१. आसीविसोपमसुत्तवण्णना
२३८. आसीविसवग्गस्स पठमे भिक्खू आमन्तेसीति एकचारिकद्विचारिकतिचारिकचतुचारिकपञ्चचारिके सभागवुत्तिनो कारके युत्तपयुत्ते सब्बेपि दुक्खलक्खणकम्मट्ठानिके परिवारेत्वा निसिन्ने योगावचरे भिक्खू आमन्तेसि. इदञ्हि सुत्तं पुग्गलज्झासयेन वुत्तं. पुग्गलेसुपि विपञ्चितञ्ञूनं दिसावासिकानं दुक्खलक्खणकम्मट्ठानिकानं उपट्ठानवेलाय आगन्त्वा सत्थारं परिवारेत्वा निसिन्नानं वसेन वुत्तं. एवं सन्तेपि उग्घटितञ्ञूआदीनं चतुन्नम्पि पुग्गलानं पच्चयभूतमेवेतं. उग्घटितञ्ञू पुग्गलो हि इमस्स सुत्तस्स मातिकानिक्खेपेनेव अरहत्तं पापुणिस्सति, विपञ्चितञ्ञू मातिकाय वित्थारभाजनेन, नेय्यपुग्गलो इममेव सुत्तं सज्झायन्तो परिपुच्छन्तो योनिसो मनसिकरोन्तो कल्याणमित्ते सेवन्तो भजन्तो पयिरुपासन्तो अरहत्तं पापुणिस्सति. पदपरमस्सेतं सुत्तं अनागते वासना भविस्सतीति एवं सब्बेसम्पि उपकारभावं ञत्वा भगवा सिनेरुं उक्खिपन्तो विय आकासं वित्थारेन्तो विय चक्कवाळपब्बतं कम्पेन्तो विय च महन्तेन उस्साहेन सेय्यथापि, भिक्खवेति इमं आसीविसोपमसुत्तं आरभि.
तत्थ चत्तारो आसीविसाति कट्ठमुखो, पूतिमुखो, अग्गिमुखो, सत्थमुखोति इमे चत्तारो. तेसु कट्ठमुखेन दट्ठस्स सकलसरीरं सुक्खकट्ठं विय थद्धं होति, सन्धिपब्बेसु अधिमत्तं अयसूलसमप्पितं विय तिट्ठति. पूतिमुखेन दट्ठस्स पक्कपूतिपनसं विय विपुब्बकभावं आपज्जित्वा पग्घरति, चङ्गवारे पक्खित्तउदकं विय होति. अग्गिमुखेन दट्ठस्स सकलसरीरं झायित्वा भस्ममुट्ठि विय थुसमुट्ठि विय च विप्पकिरीयति. सत्तमुखेन दट्ठस्स सकलसरीरं भिज्जति, असनिपातट्ठानं विय महानिखादनेन खतसन्धिमुखं विय च होति. एवं विसवसेन विभत्ता चत्तारो आसीविसा.
विसवेगविकारेन पनेते सोळस होन्ति. कट्ठमुखो हि दट्ठविसो, दिट्ठविसो, फुट्ठविसो, वातविसोति चतुब्बिधो होति. तेन हि दट्ठम्पि दिट्ठम्पि फुट्ठम्पि तस्स वातेन पहटम्पि सरीरं वुत्तप्पकारेन थद्धं होति. सेसेसुपि एसेव नयोति. एवं विसवेगविकारवसेन सोळस होन्ति.
पुन पुग्गलपण्णत्तिवसेन चतुसट्ठि होन्ति. कथं? कट्ठमुखेसु ताव दट्ठविसो च आगतविसो नो घोरविसो, घोरविसो नो आगतविसो, आगतविसो चेव घोरविसो च, नेवागतविसो न घोरविसोति चतुब्बिधो होति. तत्थ यस्स विसं सम्पज्जलिततिणुक्काय अग्गि विय सीघं अभिरुहित्वा अक्खीनि गहेत्वा खन्धं गहेत्वा सीसं गहेत्वा ठितन्ति वत्तब्बतं आपज्जति मणिसप्पादीनं विसं विय, मन्तं पन परिवत्तेत्वा कण्णवातं दत्वा दण्डकेन पहटमत्ते ओतरित्वा दट्ठट्ठानेयेव तिट्ठति, अयं आगतविसो नो घोरविसो नाम. यस्स पन विसं सणिकं अभिरुहति, आरुळ्हारुळ्हट्ठाने पन अयं सीतउदकं विय होति उदकसप्पादीनं विसं विय, द्वादसवस्सच्चयेनापि कण्णपिट्ठिखन्धपिट्ठिकादीसु गण्डपिळकादिवसेन पञ्ञायति, मन्तपरिवत्तनादीसु च कयिरमानासु सीघं न ओतरति, अयं घोरविसो नो आगतविसो नाम. यस्स पन विसं सीघं अभिरुहति, न सीघं ओतरति अनेळकसप्पादीनं विसं विय, अयं आगतविसो चेव घोरविसो च. यस्स पन विसं मन्दं होति, ओतारियमानम्पि सुखेनेव ओतरति नीलसप्पधम्मनिसप्पादीनं विसं विय, अयं नेवागतविसो न घोरविसो नाम. इमिना उपायेन कट्ठमुखे दट्ठविसादयो पूतिमुखादीसु च दट्ठविसादयो वेदितब्बाति. एवं पुग्गलपण्णत्तिवसेन चतुसट्ठि.
तेसु ‘‘अण्डजा नागा’’तिआदिना (सं. नि. ३.३४२-३४४) योनिवसेन एकेकं चतुधा विभजित्वा छपण्णासाधिकानि द्वे सतानि होन्ति. ते जलजाथलजाति द्विगुणिता द्वादसाधिकानि पञ्चसतानि होन्ति, ते कामरूपअकामरूपानं वसेन द्विगुणिता चतुवीसाधिकसहस्ससङ्खा होन्ति. पुन गतमग्गस्स पटिलोमतो संखिप्पमाना कट्ठमुखादिवसेन चत्तारोव होन्तीति. ते सन्धाय भगवा ‘‘सेय्यथापि, भिक्खवे, चत्तारो आसीविसा’’ति आह. कुलवसेन हि एते गहिता.
