८. पठमकुण्डलीविमानवण्णना

अलङ्कतो मल्यधरो सुवत्थोति कुण्डलीविमानं. तस्स का उपत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन द्वे अग्गसावका सपरिवारा कासीसु चारिकं चरन्ता सूरियत्थङ्गमनवेलायं अञ्ञतरं विहारं पापुणिंसु. तं पवत्तिं सुत्वा तस्स विहारस्स गोचरगामे अञ्ञतरो उपासको थेरे उपसङ्कमित्वा वन्दित्वा पादधोवनं पादब्भञ्जनतेलं मञ्चपीठं पच्चत्थरणं पदीपियञ्च उपनेत्वा स्वातनाय च निमन्तेत्वा दुतियदिवसे महादानं पवत्तेसि, थेरा तस्स अनुमोदनं वत्वा पक्कमिंसु. सो अपरेन समयेन कालं कत्वा तावतिंसेसु द्वादसयोजनिके कनकविमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानत्थेरो इमाहि गाथाहि पटिपुच्छि –

१०९४. ‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

१०९५. ‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

१०९६. ‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स इमाहि गाथाहि ब्याकासि –

१०९७. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०९८. ‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे सीलवन्ते;

सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते तण्हक्खयूपपन्ने;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

१०९९. ‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

१०९४. तत्थ सुकुण्डलीति सुन्दरेहि कुण्डलेहि अलङ्कतकण्णो. ‘‘सकुण्डली’’तिपि पाठो, सदिसं कुण्डलं सकुण्डलं, तं अस्स अत्थीति सकुण्डली, युत्तकुण्डली अञ्ञमञ्ञञ्च तुय्हञ्च अनुच्छविककुण्डलीति अत्थो. कप्पितकेसमस्सूति सम्माकप्पितकेसमस्सु. आमुत्तहत्थाभरणोति पटिमुक्कअङ्गुलियादिहत्थाभरणो.

१०९८. तण्हक्खयूपपन्नेति तण्हक्खयं अरहत्तं, निब्बानमेव वा उपगते, अधिगतवन्तेति अत्थो. सेसं वुत्तनयमेव.

पठमकुण्डलीविमानवण्णना निट्ठिता.