९. बालपण्डितसुत्तवण्णना
१९. नवमे अविज्जानीवरणस्साति अविज्जाय निवारितस्स. एवमयं कायो समुदागतोति एवं अविज्जाय निवारितत्ता तण्हाय च सम्पयुत्तत्तायेव अयं कायो निब्बत्तो. अयञ्चेव कायोति अयञ्चस्स अत्तनो सविञ्ञाणको कायो. बहिद्धा च नामरूपन्ति बहिद्धा च परेसं सविञ्ञाणको कायो. अत्तनो च परस्स च पञ्चहि खन्धेहि छहि आयतनेहि चापि अयं अत्थो दीपेतब्बोव. इत्थेतं द्वयन्ति एवमेतं द्वयं. द्वयं पटिच्च फस्सोति अञ्ञत्थ चक्खुरूपादीनि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अज्झत्तिकबाहिरानि आयतनानि. महाद्वयं नाम किरेतं. सळेवायतनानीति सळेव फस्सायतनानि फस्सकारणानि. येहि फुट्ठोति येहि कारणभूतेहि आयतनेहि उप्पन्नेन फस्सेन फुट्ठो. अञ्ञतरेनाति एत्थ परिपुण्णवसेन अञ्ञतरता वेदितब्बा. तत्राति तस्मिं बालपण्डितानं कायनिब्बत्तनादिम्हि. को अधिप्पयासोति को अधिकपयोगो.
भगवंमूलकाति भगवा मूलं एतेसन्ति भगवंमूलका. इदं वुत्तं होति – इमे, भन्ते, अम्हाकं धम्मा पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता, तस्मिं परिनिब्बुते एकं बुद्धन्तरं अञ्ञो समणो वा ब्राह्मणो वा इमे धम्मे उप्पादेतुं समत्थो नाम नाहोसि, भगवता पन नो इमे धम्मा उप्पादिता. भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामाति एवं भगवंमूलका नो, भन्ते, धम्माति. भगवंनेत्तिकाति भगवा हि धम्मानं नेता विनेता अनुनेता, यथासभावतो पाटियेक्कं पाटियेक्कं नामं गहेत्वा दस्सेताति धम्मा भगवंनेत्तिका नाम होन्ति. भगवंपटिसरणाति चतुभूमकधम्मा सब्बञ्ञुतञ्ञाणस्स आपाथं आगच्छमाना भगवति पटिसरन्ति नामाति भगवंपटिसरणा. पटिसरन्तीति समोसरन्ति. अपिच महाबोधिमण्डे निसिन्नस्स भगवतो पटिवेधवसेन फस्सो आगच्छति ‘‘अहं भगवा किन्नामो’’ति? त्वं फुसनट्ठेन फस्सो नाम. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं आगच्छति ‘‘अहं भगवा किन्नाम’’न्ति, त्वं विजाननट्ठेन विञ्ञाणं नामाति एवं चतुभूमकधम्मानं यथासभावतो पाटियेक्कं पाटियेक्कं नामं गण्हन्तो भगवा धम्मे पटिसरतीति भगवंपटिसरणा. भगवन्तंयेव पटिभातूति भगवतोव एतस्स भासितस्स अत्थो उपट्ठातु, तुम्हेयेव नो कथेत्वा देथाति अत्थो.
सा चेव अविज्जाति एत्थ किञ्चापि सा अविज्जा च तण्हा च कम्मं जवापेत्वा पटिसन्धिं आकड्ढित्वा निरुद्धा, यथा पन अज्जापि यं हिय्यो भेसज्जं पीतं, तदेव भोजनं भुञ्जाति सरिक्खकत्तेन तदेवाति वुच्चति, एवमिधापि सा चेव अविज्जा सा च तण्हाति इदम्पि सरिक्खकत्तेन वुत्तं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. दुक्खक्खयायाति वट्टदुक्खस्स खयत्थाय. कायूपगो होतीति अञ्ञं पटिसन्धिकायं उपगन्ता होति. यदिदं ब्रह्मचरियवासोति यो अयं मग्गब्रह्मचरियवासो, अयं बालतो पण्डितस्स विसेसोति दस्सेति. इति इमस्मिं सुत्ते सब्बोपि सपटिसन्धिको पुथुज्जनो ‘‘बालो’’ति, अप्पटिसन्धिको खीणासवो ‘‘पण्डितो’’ति वुत्तो. सोतापन्नसकदागामिअनागामिनो पन ‘‘पण्डिता’’ति वा ‘‘बाला’’ति वा न वत्तब्बा, भजमाना पन पण्डितपक्खं भजन्ति. नवमं.