१. आनन्दसुत्तवण्णना
८३. थेरवग्गस्स पठमे मन्ताणिपुत्तोति, मन्ताणिया नाम ब्राह्मणिया पुत्तो. उपादायाति आगम्म आरब्भ सन्धाय पटिच्च. अस्मीति होतीति अस्मीति एवं पवत्तं तण्हामानदिट्ठिपपञ्चत्तयं होति. दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. मण्डनकजातिकोति मण्डनकसभावो मण्डनकसीलो. मुखनिमित्तन्ति मुखपटिबिम्बं. तञ्हि परिसुद्धं आदासमण्डलं पटिच्च पञ्ञायति. किं पन तं ओलोकयतो सकमुखं पञ्ञायति, परमुखन्ति? यदि सकं भवेय्य, परम्मुखं हुत्वा पञ्ञायेय्य, अथ परस्स भवेय्य, वण्णादीहि असदिसं हुत्वा पञ्ञायेय्य. तस्मा न तं अत्तनो, न परस्स, आदासं पन निस्साय निभासरूपं नाम तं पञ्ञायतीति वदन्ति. अथ यं उदके पञ्ञायति, तं केन कारणेनाति? महाभूतानं विसुद्धताय. धम्मो मे अभिसमितोति मया ञाणेन चतुसच्चधम्मो अभिसमागतो, सोतापन्नोस्मि जातोति कथेसि. पठमं.