तत्थ आसीविसाति आसित्तविसातिपि आसीविसा, असितविसातिपि आसीविसा, असिसदिसविसातिपि आसीविसा. आसित्तविसाति सकलकाये आसिञ्चित्वा विय ठपितविसा, परस्स च अत्तनो सरीरे च आसिञ्चनविसाति अत्थो. असितविसाति यं यं एतेहि असितं होति परिभुत्तं, तं तं विसमेव सम्पज्जति, तस्मा असितं विसं होति एतेसन्ति आसीविसा. असिसदिसविसाति असिविय तिखिणं परमम्मच्छेदनसमत्थं विसं एतेसन्ति आसीविसाति एवमेत्थ वचनत्थो वेदितब्बो. उग्गतेजाति उग्गततेजा बलवतेजा. घोरविसाति दुन्निम्मद्दनविसा.
एवं वदेय्युन्ति पटिजग्गापनत्थं एवं वदेय्युं. राजानो हि आसीविसे गाहापेत्वा – ‘‘तथारूपे चोरे वा एतेहि डंसापेत्वा मारेस्साम, नगरूपरोधकाले परसेनाय वा तं खिपिस्साम, परबलं निम्मद्देतुं असक्कोन्ता सुभोजनं भुञ्जित्वा वरसयनं आरुय्ह एतेहि अत्तानं डंसापेत्वा सत्तूनं वसं अनागच्छन्ता अत्तनो रुचिया मरिस्सामा’’ति आसीविसे जग्गापेन्ति. ते यं चोरं सहसाव मारेतुं न इच्छन्ति, ‘‘एवमेते दीघरत्तं दुक्खप्पत्तो हुत्वा मरिस्सन्ती’’ति इच्छन्ता तं पुरिसं एवं वदन्ति इमे ते अम्भो पुरिस चत्तारो आसीविसाति.
तत्थ कालेन कालन्ति काले काले. संवेसेतब्बाति निपज्जापेतब्बा. अञ्ञतरो वा अञ्ञतरो वाति कट्ठमुखादीसु यो कोचि. यं ते अम्भो पुरिस करणीयं, तं करोहीति इदं अत्थचरकस्स वचनं वेदितब्बं. तस्स किर पुरिसस्स एवं आसीविसे पटिपादेत्वा ‘अयं वो उपट्ठाको’ति चतूसु पेळासु ठपितानं आसीविसानं आरोचेन्ति. अथेको निक्खमित्वा आगम्म तस्स पुरिसस्स दक्खिणपादानुसारेन अभिरुहित्वा दक्खिणहत्थं मणिबन्धतो पट्ठाय वेठेत्वा दक्खिणकण्णसोतमूले फणं कत्वा सुसूति करोन्तो निपज्जि. अपरो वामपादानुसारेन अभिरुहित्वा तथेव वामहत्थं वेठेत्वा वामकण्णसोतमूले फणं कत्वा सुसूति करोन्तो निपज्जि, ततियो निक्खमित्वा अभिमुखं अभिरुहित्वा कुच्छिं वेठेत्वा गलवाटकमूले फणं कत्वा सुसूति करोन्तो निपज्जि, चतुत्थो पिट्ठिभागेन अभिरुहित्वा गीवं वेठेत्वा उपरिमुद्धनि फणं ठपेत्वा सुसूति करोन्तो निपज्जि.
एवं चतूसु आसीविसेसु सरीरट्ठकेसुयेव जातेसु एको तस्स पुरिसस्स अत्थचरकपुरिसो तं दिस्वा ‘‘किं ते, भो पुरिस, लद्ध’’न्ति, पुच्छि. ततो तेन ‘‘इमे मे, भो, हत्थेसु हत्थकटकं विय बाहासु केयूरं विय कुच्छिम्हि कुच्छिवेठनसाटको विय कण्णेसु कण्णचूळिका विय गले मुत्तावलियो विय सीसे सीसपसाधनं विय केचि अलङ्कारविसेसा रञ्ञा दिन्ना’’ति वुत्ते सो आह – ‘‘भो अन्धबाल, मा एवं मञ्ञित्थ ‘रञ्ञा मे तुट्ठेनेतं पसाधनं दिन्न’न्ति. त्वं रञ्ञो आगुचारी चोरो, इमे च चत्तारो आसीविसा दुरुपट्ठाहा दुप्पटिजग्गिया, एकस्मिं उट्ठातुकामे एको न्हायितुकामो होति, एकस्मिं न्हायितुकामे एको भुञ्जितुकामो, एकस्मिं भुञ्जितुकामे एको निपज्जितुकामो. तेसु यस्सेव इच्छा न पूरति, सो तत्थेव डंसित्वा मारेती’’ति. अत्थि पन, भो, एवं सन्ते कोचि सोत्थिमग्गोति? आम, राजपुरिसानं विक्खित्तभावं ञत्वा पलायनं सोत्थिभावोति वत्वा ‘‘यं ते करणीयं, तं करोही’’ति वदेय्य.
तं सुत्वा इतरो चतुन्नं आसीविसानं पमादक्खणं राजपुरिसेहि च पविवित्तं दिस्वा, वामहत्थेन दक्खिणहत्थं वेठेत्वा, दक्खिणकण्णचूळिकाय फणं ठपेत्वा, सयितासीविसस्स सरीरं परिमज्जन्तो विय सणिकं तं अपनेत्वा, एतेनेव उपायेन सेसेपि अपनेत्वा तेसं भीतो पलायेय्य. अथ नं ते आसीविसा ‘‘अयं अम्हाकं रञ्ञा उपट्ठाको दिन्नो’’ति अनुबन्धमाना आगच्छेय्युं. इदं सन्धाय अथ खो सो, भिक्खवे, पुरिसो भीतो चतुन्नं आसीविसानं…पे… पलायेथाति वुत्तं.
