं निसिन्नो नरदम्मसारथि,

देवातिदेवो सतपुञ्ञलक्खणो;

बुद्धासने मज्झगतो विरोचति,

सुवण्णनेक्खं विय पण्डुकम्बले.

‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले;

विरोचति वीतमलो, मणिवेरोचनो यथा.

‘‘महासालोव सम्फुल्लो, नेरुराजाव’लङ्कतो;

सुवण्णयूपसङ्कासो, पदुमो कोकनदो यथा.

‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी;

देवानं पारिच्छत्तोव, सब्बफुल्लो विरोचती’’ति.

कापिलवत्थवे सक्ये बहुदेव रत्तिं धम्मिया कथायाति एत्थ धम्मकथा नाम सन्थागारानुमोदनापटिसंयुत्ता पकिण्णककथा वेदितब्बा. तदा हि भगवा आकासगङ्गं ओतारेन्तो विय पथवोजं आकड्ढन्तो विय महाजम्बुं मत्थके गहेत्वा चालेन्तो विय योजनिकं मधुभण्डं चक्कयन्तेन पीळेत्वा मधुपानं पायमानो विय कपिलवत्थुवासीनं सक्यानं हितसुखावहं पकिण्णककथं कथेसि. ‘‘आवासदानं नामेतं, महाराज, महन्तं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन च परिभुत्तो, मया च भिक्खुसङ्घेन च परिभुत्तो पन धम्मरतनेन परिभुत्तोयेवाति तीहि रतनेहि परिभुत्तो नाम होति. आवासदानस्मिञ्हि दिन्ने सब्बदानं दिन्नमेव होति. भुम्मट्ठकपण्णसालाय वा साखामण्डपस्स वापि आनिसंसो नाम परिच्छिन्दितुं न सक्का. आवासदानानुभावेन हि भवे भवे निब्बत्तस्सापि सम्बाधितगब्भवासो न होति, द्वादसहत्थो ओवरको विय मातुकुच्छि असम्बाधोव होती’’ति. एवं नानानयविचित्तं बहुं धम्मिं कथं कथेत्वा –

‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;

सिरीसपे च मकसे, सिसिरे चापि वुट्ठियो.

‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.

‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.

‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;

तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.

‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;

ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –

एवं ‘‘अयम्पि आवासे आनिसंसो, अयम्पि आवासे आनिसंसो’’ति बहुदेव रत्तिं अतिरेकतरं दियड्ढयामं आवासानिसंसकथं कथेसि. तत्थ इमा ताव गाथाव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं नारोहति. सन्दस्सेत्वातिआदीनि वुत्तत्थानेव.

अभिक्कन्ताति अतिक्कन्ता द्वे यामा गता. यस्स दानि कालं मञ्ञथाति यस्स तुम्हे गमनस्स कालं मञ्ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति. कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय. सुखुमाला हि ते, तियामरत्तिं निसीदित्वा वीतिनामेन्तानं सरीरे आबाधो उप्पज्जेय्य. भिक्खुसङ्घोपि महा, तस्स ठाननिसज्जानं ओकासो लद्धुं वट्टतीति उभयानुकम्पाय उय्योजेसि.

विगतथिनमिद्धोति तत्र किर भिक्खू यामद्वयं ठितापि निसिन्नापि अचालयिंसु, पच्छिमयामे पन आहारो परिणमति, तस्स परिणतत्ता भिक्खुसङ्घो विगतथिनमिद्धो जातोति अकारणमेतं. बुद्धानञ्हि कथं सुणन्तस्स कायिकचेतसिकदरथा न होन्ति, कायचित्तलहुतादयो उप्पज्जन्ति, तेन तेसं द्वे यामे ठितानम्पि निसिन्नानम्पि धम्मं सुणन्तानं थिनमिद्धं विगतं, पच्छिमयामेपि सम्पत्ते तथा विगतमेव जातं. तेनाह ‘‘विगतथिनमिद्धो’’ति.

पिट्ठि मे आगिलायतीति कस्मा आगिलायति? भगवतो हि छब्बस्सानि महापधानं पदहन्तस्स महन्तं कायदुक्खं अहोसि, अथस्स अपरभागे महल्लककाले पिट्ठिवातो उप्पज्जीति. अकारणं वा एतं. पहोति हि भगवा उप्पन्नं वेदनं विक्खम्भेत्वा एकम्पि द्वेपि सत्ताहानि एकपल्लङ्केन निसीदितुं. सन्थागारसालं पन चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि. तत्थ पादधोवनट्ठानतो याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नं. धम्मासनं पत्तं थोकं ठत्वा निसीदि, एत्तके ठाने ठानं निप्फन्नं. द्वेयामं धम्मासने निसीदि, एत्तके ठाने निसज्जा निप्फन्ना. इदानि दक्खिणेन पस्सेन थोकं निपन्ने सयनं निप्फज्जिस्सतीति एवं चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि. उपादिन्नकसरीरञ्च नाम ‘‘नो आगिलायती’’ति न वत्तब्बं, तस्मा चिरनिसज्जाय सञ्जातं अप्पकम्पि आगिलायनं गहेत्वा एवमाह.

सङ्घाटिं पञ्ञापेत्वाति सन्थागारस्स किर एकपस्से ते राजानो पटसाणिं परिक्खिपापेत्वा कप्पियमञ्चकं पञ्ञापेत्वा कप्पियपच्चत्थरणेन अत्थरित्वा उपरि सुवण्णतारकगन्धमालादिदामपटिमण्डितं वितानं बन्धित्वा गन्धतेलप्पदीपं आरोपयिंसु, ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समन्तो इध निपज्जेय्य, एवं नो इमं सन्थागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति. सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञापेत्वा निपज्जि. उट्ठानसञ्ञं मनसि करित्वाति ‘‘एत्तकं कालं अतिक्कमित्वा वुट्ठहिस्सामी’’ति वुट्ठानसञ्ञं चित्ते ठपेत्वा, तञ्च खो अनिद्दायन्तोव थेरस्स धम्मकथं सुणमानो.

अवस्सुतपरियायन्ति अवस्सुतस्स परियायं, अवस्सुतस्स कारणन्ति अत्थो. अधिमुच्चतीति किलेसाधिमुच्चनेन अधिमुच्चति, गिद्धो होति. ब्यापज्जतीति ब्यापादवसेन पूतिचित्तो होति. चक्खुतोति चक्खुभावेन. मारोति किलेसमारोपि देवपुत्तमारोपि. ओतारन्ति विवरं. आरम्मणन्ति पच्चयं. नळागारतिणागारं विय हि सविसेवनानि आयतनानि, तिणुक्का विय किलेसुप्पत्तिरहं आरम्मणं, तिणुक्काय ठपितठपितट्ठाने अङ्गारस्सुज्जलनं विय आरम्मणे आपाथमागते किलेसानं उप्पत्ति. तेन वुत्तं लभेथ मारो ओतारन्ति.

सुक्कपक्खे बहलमत्तिकपिण्डावलेपनं कूटागारं विय निब्बिसेवनानि आयतनानि, तिणुक्का विय वुत्तपकारारम्मणं, तिणुक्काय ठपितठपितट्ठाने निब्बापनं विय निब्बिसेवनानं आयतनानं आरम्मणे आपाथमागते किलेसपरिळाहस्स अनुप्पत्ति. तेन वुत्तं नेव लभेथ मारो ओतारन्ति.