२. रथोपमसुत्तवण्णना

२३९. दुतिये सुखसोमनस्सबहुलोति कायिकसुखञ्चेव चेतसिकसोमनस्सञ्च बहुलं अस्साति सुखसोमनस्सबहुलो. योनि चस्स आरद्धा होतीति कारणञ्चस्स परिपुण्णं होति. आसवानं खयायाति इध आसवक्खयोति अरहत्तमग्गो अधिप्पेतो, तदत्थायाति अत्थो. ओधस्तपतोदोति रथमज्झे तिरियं ठपितपतोदो. येनिच्छकन्ति येन दिसाभागेन इच्छति. यदिच्छकन्ति यं यं गमनं इच्छति. सारेय्याति पेसेय्य. पच्चासारेय्याति पटिविनिवत्तेय्य. आरक्खायाति रक्खणत्थाय. संयमायाति वेगनिग्गहणत्थाय. दमायाति निब्बिसेवनत्थाय. उपसमायाति किलेसूपसमत्थाय.

एवमेव खोति एत्थ यथा अकुसलस्स सारथिनो अदन्ते सिन्धवे योजेत्वा विसममग्गेन रथं पेसेन्तस्स चक्कानिपि भिज्जन्ति, अक्खोपि सिन्धवानञ्च खुरा, अत्तनापि अनयब्यसनं पापुणाति, न च इच्छितिच्छितेन गमनेन सारेतुं सक्कोति; एवं छसु इन्द्रियेसु अगुत्तद्वारो भिक्खु न इच्छितिच्छितं समणरतिं अनुभवितुं सक्कोति. यथा पन छेको सारथि दन्ते सिन्धवे योजेत्वा, समे भूमिभागे रथं ओतारेत्वा रस्मियो गहेत्वा, सिन्धवानं खुरेसु सतिं ठपेत्वा, पतोदं आदाय निब्बिसेवने कत्वा, पेसेन्तो इच्छितिच्छितेन गमनेन सारेति. एवमेव छसु इन्द्रियेसु गुत्तद्वारो भिक्खु इमस्मिं सासने इच्छितिच्छितं समणरतिं अनुभोति, सचे अनिच्चानुपस्सनाभिमुखं ञाणं पेसेतुकामो होति, तदभिमुखं ञाणं गच्छति. दुक्खानुपस्सनादीसुपि एसेव नयो.

भोजने मत्तञ्ञूति भोजनम्हि पमाणञ्ञू. तत्थ द्वे पमाणानि – पटिग्गहणपमाणञ्च परिभोगपमाणञ्च. तत्थ पटिग्गहणपमाणे दायकस्स वसो वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो जानितब्बो. एवरूपो हि भिक्खु सचे देय्यधम्मो बहुको होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेन गण्हाति. सो ताय पटिग्गहणे मत्तञ्ञुताय अनुप्पन्नञ्च लाभं उप्पादेति, उप्पन्नञ्च थावरं करोति धम्मिकतिस्समहाराजकाले सत्तवस्सिको सामणेरो विय.

रञ्ञो किर पञ्चहि सकटसतेहि गुळं आहरिंसु. राजा ‘‘मनापो पण्णाकारो, अय्येहि विना न खादिस्सामा’’ति अड्ढतेय्यानि सकटसतानि महाविहारं पेसेत्वा सयम्पि भुत्तपातरासो अगमासि. भेरिया पहटाय द्वादस भिक्खुसहस्सानि सन्निपतिंसु. राजा एकमन्ते ठितो आरामिकं पक्कोसापेत्वा आह – ‘‘रञ्ञो नाम दाने पत्तपूरोव पमाणं, गहितभाजनं पूरेत्वाव देहि, सचे कोचि मत्तपटिग्गहणे ठितो न गण्हाति, मय्हं आरोचेय्यासी’’ति.

अथेको महाथेरो ‘‘महाबोधिमहाचेतियानि वन्दिस्सामी’’ति चेतियपब्बता आगन्त्वा, विहारं पविसन्तो महामण्डपट्ठाने भिक्खू गुळं गण्हन्ते दिस्वा पच्छतो आगच्छन्तं सामणेरं आह, ‘‘नत्थि ते गुळेन अत्थो’’ति. ‘‘आम, भन्ते, नत्थी’’ति. सामणेर मयं मग्गकिलन्ता, एकेन कपिट्ठफलमत्तेन पिण्डकेन अम्हाकं अत्थोति. सामणेरो थालकं नीहरित्वा थेरस्स वस्सग्गपटिपाटियं अट्ठासि. आरामिको गहणमानं पूरेत्वा उक्खिपि, सामणेरो अङ्गुलिं चालेसि. तात सामणेर, राजकुलानं दाने भाजनपूरमेव पमाणं, थालकपूरं गण्हाहीति. आम, उपासक, राजानो नाम महज्झासया होन्ति, अम्हाकं पन उपज्झायस्स एत्तकेनेव अत्थोति.