तस्मिं पन पुरिसे एवं आगतमग्गं ओलोकेत्वा ओलोकेत्वा पलायन्ते राजा ‘‘पलातो सो पुरिसो’’ति सुत्वा ‘‘को नु खो तं अनुबन्धित्वा घातेतुं सक्खिस्सती’’ति विचिनन्तो तस्सेव पच्चत्थिके पञ्च जने लभित्वा ‘‘गच्छथ नं अनुबन्धित्वा घातेथा’’ति पेसेय्य. अथस्स अत्थचरा पुरिसा तं पवत्तिं ञत्वा आरोचेय्युं. सो भिय्योसोमत्ताय भीतो पलायेथ. इममत्थं सन्धाय तमेनं एवं वदेय्युन्तिआदि वुत्तं.
छट्ठो अन्तरचरो वधकोति ‘‘पठमं आसीविसेहि अनुबद्धो इतो चितो च ते वञ्चेन्तो पलायि, इदानि पञ्चहि पच्चत्थिकेहि अनुबद्धो सुट्ठुतरं पलायति, न सक्का सो एवं गहेतुं, उपलाळनाय पन सक्का, तस्मा दहरकालतो पट्ठाय एकतो खादित्वा च पिवित्वा च सन्थवं अन्तरचरं वधकमस्स पेसेथा’’ति अमच्चेहि वुत्तेन रञ्ञा परियेसित्वा पेसितो अन्तरचरो वधको.
सो पस्सेय्य सुञ्ञं गामन्ति निवत्तित्वा ओलोकेन्तो पदं घायित्वा घायित्वा वेगेनागच्छन्ते चत्तारो आसीविसे पञ्च वधके पच्चत्थिके छट्ठञ्च अन्तरचरं वधकं ‘‘निवत्त भो, मा पलायि, पुत्तदारेन सद्धिं कामे परिभुञ्जन्तो सुखं वसिस्ससी’’ति वत्वा आगच्छन्तं दिस्वा, भिय्योसोमत्ताय येन वा तेन वा पलायन्तो पच्चन्तरट्ठे अभिमुखगतं एकं छकुटिकं सुञ्ञं गामं पस्सेय्य. रित्तकञ्ञेव पविसेय्याति धनधञ्ञमञ्चपीठादीहि विरहितत्ता रित्तकञ्ञेव पविसेय्य. तुच्छकं सुञ्ञकन्ति एतस्सेव वेवचनं. परिमसेय्याति ‘‘सचे पानीयं भविस्सति, पिविस्सामि, सचे भत्तं भविस्सति, भुञ्जिस्सामी’’ति भाजनं विवरित्वा हत्थं अन्तो पवेसेत्वा परिमसेय्य.
तमेनं एवं वदेय्युन्ति छन्नं घरानं एकघरेपि किञ्चि अलभित्वा गाममज्झे एको सन्दच्छायो रुक्खो अत्थि, तत्थ वङ्कफलकं अत्थतं दिस्वा, ‘‘इध ताव निसीदिस्सामी’’ति गन्त्वा, तत्थ निसिन्नं मन्दमन्देन वातेन बीजियमानं तत्तकमत्तम्पि सुखं सन्ततो अस्सादयमानं, तमेनं पुरिसं केचिदेव अत्थचरका बहि पवत्तिं ञत्वा आगता एवं वदेय्युं. इदानि अम्भो पुरिसाति अम्भो, पुरिस, इदानि. चोरा गामघातकाति ‘‘यदेवेत्थ लभिस्साम, तं गण्हिस्साम वा घातेस्साम वा’’ति आगता छ गामघातकचोरा.
उदकण्णवन्ति गम्भीरं पुथुलं उदकं. गम्भीरम्पि हि अपुथुलं, पुथुलं वा अगम्भीरं, न अण्णवोति वुच्चति, यम्पन गम्भीरञ्च पुथुलञ्च, तस्सेवेतं नामं. सासङ्कं सप्पटिभयन्ति चतुन्नं आसीविसानं पञ्चन्नं वधकानं छट्ठस्स अन्तरचरस्स छन्नञ्च गामघातकचोरानं वसेन सासङ्कं सप्पटिभयं. खेमं अप्पटिभयन्ति तेसंयेव आसीविसादीनं अभावेन खेमञ्च निब्भयञ्च विचित्रउय्यानवरं बह्वन्नपानं देवनगरसदिसं. न चस्स नावा सन्तारणीति ‘‘इमाय नावाय ओरिमतीरतो परतीरं गमिस्सन्ती’’ति एवं ठपिता च सन्तारणी नावा न भवेय्य. उत्तरसेतु वाति रुक्खसेतु-जङ्घसेतु-सकटसेतूनं अञ्ञतरो उत्तरसेतु वा न भवेय्य. तिट्ठति ब्राह्मणोति न खो एस ब्राह्मणो. कस्मा नं ब्राह्मणोति आह? एत्तकानं पच्चत्थिकानं बाहितत्ता, देसनं वा विनिवत्तेन्तो एकं खीणासवब्राह्मणं दस्सेतुम्पि एवमाह.
तस्मिं पन एवं उत्तिण्णे चत्तारो आसीविसा ‘‘न लद्धो वतासि अम्हेहि, अज्ज ते मुरुमुराय जीवितं खादित्वा छड्डेय्याम’’. पञ्च पच्चत्थिका ‘‘न लद्धो वतासि अम्हेहि, अज्ज ते परिवारेत्वा अङ्गमङ्गानि छिन्दित्वा रञ्ञो सन्तिकं गता सतं वा सहस्सं वा लभेय्याम’’. छट्ठो अन्तरचरो ‘‘न लद्धो वतासि मया, अज्ज ते फलिकवण्णेन असिना सीसं छिन्दित्वा, सेनापतिट्ठानं लभित्वा सम्पत्तिं अनुभवेय्यं’’. छ चोरा ‘‘न लद्धो वतासि अम्हेहि, अज्ज ते विविधानि कम्मकारणानि कारेत्वा बहुधनं आहरापेस्सामा’’ति चिन्तेत्वा, उदकण्णवं ओतरितुं असक्कोन्ता रञ्ञो आणाय कोपितत्ता परतो गन्तुम्पि अविसहन्ता तत्थेव सुस्सित्वा मरेय्युं.
