३. अञ्ञतरभिक्खुसुत्तवण्णना

३५. ततिये रूपञ्चे, भन्ते, अनुसेतीति यदि रूपं अनुसेति. तेन सङ्खं गच्छतीति कामरागादीसु येन अनुसयेन तं रूपं अनुसेति, तेनेव अनुसयेन ‘‘रत्तो दुट्ठो मूळ्हो’’ति पण्णत्तिं गच्छति. न तेन सङ्खं गच्छतीति तेन अभूतेन अनुसयेन ‘‘रत्तो दुट्ठो मूळ्हो’’ति सङ्खं न गच्छतीति. ततियं.