राजा तस्स कथं सुत्वा, ‘‘किं भो सामणेरो भणती’’ति? तस्स सन्तिकं गतो. आरामिको आह – ‘‘सामि, सामणेरस्स भाजनं खुद्दकं, बहुं न गण्हाती’’ति. राजा आह, ‘‘आनीतभाजनं पूरेत्वा गण्हथ, भन्ते’’ति. महाराज, राजानो नाम महज्झासया होन्ति, उक्खित्तभाजनं पूरेत्वाव दातुकामा, अम्हाकं पन उपज्झायस्स एत्तकेनेव अत्थोति. राजा चिन्तेसि – ‘‘अयं सत्तवस्सिकदारको, अज्जापिस्स मुखतो खीरगन्धो न मुच्चति, गहेत्वा कुटे वा कुटुम्बे वा पूरेत्वा स्वेपि पुनदिवसेपि खादिस्सामाति न वदति, सक्का बुद्धसासनं परिग्गहेतु’’न्ति पुरिसे आणापेसि, ‘‘भो, पसन्नोम्हि सामणेरस्स, इतरानिपि अड्ढतेय्यानि सकटसतानि आनेत्वा सघंस्स देथा’’ति.

सोयेव पन राजा एकदिवसं तित्तिरमंसं खादितुकामो चिन्तेसि – ‘‘सचे अहं अङ्गारपक्कं तित्तिरमंसं खादितुकामोस्मीति अञ्ञस्स कथेस्सामि, समन्ता योजनट्ठाने तित्तिरसमुग्घातं करिस्सन्ती’’ति उप्पन्नं पिपासं अधिवासेन्तो तीणि संवच्छरानि वीतिनामेसि. अथस्स कण्णेसु पुब्बो सण्ठासि, सो अधिवासेतुं असक्कोन्तो ‘‘अत्थि नु खो, भो, अम्हाकं कोचि उपट्ठाकुपासको सीलरक्खको’’ति पुच्छि. आम, देव, अत्थि, तिस्सो नाम सो अखण्डसीलं रक्खतीति. अथ नं वीमंसितुकामो पक्कोसापेसि. सो आगन्त्वा राजानं वन्दित्वा अट्ठासि. ततो नं आह – ‘‘त्वं, तात, तिस्सो नामा’’ति? ‘‘आम देवा’’ति. तेन हि गच्छाति. तस्मिं गते एकं कुक्कुटं आहरापेत्वा एकं पुरिसं आणापेसि, ‘‘गच्छ तिस्सं वदाहि, इमं तीहि पाकेहि पचित्वा अम्हाकं उपट्ठापेही’’ति. सो गन्त्वा तथा अवोच. सो आह – ‘‘सचे, भो, अयं मतको अस्स, यथा जानामि, तथा पचित्वा उपट्ठहेय्यं. पाणातिपातं पनाहं न करोमी’’ति. सो आगन्त्वा रञ्ञो आरोचेसि.

राजा पुन ‘‘एकवारं गच्छा’’ति पेसेसि. सो गन्त्वा, ‘‘भो, राजुपट्ठानं नाम भारियं, मा एवं करि, पुनपि सीलं सक्का समादातुं, पचेत’’न्ति आह. अथ नं तिस्सो अवोच, ‘‘भो, एकस्मिं नाम अत्तभावे धुवं एकं मरणं, नाहं पाणातिपातं करिस्सामी’’ति. सो पुनपि रञ्ञो आरोचेसि. राजा ततियम्पि पेसेत्वा असम्पटिच्छन्तं पक्कोसापेत्वा अत्तना पुच्छि. रञ्ञोपि तथेव पटिवचनं अदासि. अथ राजा पुरिसे आणापेसि, ‘‘अयं रञ्ञो आणं कोपेति, गच्छथेतस्स आघातनभण्डिकायं ठपेत्वा, सीसं छिन्दथा’’ति. रहो च पन नेसं सञ्ञमदासि – ‘‘इमं सन्तज्जयमाना नेत्वा सीसमस्स आघातनभण्डिकायं ठपेत्वा आगन्त्वा मय्हं आरोचेथा’’ति.