उपमा खो म्यायन्ति एत्थ एवं आदितो पट्ठाय ओपम्मसंसन्दनं वेदितब्बं – राजा विय हि कम्मं दट्ठब्बं, राजापराधिकपुरिसो विय वट्टनिस्सितो पुथुज्जनो. चत्तारो आसीविसा विय चत्तारि महाभूतानि, रञ्ञो तस्स चत्तारो आसीविसे पटिच्छापितकालो विय कम्मुना पुथुज्जनस्स पटिसन्धिक्खणेयेव चतुन्नं महाभूतानं दिन्नकालो. ‘‘इमेसं आसीविसानं पमादक्खणे राजपुरिसानञ्च विवित्तक्खणे निक्खमित्वा यं ते अम्भो, पुरिस, करणीयं, तं करोही’’ति वचनेन ‘‘पलायस्सू’’ति वुत्तकालो विय सत्थारा इमस्स भिक्खुनो महाभूतकम्मट्ठानं कथेत्वा ‘‘इमेसु चतूसु महाभूतेसु निब्बिन्द विरज्ज, एवं वट्टतो परिमुच्चिस्ससी’’ति कथितकालो, तस्स पुरिसस्स अत्थचरकवचनं सुत्वा चतुन्नं आसीविसानं पमादक्खणे राजपुरिसानञ्च विवित्तक्खणे निक्खमित्वा येन वा तेन वा पलायनं विय इमस्स भिक्खुनो सत्थु सन्तिके कम्मट्ठानं लभित्वा महाभूतासीविसेहि परिमुच्चनत्थाय ञाणपलायनेन पलायनं.
इदानि चतुन्नेतं महाभूतानं अधिवचनं पथवीधातुया आपोधातुयातिआदीसु चतुमहाभूतकथा च पञ्चुपादानक्खन्धकथा च आयतनकथा च विसुद्धिमग्गे वित्थारितनयेनेव वेदितब्बा. एत्थ च कट्ठमुखआसीविसो विय पथवीधातु दट्ठब्बा, पूतिमुखअग्गिमुखसत्थमुखा विय सेसधातुयो. यथेव हि कट्ठमुखेन दट्ठस्स सकलकायो थद्धो होति, एवं पथवीधातुपकोपेनापि. यथा च पूतिमुखादीहि दट्ठस्स पग्घरति चेव झायति च छिज्जति च, एवं आपोधातुतेजोधातुवायोधातुपकोपेनापीति. तेनाहु अट्ठकथाचरिया –
‘‘पत्थद्धो भवती कायो, दट्ठो कट्ठमुखेन वा;
पथवीधातुपकोपेन, होति कट्ठमुखेव सो.
‘‘पूतिको भवती कायो, दट्ठो पूतिमुखेन वा;
आपोधातुपकोपेन, होति पूतिमुखेव सो.
‘‘सन्तत्तो भवती कायो, दट्ठो अग्गिमुखेन वा;
तेजोधातुपकोपेन, होति अग्गिमुखेव सो.
‘‘सञ्छिन्नो भवती कायो, दट्ठो सत्थमुखेन वा;
वायोधातुपकोपेन, होति सत्थमुखेव सो’’ति. –
एवं तावेत्थ विसेसतो सदिसभावो वेदितब्बो.
अविसेसतो पन आसयतो विसवेगविकारतो अनत्थग्गहणतो दुरुपट्ठानतो दुरासदतो अकतञ्ञुततो अविसेसकारितो अनन्तदोसूपद्दवतोति इमेहि कारणेहि एतेसं आसीविससदिसता वेदितब्बा. तत्थ आसयतोति आसीविसानञ्हि वम्मिको आसयो, तत्थेव ते वसन्ति. महाभूतानम्पि कायवम्मिको आसयो. आसीविसानञ्च रुक्खसुसिरतिणपण्णगहनसङ्कारट्ठानानिपि आसयो. एतेसुपि हि ते वसन्ति. महाभूतानम्पि कायसुसिरं कायगहनं कायसङ्कारट्ठानं आसयोति. एवं ताव आसयतो सदिसता वेदितब्बा.
विसवेगविकारतोति आसीविसा हि कुलवसेन कट्ठमुखादिभेदतो चत्तारो. तत्थ एकेको विसविकारतो विभज्जमानो दट्ठविसादिवसेन चतुब्बिधो होति. महाभूतानिपि पच्चत्तलक्खणवसेन पथवीआदिभेदतो चत्तारि. एत्थ एकेकं कम्मसमुट्ठानादिवसेन चतुब्बिधं होति. एवं विसवेगविकारतो सदिसता वेदितब्बा.
अनत्थग्गहणतोति आसीविसे गण्हन्ता पञ्च अनत्थे गण्हन्ति – दुग्गन्धं गण्हन्ति, असुचिं गण्हन्ति, ब्याधिं गण्हन्ति, विसं गण्हन्ति, मरणं गण्हन्ति. महाभूतानिपि गण्हन्ता पञ्च अनत्थे गण्हन्ति – दुग्गन्धं गण्हन्ति, असुचिं गण्हन्ति, ब्याधिं गण्हन्ति, जरं गण्हन्ति, मरणं गण्हन्ति. तेनाहु पोराणा –
‘‘येकेचि सप्पं गण्हन्ति, मीळ्हलित्तं महाविसं;
पञ्च गण्हन्तुनत्थानि, लोके सप्पाभिनन्दिनो.
‘‘दुग्गन्धं असुचिं ब्याधिं, विसं मरणपञ्चमं;
अनत्था होन्ति पञ्चेते, मीळ्हलित्ते भुजङ्गमे.
‘‘एवमेवं अकुसला, अन्धबालपुथुज्जना;
पञ्च गण्हन्तुनत्थानि, भवे जाताभिनन्दिनो.
