१०. पुण्णमसुत्तवण्णना
८२. दसमे तदहुपोसथेतिआदि पवारणसुत्ते वित्थारितमेव. किञ्चिदेव देसन्ति किञ्चि कारणं. सके आसने निसीदित्वा पुच्छ यदाकङ्खसीति कस्मा एवमाह? सो किर भिक्खु पञ्चसतभिक्खुपरिवारो. आचरिये पन ठितके पुच्छन्ते सचे ते भिक्खू निसीदन्ति, सत्थरि गारवं कतं होति, आचरिये अगारवं. सचे उट्ठहन्ति, आचरिये गारवं कतं होति, सत्थरि अगारवं. इति नेसं चित्तं अनेकग्गं भविस्सति, देसनं सम्पटिच्छितुं न सक्खिस्सन्ति. तस्मिं पन निसीदित्वा पुच्छन्ते तेसं चित्तं एकग्गं भविस्सति, देसनं सम्पटिच्छितुं सक्खिस्सन्तीति ञत्वा भगवा एवमाह. इमे नु खो, भन्तेति अयं थेरो पञ्चन्नं भिक्खुसतानं आचरियो, पञ्चक्खन्धमत्तम्पि नप्पजानातीति न वत्तब्बो. पञ्हं पुच्छन्तेन पन ‘‘इमे पञ्चुपादानक्खन्धा, न अञ्ञे’’ति एवं जानन्तेन विय हुत्वा पुच्छितुं न वट्टति, तस्मा अजानन्तो विय पुच्छति. तेपि चस्स अन्तेवासिका ‘‘अम्हाकं आचरियो ‘अहं जानामी’ति न कथेति, सब्बञ्ञुतञ्ञाणेन पन सद्धिं संसन्दित्वाव कथेती’’ति सोतब्बं सद्धातब्बं मञ्ञिस्सन्तीतिपि अजानन्तो विय पुच्छति.
छन्दमूलकाति तण्हाछन्दमूलका. न खो भिक्खु तञ्ञेव उपादानं ते पञ्चुपादानक्खन्धाति यस्मा छन्दरागमत्तं पञ्चक्खन्धा न होति, तस्मा इदं वुत्तं. यस्मा पन सहजाततो वा आरम्मणतो वा खन्धे मुञ्चित्वा उपादानं नत्थि, तस्मा नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानन्ति वुत्तं. तण्हासम्पयुत्तस्मिञ्हि चित्ते वत्तमाने तंचित्तसमुट्ठानरूपं रूपक्खन्धो, ठपेत्वा तं तण्हं सेसा अरूपधम्मा चत्तारो खन्धाति सहजाततोपि खन्धे मुञ्चित्वा उपादानं नत्थि. उपादानस्स पन रूपादीसु अञ्ञतरं आरम्मणं कत्वा उप्पज्जनतो आरम्मणतोपि पञ्चक्खन्धे मुञ्चित्वा उपादानं नत्थि. छन्दरागवेमत्तताति छन्दरागनानत्तं. एवं खो भिक्खूति एवं रूपारम्मणस्स छन्दरागस्स वेदनादीसु अञ्ञतरं आरम्मणं अकरणतो सिया छन्दरागवेमत्तता. खन्धाधिवचनन्ति खन्धाति अयं पञ्ञत्ति. अयं पन अनुसन्धि न घटियति, किञ्चापि न घटियति, सानुसन्धिकाव पुच्छा, सानुसन्धिकं विस्सज्जनं. अयञ्हि थेरो तेसं तेसं भिक्खूनं अज्झासयेन पुच्छति, सत्थापि तेसं तेसं अज्झासयेनेव विस्सज्जेति. सेसं सब्बत्थ उत्तानमेव. दसमं.
इमस्स च पन वग्गस्स एकेकस्मिं सुत्ते पञ्चसता पञ्चसता भिक्खू अरहत्तं पत्ताति.
खज्जनीयवग्गो अट्ठमो.