ते तं आघातनभण्डिकायं निपज्जापेत्वा तमस्स कुक्कुटं हत्थेसु ठपयिंसु. सो तं हदये ठपेत्वा ‘‘अहं, तात, मम जीवितं तुय्हं देमि, तव जीवितं अहं गण्हामि, त्वं निब्भयो गच्छा’’ति विस्सज्जेसि. कुक्कुटो पक्खे पप्फोटेत्वा आकासेन गन्त्वा वटरुक्खे निलीयि. तस्स कुक्कुटस्स अभयदिन्नट्ठानं कुक्कुटगिरि नाम जातं.

राजा तं पवत्तिं सुत्वा अमच्चपुत्तं पक्कोसापेत्वा सब्बाभरणेहि अलङ्करित्वा आह – ‘‘तात, मया त्वं एतदत्थमेव वीमंसितो, मय्हं तित्तिरमंसं खादितुकामस्स तीणि संवच्छरानि अतिक्कन्तानि, सक्खिस्ससि मे तिकोटिपरिसुद्धं कत्वा उपट्ठापेतु’’न्ति. ‘‘एतं नाम, देव, मय्हं कम्म’’न्ति निक्खमित्वा द्वारन्तरे ठितो एकं पुरिसं पातोव तयो तित्तिरे गहेत्वा पविसन्तं दिस्वा, द्वे कहापणे दत्वा तित्तिरे आदाय परिसोधेत्वा, जीरकादीहि वासेत्वा, अङ्गारेसु सुपक्के पचित्वा रञ्ञो उपट्ठापेसि. राजा महातले सिरीपल्लङ्के निसिन्नोव एकं गहेत्वा थोकं छिन्दित्वा मुखे पक्खिपि, तावदेवस्स सत्तरसहरणीसहस्सानि फरित्वा अट्ठासि.

तस्मिं समये भिक्खुसङ्घं सरित्वा, ‘‘मादिसो नाम पथविस्सरो राजा तित्तिरमंसं खादितुकामो तीणि संवच्छरानि न लभि, अपच्चमानो भिक्खुसङ्घो कुतो लभिस्सती’’ति? मुखे पक्खित्तक्खण्डं भूमियं छड्डेसि. अमच्चपुत्तो जण्णुकेहि पतित्वा मुखेन गण्हि. राजा ‘‘अपेहि, तात, जानामहं तव निद्दोसभावं, इमिना नाम कारणेन मया एतं छड्डित’’न्ति कथेत्वा, ‘‘सेसकं तथेव सङ्गोपेत्वा ठपेही’’ति आह.

पुनदिवसे राजकुलूपको थेरो पिण्डाय पाविसि. अमच्चपुत्तो तं दिस्वा पत्तं गहेत्वा राजगेहं पवेसेसि. अञ्ञतरो वुड्ढपब्बजितोपि थेरस्स पच्छासमणो विय हुत्वा अनुबन्धन्तो पाविसि. थेरो ‘‘रञ्ञा पक्कोसापितभिक्खु भविस्सती’’ति पमज्जि. अमच्चपुत्तोपि ‘‘थेरस्स उपट्ठाको भविस्सती’’ति पमादं आपज्जि. तेसं निसीदापेत्वा यागुं अदंसु. यागुया पीताय राजा तित्तिरे उपनेसि. थेरो एकं गण्हि, इतरोपि एकं गण्हि. राजा ‘‘अनुभागो अत्थि, अनापुच्छित्वा खादितुं न युत्त’’न्ति महाथेरं आपुच्छि. थेरो हत्थं पिदहि, महल्लकत्थेरो सम्पटिच्छि. राजा अनत्तमनो हुत्वा कतभत्तकिच्चं थेरं पत्तं आदाय अनुगच्छन्तो आह – ‘‘भन्ते, कुलगेहं आगच्छन्तेहि उग्गहितवत्तं भिक्खुं गहेत्वा आगन्तुं वट्टती’’ति. थेरो तस्मिं खणे अञ्ञासि ‘‘न एस रञ्ञा पक्कोसापितो’’ति.