‘‘दुग्गन्धं असुचिं ब्याधिं, जरं मरणपञ्चमं;
अनत्था होन्ति पञ्चेते, मीळ्हलित्तेव पन्नगे’’ति. –
एवं अनत्थग्गहणतो सदिसता वेदितब्बा.
दुरुपट्ठानतोति ते आसीविसा दुरुपट्ठाना, एकस्मिं उट्ठातुकामे एको न्हायितुकामो होति, तस्मिं न्हायितुकामे अपरो भुञ्जितुकामो, तस्मिं भुञ्जितुकामे अञ्ञो निपज्जितुकामो होति. तेसु यस्स यस्सेव अज्झासयो न पूरति, सो तत्थेव डंसित्वा मारेति. इमेहि पन आसीविसेहि भूतानेव दुरुपट्ठानतरानि. पथवीधातुया हि भेसज्जे कयिरमाने आपोधातु कुप्पति, तस्सेव भेसज्जं करोन्तस्स तेजोधातूति एवं एकिस्सा भेसज्जे कयिरमाने अपरा कुप्पन्तीति. एवं दुरुपट्ठानतो सदिसता वेदितब्बा.
दुरासदतोति दुरासदा हि आसीविसा, गेहस्स पुरिमभागे आसीविसं दिस्वा पच्छिमभागेन पलायन्ति, पच्छिमभागे दिस्वा पुरिमभागेन, गेहमज्झे दिस्वा गब्भं पविसन्ति, गब्भे दिस्वा मञ्चपीठं अभिरुहन्ति. महाभूतानि ततोपि दुरासदतरानि. तथारूपेन हि कुट्ठरोगेन फुट्ठस्स कण्णनासादीनि छिन्दित्वा पतन्ति, सरीरं सम्फुटति नीलमक्खिका परिवारेन्ति, सरीरगन्धो दूरतोव उब्बाहति. तं पुरिसं अक्कोसमानम्पि परिदेवमानम्पि नेव रोसवसेन, न कारुञ्ञेन, उपसङ्कमितुं सक्कोन्ति, नासिकं पिदहित्वा खेळं पातेन्ता दूरतोव नं विवज्जेन्ति. एवं अञ्ञेसम्पि भगन्दरकुच्छिरोगवातरोगादीनं बीभच्छजेगुच्छभावकरानञ्च रोगानं वसेन अयमेवत्थो विभावेतब्बोति. एवं दुरासदतो सदिसता वेदितब्बा.
अकतञ्ञुततोति आसीविसा हि अकतञ्ञुनो होन्ति, न्हापियमानापि भोजियमानापि गन्धमालादीहि पूजियमानापि पेळायं पक्खिपित्वा परिहरियमानापि ओतारमेव गवेसन्ति. यत्थ ओतारं लभन्ति, तत्थेव नं डंसित्वा मारेन्ति. आसीविसेहिपि महाभूतानेव अकतञ्ञुतरानि. एतेसञ्हि कतं नाम नत्थि, सीतेन वा उण्हेन वा निम्मलेन जलेन न्हापियमानानिपि गन्धमालादीहि सक्करियमानानिपि मुदुवत्थमुदुसयनमुदुयानादीहि परिहरियमानानिपि, वरभोजनं भोजियमानानिपि, वरपानं पायापियमानानिपि ओतारमेव गवेसन्ति. यत्थ ओतारं लभन्ति, तत्थेव कुप्पित्वा अनयब्यसनं पापेन्तीति. एवं अकतञ्ञुततो सदिसता वेदितब्बा.
अविसेसकारितोति आसीविसा हि ‘‘अयं खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा’’ति विसेसं न करोन्ति, सम्पत्तसम्पत्तमेव डंसित्वा मारेन्ति. महाभूतानिपि ‘‘अयं खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा देवो वा मनुस्सो वा मारो वा ब्रह्मा वा निग्गुणो वा सगुणो वा’’ति विसेसं न करोन्ति. यदि हि नेसं ‘‘अयं गुणवा’’ति लज्जा उप्पज्जेय्य, सदेवके लोके अग्गपुग्गले तथागते लज्जं उप्पादेय्युं. अथापि नेसं ‘‘अयं महापञ्ञो अयं महिद्धिको अयं धुतवादो’’तिआदिना नयेन लज्जा उप्पज्जेय्य, धम्मसेनापतिसारिपुत्तत्थेरादीसु लज्जं उप्पादेय्युं. अथापि नेसं ‘‘अयं निग्गुणो दारुणो थद्धो’’ति भयं उप्पज्जेय्य, सदेवके लोके निग्गुणथद्धदारुणानं अग्गस्स देवदत्तस्स छन्नं वा सत्थारानं भायेय्युं, न च लज्जन्ति न च भायन्ति, कुप्पित्वा यंकिञ्चि अनयब्यसनं आपादेन्तियेव. एवं अविसेसकारितो सदिसता वेदितब्बा.
अनन्तदोसूपद्दवतोति आसीविसे निस्साय उप्पज्जनकानञ्हि दोसूपद्दवानं पमाणं नत्थि. तथा हेते डंसित्वा काणम्पि करोन्ति खुज्जम्पि पीठसप्पिम्पि एकपक्खलम्पीति एवं अपरिमाणं विप्पकारं दस्सेन्ति. भूतानिपि कुप्पितानि न काणादिभावेसु न किञ्चि विप्पकारं न करोन्ति, अप्पमाणो एतेसं दोसूपद्दवोति. एवं अनन्तदोसूपद्दवतो सदिसता वेदितब्बा.
इदानेत्थ चतुमहाभूतवसेन याव अरहत्ता कम्मट्ठानं कथेतब्बं सिया, तं विसुद्धिमग्गे चतुधातुववत्थाननिद्देसे कथितमेव.
