५. द्वारपालकविमानवण्णना
उच्चमिदं मणिथूणन्ति द्वारपालकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन च समयेन राजगहे अञ्ञतरो उपासको चत्तारि निच्चभत्तानि सङ्घस्स देति. तस्स पन गेहं परियन्ते ठितं चोरभयेन येभुय्येन पिहितद्वारमेव होति. भिक्खू गन्त्वा कदाचि द्वारस्स पिहितत्ता भत्तं अलद्धाव पटिगच्छन्ति. उपासको भरियं आह ‘‘किं, भद्दे, अय्यानं सक्कच्चं भिक्खा दीयती’’ति? सा आह ‘‘एकेसु दिवसेसु अय्या नागमिंसू’’ति. ‘‘किं कारण’’न्ति? ‘‘द्वारस्स पिहितत्ता मञ्ञे’’ति. तं सुत्वा उपासको संवेगप्पत्तो हुत्वा एकं पुरिसं द्वारपालं कत्वा ठपेसि ‘‘त्वं अज्जतो पट्ठाय द्वारं रक्खन्तो निसीद, यदा च अय्या आगमिस्सन्ति, तदा ते पवेसेत्वा पविट्ठानं नेसं पत्तपटिग्गहणआसनपञ्ञापनादि सब्बं युत्तपयुत्तं जानाही’’ति. सो ‘‘साधू’’ति तथा करोन्तो भिक्खूनं सन्तिके धम्मं सुत्वा उप्पन्नसद्धो कम्मफलं सद्दहित्वा सरणेसु च सीलेसु च पतिट्ठहि, सक्कच्चं भिक्खू उपट्ठहि.
अपरभागे निच्चभत्तदायको उपासको कालं कत्वा यामेसु निब्बत्ति. द्वारपालो पन सक्कच्चं भिक्खूनं उपट्ठहित्वा परस्स परिच्चागे वेय्यावच्चकरणेन अनुमोदनेन च तावतिंसेसु उप्पज्जि. तस्स द्वादसयोजनिकं कनकविमानन्तिआदि सब्बं कक्कटकविमाने वुत्तनयेनेव वेदितब्बं. पुच्छाविस्सज्जनगाथा एवमागता –
९१८. ‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
९१९. ‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
९२०. ‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
९२२. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.
९२३. ‘‘दिब्बं ममं वस्ससहस्समायु, वाचाभिगीतं मनसा पवत्तितं;
एत्तावता ठस्सति पुञ्ञकम्मो, दिब्बेहि कामेहि समङ्गिभूतो.
९२४. ‘‘तेन मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
९२३. तत्थ दिब्बं ममं वस्ससहस्समायूति यस्मिं देवनिकाये सयं उप्पन्नो, तेसं तावतिंसदेवानं आयुप्पमाणमेव वदति. तेसञ्हि मनुस्सानं गणनाय वस्ससतं एको रत्तिदिवो, ताय रत्तिया तिंसरत्तिको मासो, तेन मासेन द्वादसमासिको संवच्छरो, तेन संवच्छरेन सहस्ससंवच्छरानि आयु, तं मनुस्सानं गणनाय तिस्सो वस्सकोटियो सट्ठि च वस्ससतसहस्सानि होन्ति. वाचाभिगीतन्ति वाचाय अभिगीतं, ‘‘आगच्छन्तु अय्या, इदं आसनं पञ्ञत्तं, इध निसीदथा’’तिआदिना, ‘‘किं अय्यानं सरीरस्स आरोग्यं, किं वसनट्ठानं फासुक’’न्तिआदिना पटिसन्थारवसेन च वाचाय कथितमत्तं. मनसा पवत्तितन्ति ‘‘इमे अय्या पेसला ब्रह्मचारिनो धम्मचारिनो’’तिआदिना चित्तेन पवत्तितं पसादमत्तं, न पन मम सन्तकं किञ्चि परिच्चत्तं अत्थीति दस्सेति. एत्तावताति एत्तकेन एवं कथनमत्तेन पसादमत्तेनपि. ठस्सति पुञ्ञकम्मोति कतपुञ्ञो नाम हुत्वा देवलोके ठस्सति चिरं पवत्तिस्सति, तिट्ठन्तो च दिब्बेहि कामेहि समङ्गीभूतो तस्मिं देवनिकाये देवानं वलञ्जनियामेनेव दिब्बेहि पञ्चहि कामगुणेहि समङ्गीभूतो समन्नागतो हुत्वा इन्द्रियानि परिचारेन्तो विहरतीति अत्थो. सेसं वुत्तनयमेव.
द्वारपालकविमानवण्णना निट्ठिता.