पुनदिवसे उपट्ठाकसामणेरं गहेत्वा पाविसि. राजा तदापि यागुया पीताय तित्तिरे उपनामेसि. थेरो एकं अग्गहेसि, सामणेरो अङ्गुलिं चालेत्वा मज्झे छिन्दापेत्वा एककोट्ठासमेव अग्गहेसि. राजा तं कोट्ठासं महाथेरस्स उपनामेसि. महाथेरो हत्थं पिदहि, सामणेरोपि पिदहि. राजा अविदूरे निसीदित्वा खण्डाखण्डं छिन्दित्वा खादन्तो ‘‘उग्गहितवत्ते निस्साय दियड्ढतित्तिरे खादितुं लभिम्हा’’ति आह. तस्स मंसे खादितमत्तेव कण्णेहि पुब्बो निक्खमि. ततो मुखं विक्खालेत्वा सामणेरं उपसङ्कमित्वा, ‘‘पसन्नोस्मि, तात, अट्ठ ते धुवभत्तानि देमी’’ति आह. अहं, महाराज, उपज्झायस्स दम्मीति. अपरानि अट्ठ देमीति. तानि अम्हाकं आचरियस्स दम्मीति. अपरानिपि अट्ठ देमीति. तानि समानुपज्झायानं दम्मीति. अपरानिपि अट्ठ देमीति. तानि भिक्खुसङ्घस्स दम्मीति. अपरानिपि अट्ठ देमीति. सामणेरो अधिवासेसि. एवं पटिग्गहणमत्तं जानन्तो अनुप्पन्नञ्चेव लाभं उप्पादेति, उप्पन्नञ्च थावरं करोति. इदं पटिग्गहणपमाणं नाम. तत्थ परिभोगपमाणं पच्चवेक्खणपयोजनं, ‘‘इदमत्थियं भोजनं भुञ्जामी’’ति पन पच्चवेक्खितपरिभोगस्सेव पयोजनत्ता परिभोगपमाणंयेव नाम, तं इध अधिप्पेतं. तेनेव पटिसङ्खा योनिसोतिआदिमाह, इतरम्पि पन वट्टतियेव.

सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ती’’ति (अ. नि. ४.२४६) अयं कामभोगिसेय्या. तेसञ्हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि.

‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या. पेता हि अप्पमंसलोहितत्ता अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सयन्ति.

‘‘येभुय्येन, भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सयती’’ति अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं, पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति, दिवसम्पि सयित्वा पबुज्झमानो न उत्रसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया सूरभावस्स च अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति.

चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.

पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय, ईसकं अतिक्कम्म ठपेत्वा. गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा पन न सङ्घंट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति. तस्मा एवं सेय्यं कप्पेति.

सतो सम्पजानोति सतिया चेव सम्पजञ्ञेन च समन्नागतो. कथं निद्दायन्तो सतो सम्पजानो होतीति? सतिसम्पजञ्ञस्स अप्पहानेन. अयञ्हि दिवसञ्चेव सकलयामञ्च आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा पठमयामावसाने चङ्कमा ओरुय्ह पादे धोवन्तोपि मूलकम्मट्ठानं अविजहन्तोव धोवति, तं अविजहन्तोव द्वारं विवरति, मञ्चे निसीदति, अविजहन्तोव निद्दं ओक्कमति. पबुज्झन्तो पन मूलकम्मट्ठानं गहेत्वाव पबुज्झति. एवं निद्दं ओक्कमन्तोपि सतो सम्पजानो होति. एवं पन ञाणधातुकन्ति न रोचयिंसु.

वुत्तनयेन पनेस चित्तं परिसोधेत्वा पठमयामावसाने ‘‘उपादिन्नकं सरीरं निद्दाय समस्सासेस्सामी’’ति चङ्कमा ओरुय्ह मूलकम्मट्ठानं अविजहन्तोव पादे धोवति, द्वारं विवरति, मञ्चे पन निसीदित्वा मूलकम्मट्ठानं पहाय, ‘‘खन्धाव खन्धेसु, धातुयोव धातूसु पटिहञ्ञन्ती’’ति सेनासनं पच्चवेक्खन्तो कमेन निद्दं ओक्कमति, पबुज्झन्तो पन मूलकम्मट्ठानं गहेत्वाव पबुज्झति. एवं निद्दं ओक्कमन्तोपि सतो सम्पजानो नाम होतीति वेदितब्बो.

इति इमस्मिं सुत्ते तिवङ्गिका पुब्बभागविपस्सनाव कथिता. एत्तकेनेव पन वोसानं अनापज्जित्वा तानेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा विपस्सनं वड्ढेत्वा भिक्खु अरहत्तं पापुणातीति. एवं याव अरहत्ता देसना कथेतब्बा.