पञ्च वधका पच्चत्थिकाति खो भिक्खवे पञ्चन्नेतं उपादानक्खन्धानं अधिवचनन्ति एत्थ द्वीहि आकारेहि खन्धानं वधकपच्चत्थिकसदिसता वेदितब्बा. खन्धा हि अञ्ञमञ्ञञ्च वधेन्ति, तेसु च सन्तेसु वधो नाम पञ्ञायति. कथं? रूपं ताव रूपम्पि वधेति अरूपम्पि, तथा अरूपं अरूपम्पि वधेति रूपम्पि. कथं? अयञ्हि पथवीधातु भिज्जमाना इतरा तिस्सो धातुयो गहेत्वाव भिज्जति, आपोधातुआदीसुपि एसेव नयो, एवं ताव रूपं रूपमेव वधेति. रूपक्खन्धो पन भिज्जमानो चत्तारो अरूपक्खन्धे गहेत्वाव भिज्जति, एवं रूपं अरूपम्पि वधेति. वेदनाक्खन्धोपि भिज्जमानो सञ्ञासङ्खारविञ्ञाणक्खन्धे गहेत्वाव भिज्जति. सञ्ञाक्खन्धादीसुपि एसेव नयो. एवं अरूपं अरूपमेव वधेति. चुतिक्खणे पन चत्तारो अरूपक्खन्धा भिज्जमाना वत्थुरूपम्पि गहेत्वाव भिज्जन्ति, एवं अरूपं रूपम्पि वधेति. एवं ताव अञ्ञमञ्ञं वधेन्तीति वधका. यत्थ पन खन्धा अत्थि, तत्थ छेदनभेदनवधबन्धनादयो होन्ति, न अञ्ञत्थाति. एवं खन्धेसु सन्तेसु वधो पञ्ञायतीतिपि वधका.
इदानि पञ्चक्खन्धे रूपारूपवसेन द्वे कोट्ठासे कत्वा, रूपवसेन वा नामवसेन वा रूपपरिग्गहं आदिं कत्वा, याव अरहत्ता कम्मट्ठानं कथेतब्बं सिया तम्पि विसुद्धिमग्गे कथितमेव.
छट्ठो अन्तरचरो वधको उक्खित्तासिकोति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचनन्ति एत्थ द्वीहाकारेहि नन्दीरागस्स उक्खित्तासिकवधकसदिसता वेदितब्बा पञ्ञासिरपातनतो च योनिसम्पटिपादनतो च. कथं? चक्खुद्वारस्मिञ्हि इट्ठारम्मणे आपाथगते तं आरम्मणं निस्साय लोभो उप्पज्जति, एत्तावता पञ्ञासीसं पतितं नाम होति, सोतद्वारादीसुपि एसेव नयो. एवं ताव पञ्ञासिरपातनतो सदिसता वेदितब्बा. नन्दीरागो पनेस अण्डजादिभेदा चतस्सो योनियो उपनेति. तस्स योनिउपगमनमूलकानि पञ्चवीसति महाभयानि द्वत्तिंस कम्मकारणानि च आगतानेव होन्तीति एवं योनिसम्पटिपादनतोपिस्स उक्खित्तासिकवधकसदिसता वेदितब्बा.
इति नन्दीरागवसेनापि एकस्स भिक्खुनो कम्मट्ठानं कथितमेव होति. कथं? अयञ्हि नन्दीरागो सङ्खारक्खन्धो, तं सङ्खारक्खन्धोति ववत्थपेत्वा तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, चित्तं विञ्ञाणक्खन्धो, तेसं वत्थारम्मणं रूपक्खन्धोति, एवं पञ्चक्खन्धे ववत्थपेति. इदानि ते पञ्चक्खन्धे नामरूपवसेन ववत्थपेत्वा, तेसं पच्चयपरियेसनतो पट्ठाय विपस्सनं वड्ढेत्वा, अनुपुब्बेन एको अरहत्तं पापुणातीति एवं नन्दीरागवसेन कम्मट्ठानं कथितं होति.
छन्नं अज्झत्तिकायतनानं सुञ्ञगामेन सदिसता पाळियंयेव आगता. अयं पनेत्थ कम्मट्ठाननयो – यथा च ते छ चोरा छकुटिकं सुञ्ञं गामं पविसित्वा अपरापरं विचरन्ता किञ्चि अलभित्वा गामेन अनत्थिका होन्ति, एवमेवं भिक्खु छसु अज्झत्तिकायतनेसु अभिनिविसित्वा विचिनन्तो ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहेतब्बं किञ्चि अदिस्वा तेहि अनत्थिको होति. सो ‘‘विपस्सनं पट्ठपेस्सामी’’ति उपादारूपकम्मट्ठानवसेन चक्खुपसादादयो परिग्गहेत्वा ‘‘अयं रूपक्खन्धो’’ति ववत्थपेति, मनायतनं ‘‘अरूपक्खन्धो’’ति. इति सब्बानिपेतानि नामञ्चेव रूपञ्चाति नामरूपवसेन ववत्थपेत्वा, तेसं पच्चयं परियेसित्वा विपस्सनं वड्ढेत्वा, सङ्खारे सम्मसन्तो अनुपुब्बेन अरहत्ते पतिट्ठाति. इदं एकस्स भिक्खुनो याव अरहत्ता कम्मट्ठानं कथितं होति.
इदानि बाहिरानं गामघातकचोरेहि सदिसतं दस्सेन्तो चोरा गामघातकाति खोतिआदिमाह. तत्थ मनापामनापेसूति करणत्थे भुम्मं, मनापामनापेहीति अत्थो. तत्थ चोरेसु गामं हनन्तेसु पञ्च किच्चानि वत्तन्ति – चोरा ताव गामं परिवारेत्वा ठिता अग्गिं दत्वा कटकटसद्दं उट्ठापेन्ति, ततो मनुस्सा हत्थसारं गहेत्वा बहि निक्खमन्ति. ततो तेहि सद्धिं भण्डकस्स कारणा हत्थपरामासं करोन्ति. केचि पनेत्थ पहारं पापुणन्ति, केचि पहारट्ठाने पतन्ति, अवसेसे पन अरोगजने बन्धित्वा अत्तनो वसनट्ठानं नेत्वा रज्जुबन्धनादीहि बन्धित्वा दासपरिभोगेन परिभुञ्जन्ति.
