८. तिम्बरुकसुत्तवण्णना
१८. अट्ठमे सा वेदनातिआदि ‘‘सयंकतं सुखदुक्ख’’न्ति लद्धिया निसेधनत्थं वुत्तं. एत्थापि सतोति भुम्मत्थेयेव सामिवचनं. तत्रायं अत्थदीपना – ‘‘सा वेदना, सो वेदियती’’ति खो, तिम्बरुक, आदिम्हियेव एवं सति ‘‘सयंकतं सुखदुक्ख’’न्ति अयं लद्धि होति. एवञ्हि सति वेदनाय एव वेदना कता होति. एवञ्च वदन्तो इमिस्सा वेदनाय पुब्बेपि अत्थितं अनुजानाति, सस्सतं दीपेति सस्सतं गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, एतं सस्सतं उपगच्छतीति अत्थो. पुरिमञ्हि अत्थं सन्धायेवेतं भगवता वुत्तं भविस्सति, तस्मा अट्ठकथायं तं योजेत्वावस्स अत्थो दीपितो. एवम्पाहं न वदामीति अहं ‘‘सा वेदना, सो वेदियती’’ति एवम्पि न वदामि. ‘‘सयंकतं सुखदुक्ख’’न्ति एवम्पि न वदामीति अत्थो.
अञ्ञा वेदनातिआदि ‘‘परंकतं सुखदुक्ख’’न्ति लद्धिया पटिसेधनत्थं वुत्तं. इधापि अयं अत्थयोजना –‘‘अञ्ञा वेदना अञ्ञो वेदियती’’ति खो, तिम्बरुक, आदिम्हियेव एवं सति पच्छा या पुरिमपक्खे कारकवेदना, सा उच्छिन्ना. ताय पन कतं अञ्ञो वेदियतीति एवं उप्पन्नाय उच्छेददिट्ठिया सद्धिं सम्पयुत्ताय वेदनाय अभितुन्नस्स सतो ‘‘परंकतं सुखदुक्ख’’न्ति अयं लद्धि होति. एवञ्च वदन्तो कारको उच्छिन्नो, अञ्ञेन पटिसन्धि गहिताति उच्छेदं दीपेति, उच्छेदं गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, एतं उच्छेदं उपगच्छतीति अत्थो. इधापि हि इमानि पदानि अट्ठकथायं आहरित्वा योजितानेव. इमस्मिं सुत्ते वेदनासुखदुक्खं कथितं. तञ्च खो विपाकसुखदुक्खमेव वट्टतीति वुत्तं. अट्ठमं.