२. दुतियअस्सुतवासुत्तवण्णना

६२. दुतिये सुखवेदनियन्ति सुखवेदनाय पच्चयं. फस्सन्ति चक्खुसम्फस्सादिं. ननु च चक्खुसम्फस्सो सुखवेदनाय पच्चयो न होतीति? सहजातपच्चयेन न होति, उपनिस्सयपच्चयेन पन जवनवेदनाय होति, तं सन्धायेतं वुत्तं. सोतसम्फस्सादीसुपि एसेव नयो. तज्जन्ति तज्जातिकं तस्सारुप्पं, तस्स फस्सस्स अनुरूपन्ति अत्थो. दुक्खवेदनियन्तिआदि वुत्तनयेनेव वेदितब्बं. सङ्घट्टनसमोधानाति सङ्घट्टनेन चेव समोधानेन च, सङ्घट्टनसम्पिण्डनेनाति अत्थो. उस्माति उण्हाकारो. तेजो अभिनिब्बत्ततीति अग्गिचुण्णो निक्खमतीति न गहेतब्बं, उस्माकारस्सेव पन एतं वेवचनं. तत्थ द्विन्नं कट्ठानन्ति द्विन्नं अरणीनं. तत्थ अधोअरणी विय वत्थु, उत्तरारणी विय आरम्मणं, सङ्घट्टनं विय फस्सो, उस्माधातु विय वेदना. दुतियं.