तत्थ गामघातकचोरानं गामं परिवारेत्वा अग्गिदानं विय छसु द्वारेसु आरम्मणे आपाथगते किलेसपरिळाहुप्पत्ति वेदितब्बा, हत्थसारं आदाय बहि निक्खमनं विय. तङ्खणे कुसलधम्मं पहाय अकुसलसमङ्गिता, भण्डकस्स कारणा हत्थपरामसनापज्जनं विय दुक्कटदुब्भासितपाचित्तियथुल्लच्चयानं आपज्जनकालो, पहारलद्धकालो विय सङ्घादिसेसं आपज्जनकालो, पहारं लद्धा पन पहारट्ठाने पतितकालो विय पाराजिकं आपज्जित्वा अस्समणकालो, अवसेसजनस्स बन्धित्वा वसनट्ठानं नेत्वा दासपरिभोगेन परिभुञ्जनकालो विय तमेव आरम्मणं निस्साय सब्बेसं पस्सन्तानंयेव चूळसीलमज्झिमसीलमहासीलानि भिन्दित्वा सिक्खं पच्चक्खाय गिहिभावं आपज्जनकालो. तत्रस्स पुत्तदारं पोसेन्तस्स सन्दिट्ठिको दुक्खक्खन्धो वेदितब्बो, कालं कत्वा अपाये निब्बत्तस्स सम्परायिको.
इमानिपि बाहिरायतनानि एकस्स भिक्खुनो कम्मट्ठानवसेनेव कथितानि. एत्थ हि रूपादीनि चत्तारि उपादारूपानि, फोट्ठब्बायतनं तिस्सो धातुयो, धम्मायतने आपोधातुया सद्धिं ता चतस्सोति इमानि चत्तारि भूतानि, तेसं परिच्छेदवसेन आकासधातु, लहुतादिवसेन लहुतादयोति एवमिदं सब्बम्पि भूतुपादायरूपं रूपक्खन्धो, तदारम्मणा वेदनादयो चत्तारो अरूपक्खन्धा. तत्थ ‘‘रूपक्खन्धो रूपं, चत्तारो अरूपिनो खन्धा नाम’’न्ति. नामरूपं ववत्थपेत्वा पुरिमनयेनेव पटिपज्जन्तस्स याव अरहत्ता कम्मट्ठानं कथितं होति.
ओघानन्ति एत्थ दुरुत्तरणट्ठो ओघट्ठो. एते हि ‘‘सीलसंवरं पूरेत्वा अरहत्तं पापुणिस्सामी’’ति अज्झासयं समुट्ठापेत्वा कल्याणमित्ते निस्साय सम्मा वायमन्तेन तरितब्बा, येन वा तेन वा दुरुत्तरा. इमिना दुरुत्तरणट्ठेन ओघाति वुच्चन्ति. तेपि एकस्स भिक्खुनो कम्मट्ठानवसेन कथिता. चत्तारोपि हि एते एको सङ्खारक्खन्धो वाति. सेसं नन्दीरागे वुत्तनयेनेव योजेत्वा वित्थारेतब्बं.
सक्कायस्सेतं अधिवचनन्ति, सक्कायोपि हि आसीविसादीहि उदकण्णवस्स ओरिमतीरं विय चतुमहाभूतादीहि सासङ्को सप्पटिभयो, सोपि एकस्स भिक्खुनो कम्मट्ठानवसेनेव कथितो. सक्कायो हि तेभूमकपञ्चक्खन्धा, ते च समासतो नामरूपमेवाति. एवमेत्थ नामरूपववत्थानं आदिं कत्वा याव अरहत्ता कम्मट्ठानं वित्थारेतब्बन्ति.
निब्बानस्सेतं अधिवचनन्ति निब्बानञ्हि उदकण्णवस्स पारिमतीरं विय चतुमहाभूतादीहि खेमं अप्पटिभयं. वीरियारम्भस्सेतं अधिवचनन्ति एत्थ चित्तकिरियदस्सनत्थं हेट्ठा वुत्तवायाममेव वीरियन्ति गण्हित्वा दस्सेति. तिण्णो पारङ्गतोति तरित्वा पारं गतो.
तत्थ यथा सासङ्कओरिमतीरे ठितेन उदकण्णवं तरितुकामेन कतिपाहं वसित्वा सणिकं नावं सज्जेत्वा उदककीळं कीळन्तेन विय न नावा अभिरुहितब्बा. एवं करोन्तो हि अनारुळ्होव ब्यसनं पापुणाति. एवमेव किलेसण्णवं तरितुकामेन ‘‘तरुणो तावम्हि, महल्लककाले अट्ठङ्गिकमग्गकुल्लं बन्धिस्सामी’’ति पपञ्चो न कातब्बो. एवं करोन्तो हि महल्लककालं अपत्वापि विनासं पापुणाति, पत्वापि कातुं न सक्कोति. भद्देकरत्तादीनि पन अनुस्सरित्वा वेगेनेव अयं अरियमग्गकुल्लो बन्धितब्बो.
यथा च कुल्लं बन्धन्तस्स हत्थपादपारिपूरि इच्छितब्बा. कुण्ठपादो हि खञ्जपादो वा पतिट्ठातुं न सक्कोति, फणहत्थकादयो तिणपण्णादीनि गहेतुं न सक्कोन्ति. एवमिमम्पि अरियमग्गकुल्लं बन्धन्तस्स सीलपादानञ्चेव सद्धाहत्थस्स च पारिपूरि इच्छितब्बा. न हि दुस्सीलो अस्सद्धो सासने अप्पतिट्ठितो पटिपत्तिं अस्सद्दहन्तो अरियमग्गकुल्लं बन्धितुं सक्कोति. यथा च परिपुण्णहत्थपादोपि दुब्बलो ब्याधिपीळितो कुल्लं बन्धितुं न सक्कोति, थामसम्पन्नोव सक्कोति, एवं सीलवा सद्धोपि अलसो कुसीतो इमं मग्गकुल्लं बन्धितुं न सक्कोति, आरद्धवीरियोव सक्कोतीति इमं बन्धितुकामेन आरद्धवीरियेन भवितब्बं. यथा सो पुरिसो कुल्लं बन्धित्वा तीरे ठत्वा योजनवित्थारं उदकण्णवं ‘‘अयं मया पच्चत्तपुरिसकारं निस्साय नित्थरितब्बो’’ति मानसं बन्धति, एवं योगिनापि चङ्कमा ओरुय्ह ‘‘अज्ज मया चतुमग्गवज्झं किलेसण्णवं तरित्वा अरहत्ते पतिट्ठातब्ब’’न्ति मानसं बन्धितब्बं.
यथा च सो पुरिसो कुल्लं निस्साय उदकण्णवं तरन्तो गावुतमत्तं गन्त्वा निवत्तित्वा ओलोकेन्तो ‘‘एककोट्ठासं अतिक्कन्तोम्हि, अञ्ञे तयो सेसा’’ति जानाति, अपरम्पि गावुतमत्तं गन्त्वा निवत्तित्वा ओलोकेन्तो ‘‘द्वे अतिक्कन्तोम्हि, द्वे सेसा’’ति जानाति, अपरम्पि गावुतमत्तं गन्त्वा निवत्तित्वा ओलोकेन्तो ‘‘तयो अतिक्कन्तोम्हि, एको सेसो’’ति जानाति, तम्पि अतिक्कम्म निवत्तित्वा ओलोकेन्तो ‘‘चत्तारोपि मे कोट्ठसा अतिक्कन्ता’’ति जानाति, तञ्च कुल्लं पादेन अक्कमित्वा सोताभिमुखं खिपित्वा उत्तरित्वा तीरे तिट्ठति. एवं अयम्पि भिक्खु अरियमग्गकुल्लं निस्साय किलेसण्णवं तरन्तो सोतापत्तिमग्गेन पठममग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा ओलोकेन्तो ‘‘चतुमग्गवज्झानं मे किलेसानं एको कोट्ठासो पहीनो, इतरे तयो सेसा’’ति जानाति. पुन तथेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा सङ्खारे सम्मसन्तो सकदागामिमग्गेन दुतियमग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा, ओलोकेन्तो ‘‘चतुमग्गवज्झानं मे किलेसानं द्वे कोट्ठासा पहीना, इतरे द्वे सेसा’’ति जानाति. पुन तथेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा सङ्खारे सम्मसन्तो अनागामिमग्गेन ततियमग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा ओलोकेन्तो ‘‘चतुमग्गवज्झानं मे किलेसानं तयो कोट्ठासा पहीना, एको सेसो’’ति जानाति. पुन तथेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा सङ्खारे सम्मसन्तो अरहत्तमग्गेन चतुत्थमग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा ओलोकेन्तो ‘‘सब्बकिलेसा मे पहीना’’ति जानाति.
यथा सो पुरिसो तं कुल्लं सोते पवाहेत्वा उत्तरित्वा थले ठितो नगरं पविसित्वा उपरिपासादवरगतो ‘‘एत्तकेन वतम्हि अनत्थेन मुत्तो’’ति एकग्गचित्तो तुट्ठमानसो निसीदति, एवं तस्मिंयेव वा आसने अञ्ञेसु वा रत्तिट्ठानदिवाट्ठानादीसु यत्थ कत्थचि निसिन्नो ‘‘एत्तकेन वतम्हि अनत्थेन मुत्तो’’ति निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा एकग्गचित्तो तुट्ठमानसो निसीदति. इदं वा सन्धाय वुत्तं तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति खो, भिक्खवे, अरहतो एतं अधिवचनन्ति. एवं तावेत्थ नानाकम्मट्ठानानि कथितानि, समोधानेत्वा पन सब्बानिपि एकमेव कत्वा दस्सेतब्बानि. एकं कत्वा दस्सेन्तेनापि पञ्चक्खन्धवसेनेव विनिवत्तेतब्बानि.
कथं? एत्थ हि चत्तारि महाभूतानि अज्झत्तिकानि पञ्चायतनानि बाहिरानि पञ्चायतनानि धम्मायतने पन्नरस सुखुमरूपानि सक्कायस्स एकदेसोति अयं रूपक्खन्धो, मनायतनं विञ्ञाणक्खन्धो धम्मायतनेकदेसो चत्तारो ओघा सक्कायेकदेसोति इमे चत्तारो अरूपिनो खन्धा. तत्थ रूपक्खन्धो रूपं, चत्तारो अरूपिनो खन्धा नामन्ति इदं नामरूपं. तस्स नन्दीरागो कामोघो भवोघो धम्मायतनेकदेसो सक्कायेकदेसोति इमे पच्चया. इति सप्पच्चयं नामरूपं ववत्थपेति नाम. सप्पच्चयं नामरूपं ववत्थपेत्वा तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेत्वा सङ्खारे सम्मसन्तो अरहत्तं पापुणातीति इदं एकस्स भिक्खुनो निय्यानमुखं.
तत्थ चत्तारो महाभूता पञ्चुपादानक्खन्धा अज्झत्तिकबाहिरानि एकादसायतनानि धम्मायतनेकदेसो दिट्ठोघो अविज्जोघो सक्कायेकदेसोति इदं दुक्खसच्चं, नन्दीरागो धम्मायतनेकदेसो कामोघो भवोघो सक्कायेकदेसोति इदं समुदयसच्चं, पारिमतीरसङ्खातं निब्बानं निरोधसच्चं, अरियमग्गो मग्गसच्चं. तत्थ द्वे सच्चानि वट्टं, द्वे विवट्टं, द्वे लोकियानि, द्वे लोकुत्तरानीति चत्तारि सच्चानि सोळसहाकारेहि सट्ठिनयसहस्सेहि विभजित्वा दस्सेतब्बानीति. देसनापरियोसाने विपञ्चितञ्ञू पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसु. सुत्तं पन दुक्खलक्खणवसेन कथितं.